________________
३२ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययन. कुर्वन्नात्मा न विद्यते। सर्वव्यापित्वेनामूर्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वं सांख्यमते । (एवंतेउत्ति) एवमुक्तप्रकारेण ते सांख्याःप्रगल्लिताः प्रागल्ल्यवंतो धाष्टर्यवंतो विद्यते॥१३॥ सांप्रतं तजीवतहरीराकारकवा दिनोमतं निराकुर्वन्नाह । (जेतेइति)। ये तावडरीरा ऽव्यतिरिक्तात्मवादिन एवं पूर्वोक्तयुक्त्या जूताऽव्यतिरिक्तमात्मानमन्यूपगतवंतस्ते निराकि यंते । तेषां लोकश्चतुर्गतिनवरूपः सुनग, उनंग, सुरुप, कुरुपेश्वर, दारिद्या,दिगत्या जगदैचित्र्यरूपः कुतः स्यात् ।थात्माऽनंगीकारे पुण्यपापानावे कथं विश्ववैचित्र्यमित्यर्थः। तेच नास्तिकास्तमसोऽझानरूपात् तमो यांति । ज्ञानावरणावृताः पुनर्झनावरणरूपं तमः प्रविशति । अथवा सदिवेकप्रध्वंसित्वात्तमोकुवं तस्मात्तमो महाकुःखं यांति । यतस्ते मंदा जडाः परलोकनिरपेदत्वाच्चाऽननिश्रिताः। अयमेवश्लोकोऽकारकवादिम तमाश्रित्य किंचिदिवियते । येवादिनोऽकारकाः सांख्याः संति तेषां लोको जरामरण शोकहर्षादिरूपो नारकतिर्यगादिरूपो निष्क्रिये सत्यात्मनि कुतः कस्मातोः स्या न स्यादित्यर्थः। ततश्चदृष्टेष्टबाधारूपात्तमसोऽज्ञानाचे तमो वेदनास्थानं यांति । यतो मं दाथारंननिश्रिताश्चेति सांरख्यमतं निरस्तं ॥ १४ ॥
॥टीका-इदानीमकर्मकवादिमतानिधित्सयाऽह । (कुवंचेत्यादि) कुर्वन्निति स्वतंत्रः कर्तानि धीयते ॥ अत्मनश्चामूर्तत्वात्सर्वव्यापित्वाच्च कर्तृत्वाऽनुपपत्तिः॥अतएवहेतोः कारयितृत्वम प्यात्मनोनुपपन्नमिति । पूर्वश्वशब्दोऽतीतानागतकर्तृत्वनिषेधको वितीयः समुच्चयार्थः। त तश्चात्मा न स्वयं क्रियायां प्रवर्तते नाप्यन्यं प्रवर्तयति । यद्यपि च स्थितिक्रियां मुझप्र तिबिंबोदयन्यायेन च सुजिक्रियां करोति तथापि समस्त क्रियाकर्तृत्वं तस्य नास्तीत्येतद शयति । (सवंकुवंणविङइत्ति) सर्व परिस्पंदादिकां देशादेशांतरप्राप्तिलक्षणां क्रियां कु वन्नात्मा न विद्यते । सर्वव्यापित्वेनामूर्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वमिति । तथा चोक्तं । अकर्ता निर्गुणो नोक्ता, थात्मा सांख्यनिदर्शन इति । एवमनेन प्रकारेणात्माऽका रक इति ते सांख्याः । तुशब्दः पूर्वेन्यो व्यतिरेकमाह । ते पुनः सारख्या एवं प्रगल्लिताः प्रगल्नवंतो धाष्ठर्घवंतः संतो नयोज्यस्तत्र तत्र प्रतिपादयंति । यथा प्रकृतिः करोति पुरु ष उपचुंक्ते यथा बुध्यवसितमर्थ पुरुषश्चितयते इत्याद्यकारकवादिमतमिति ॥१३॥ सां प्रतं तल्लीवतहरीराकारकवादिनो मतं निराचिकीर्षुराह। (जेतेनवाश्णोइत्यादि) तत्र ये तावन्चरीराव्यतिरिक्तात्मवादिन एवमिति पूर्वोक्तया नीत्या नूतव्यतिरिक्तमात्मानमन्यु पंगतवंतस्ते निराक्रियते। तत्र यस्तावक्तं । यथा न शरीराजिन्नोस्त्यात्मेति तदसंगतं । यतस्तत्प्रसाधकं प्रमाणमस्ति । तच्चेदं । विद्यमानकर्तृकमिदं शरीरमादिमत्प्रतिनियताका कारकत्वात् । इद यद्यदादिमत्प्रतिनियताकारं तत्तविद्यमानकर्तृकं दृष्टं । यथा घटः। य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org