________________
५६८
द्वितीये सूत्रकृतांगे द्वितीयश्रुतस्कंधे प्रथमाध्ययनं.
1
स्य सप्ताध्ययनानि । तेषु प्रथमं पुंडरीकाध्ययनं तस्येदमादिसूत्रं । ( सुमेति ) श्रुतं मया युष्मता जगवता एवमाख्यातं । इह प्रवचने । खलुशब्दोवाक्यालंकारे । पौंड रीकाख्यमध्ययनं पुंडरीकेण श्वेतपद्मेन उपमा यत्र तत्पौंडरीकं । तस्यायमर्थः प्रज्ञप्तः । वाक्यालंकारे ॥ १ ॥ तद्यथा । नामशब्दः संभावनायां । संभाव्यते पुष्करिणीदृष्टांतः पुष्कराणि पद्मानि यस्यां सा पुष्करिणी वापी स्यात् । किंनूता । बहूदका बहूदकप्रचुरा । सीयंते यस्मिन्नसौ सेयः कर्दमः सयस्यां बहुसेया बहुपुष्कला बहुसंपूर्णा लब्धानामानु तोर्योयया सा लव्धार्था पुंडरीकी श्वेतपद्मप्रचुरा प्रासादिका निर्मला दर्शनीया शो नना । प्रनितः सर्वतोरूपाणि हंसचक्रादीनि यस्यां सा तथा प्रतिरूपा प्रतिबिंबवती नि मलत्वात्तस्यां सर्वत्र प्रतिबिंबानि वीदयंते ॥ २ ॥ तस्यां पुष्करियां । तत्रतत्रेति पुंडरी hore | देशदेशे इत्यनेन तु एकैकप्रदेशे प्राचुर्यमाह । तस्मिंस्तस्मिन्नित्यनेन तु नात्येवासौ प्रदेशोयत्र तानि न संतीति । अथवा अत्यादरज्ञापनाय एकार्थान्येवैता नि त्रीणि पदानि । तेषु पुष्करिण्याः सर्वप्रदेशेषु बहूनि पद्मान्येव वराणि पौंडरीका लि श्वेतशतपत्रायुक्तानि श्रानुपूर्व्येण विशिष्टरचनया स्थितानि उब्रितानि पंकजले यति लंघ्य उपरि व्यवस्थितानि रुचिं कांतिं जांतीति रुचिलानि दीप्तिमंति शोचनवर्णगंधरस स्पर्शवति प्रासादीयानि दर्शनीयानि अनिरूपाणि प्रतिरूपाणि ॥ ३ ॥ तस्यां पुष्करि एयां । णं वाक्यालंकारें । मध्यदेशे एकं पद्मवरमेव पुंडरीकमुक्तं शेषव्याख्या पूर्ववत् ॥ ४ ॥ ( सावंतत्ति ) सर्वस्यापि तस्याः पुष्करिण्याः सर्वप्रदेशेषु बहूनि पद्मानि तथा सर्व स्याश्च तस्याबहुमध्यदेशे पूर्वोक्त विशेषणविशिष्टं महदेकं पौंडरीकं विद्यतइति ॥ ५ ॥ य पूर्वस्यादिशः कश्विदेकः पुरुषः समागम्य तां पुष्करिणीं तस्याश्व तीरे तटे स्थित्वा त तत्पद्मं प्रासादीयादिविशेषणं सपुरुषएवं वक्ष्यमाणं वदेत् । ( अहमंसित्ति ) ग्रहमस्मि पुरुष: कुशलः पंडितः क्षेत्रज्ञोव्यक्तोबाल्यादतिक्रांतोमेधावी यबालोमध्यमवयामार्ग स्थः सङ्गिराचीर्णमार्गस्थोमार्गवित् मार्गस्य या गतिर्गमनं तया पराक्रमं विवदितदेश गमनं तानातीति मार्गस्य गतिपराक्रमशः एवंविधोऽहमेतत्पद्मवरपुंडरीकं पुष्करिणी मध्यस्थं उत्क्षेप्स्यामि उत्खनिष्यामीति कृत्वा इहागतइत्युक्त्वा सपुरुषस्तां पुष्करिणीम निक्रामेत् संमुखं गछेत् । यावच्च यावच्च तदवतरणेनुः संमुखं गच्छेत्तावत्तावच्च । पंवा क्यालंकारे । तस्याः पुष्करिष्यामहदगाधमुदकं महांश्व सेयः कर्दमः । ततः समहाकर्दमोद कान्यामाकुलः प्रहीणस्तीरं विनक्तिव्यत्ययात्तीराद् भ्रष्टः । अप्राप्तश्च पद्मवरपुंडरीकं । तस्याः सेयः कर्दमस्त स्मिन्निषस्मोनिमग्नस्तीरपद्मयोरंतरंतराजएव तिष्ठति ( नोहचाएत्ति) नार्वाक् तटवर्ती (नोपाराति) नापि पारगमनाय समर्थः । एवमसावुनयचष्टः प्रथमः पुरु पजातः पुरुषजातीयः ॥ ६ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org