________________
एक वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं.
॥ दीपिका-अत्र दृष्टांतमाह । (उरालमिति )। उदारं स्थूलं जगतोयोगं । औदारिकाः प्राणिनोगर्नकललार्बुदरूपादवस्थाविशेषाधिपरीतं बालकुमारयौवनादिकमुदारं योगं परि समंतादयंते गति।श्रयमर्थः। औदारिकशरीरिणोमनुष्यादेर्बालकुमाराद्यवस्थाविशेषाःप्र त्यदेण दृश्यंते न पुनर्यादृप्राक्ताहगेव सर्वदेति । एवं सर्वेषां स्थावरजंगमानामन्यथान वनं झेयं । तथा धाकांताः पीडिताःखेन सर्वे जंतवस्ततस्तेऽहिंसितानवंति तथा कार्य । अथवाऽकांतमप्रियंपुःखं येषां तेऽकांतःखाश्चशब्दात् प्रियसुखाश्च अतः सर्वान्नहिंस्यादि ति दृष्टांतोदर्शितनपदेशश्च दत्तः। ॥॥ किमर्थं सत्वान्न हिंस्यादित्याह । (एयमिति) खुनिश्चये । एतदेव शानिनः सारं यत्किचन प्राणिजातं न हिनस्ति । अहिंसा समता चैव एतावदिजानीयात् । कोर्थः । यथा मम मरणं दुःखं वाऽप्रियं एवं सर्वस्य प्राणिलोकस्या पीति । एवं ज्ञात्वा न हिंस्यात्प्राणिनः । नपलक्षणान्मृषा न ब्रूयान्नादत्तं गृाहीयान्नाब्रह्मा सेवेत न परिग्रहं कुर्यादिति ॥ १०॥
॥ टीका-अस्मिन्नेवाऽर्थे दृष्टांतानिधित्सयाऽऽह। ( उरालमित्यादि)। नरालमि ति स्थलमुदारं जगतऔदारिकजंतुग्रामस्य योगं व्यापार चेष्टामवस्थाविशेषमित्यर्थः । श्री दारिकशरीरिणोहि जंतवः प्राक्तनादवस्थाविशेषार्निकललावंदरूपाविपर्यासनूतं बा लकौमारयौवनादिकमुदारं योगं परिसमंतादयंते गहंति पर्ययंते । एतमुक्तं नवति । औदारिकशरीरिणोहि मनुष्यादेबीलकौमारादिकः कालादिकतोऽवस्थाविशेषोऽन्यथा चाऽन्यथाऽनवन् प्रत्यक्षेणैव सन्यते न पुनर्यादृक् प्राक् ताहगेव सर्वदेति । एवं स र्वेषां स्थावरजंगमानामन्यथाऽन्यथा च नवनं इष्टव्य मिति । अपिच सर्वे जंतवथाक्रांता अनिनूताःखेन शारीरमानसेनाऽसातोदयेन सुःखाक्रांताः संतोऽन्यथाऽवस्थानाजो लन्यते । अतः सर्वेपि ते यथाऽहिंसिता नवंति तथा विधेयं । यदि वा सर्वेऽपि जंतवो कांतमननिमतं फुःखं येषां तेऽकांतकुःखाः। चशब्दात प्रियसुखाश्च ते तान सर्वान् न हिंस्या दित्यनेन वाऽन्यथावदृष्टांतोदर्शितोनवत्युपदेशश्च दत्तइति ॥ ॥ किमर्थ सत्वान् न हिं स्यादित्याह । (एवंखुश्त्यादि)। खुरवधारणे । एतदेव झानिनोविशिष्टविवेकवतः सारं न्याय्यं यत्किंचनप्राणिजातं स्थावरं जंगमं वा न हिनस्ति न परितापयति । उपलक्षणं चैतत् । तेन न मृषा ब्रूयान्नादत्तं गृहीयान्नाऽब्रह्मा सेवेत न परिग्रहं परिगृणहीयान्न नक्तं मुंजीतेत्येवं शानिनः सारं यत्र कर्माश्रवेषु वर्ततइति । अपिच अहिंसया समता अहिं 'सांसमता तां चैताव हिमानीयात् । यथा मम मरणं कुःखं वाऽप्रियमेवमन्यस्याऽपि प्रा पिलोकस्यति । एवंकारोऽवधारणे । इत्येवं साधुना ज्ञानवता प्राणिनां परितापनाऽपाव णादि वा न विधेयमेवेति ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org