________________
राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. ए त्यस्तथासति स्वतएवोत्पत्त्यनंतरं विनाशित्वादात्मनोन त्राणाय कुतोन्यत्करणं प्रति तस्य व्यापारचिंतेति । तया किममूर्तोमूर्तिमान् वा । यद्यमूर्तस्तदाऽकाशवदकतैवाऽथ मूर्तिमान् तथासति प्राकृतपुरुषस्येवोपकरणसव्यपेदस्य स्पष्टमेव सर्वजगदकर्तत्वमिति। देवगुप्तदेवपुत्रपदौ त्वतिफल्गुत्वादपकर्णयितव्याविति । एतदेव दूषणं ब्रह्मोप्तपदेपि इष्ट व्यं तुल्ययोगक्षेमत्वादिति । तथा यमुक्तं । तनुनुवनकरणादिकं विमत्यधिकरणनावापन्नं विशिष्टबुद्धिमत्कारणपूर्वकं कार्यत्वाद्धटादिवदिति तदयुक्तं । तथाविधविशिष्टकारणपूर्वकत्वे न व्याप्त्यसिः । कार्यपूर्वकत्वमात्रेण तु कार्य व्याप्तं । कार्य विशेषोपलब्धौ कारणविशेषप्र तिपत्तिर्गहीतप्रतिबंधस्यैव नवति।नचात्यंतादृष्टे तथा प्रतीतिर्नवति।घटे तत्पूर्वकत्वं प्रतिप नमिति चेत् युक्तं तत्र घटस्य कार्य विशेषत्वप्रतिपत्ते त्वेवं सरित्समुपर्वतादौ बुद्धिमत्का रणपूर्वकत्वेन संबंधोगृहीतइति । पुनरप्युक्तं । नन्वतएव घटादिसंस्थान विशेषदर्शन वत्पर्वतादावपि विशिष्टसंस्थानदर्शनाद्बुद्धिमत्कारणपूर्वकत्वस्य साधनं क्रियते । नैत देवं युक्तं । यतोनहि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वत्वावगति नवति । यदितु स्यान्मृतिकारत्वा इल्मीकस्यापि घटवत्कुंनकारकतिः स्यात् । तथाचोक्तं । अन्यथाकुंनकारेण मृधिकारस्य कस्यचित् । घटादेः कारणात्सिवये इल्मीकस्यापि तत्कतिरि ति । तदेवं यस्यैव संस्थानविशेषस्य बुद्धिमत्कारणपूर्वकत्वेन संबंधोगृहीतस्तदर्शनमेव तथाविधकारणानुमापकं नवति न संस्थानमात्रमिति । थपिच घटादिसंस्थानानां कुंनकार एव विशिष्टः कपिलक्ष्यते नेश्वरः । यदि पुनरीश्वरः स्यात्कि कुंनकारेणेति । नैतदस्ति । तत्रापीश्वरएव सर्वव्यापितया निमित्तकारणत्वेन व्याप्रियते । नन्वेवं दृष्टहानिरदृष्टक ल्पना स्यात् । तथाचोक्तं । शस्त्रौषधादिसंबधाच्चैत्रस्य व्रणरोहणे ॥ असंबधस्य किं स्थाणो कारणत्वं न कल्प्यते ॥१॥ तदेवं दृष्टकारणपरित्यागेनाऽदृष्टपरिकल्पना न त्या ज्येति । अपिच । देवकुलावटादीनां यः कर्ता ससावयवोऽव्याप्यनित्योदृष्टस्त दृष्टांतः साधितश्चेश्वरएवंनूतएव प्राप्नोति । अन्यथाभूतस्य च दृष्टांतानावाव्यात्यसि नुमा नमिति । अनयैव दिशा स्थित्वाप्रवृत्त्यादिकसाधनमसाधनमायोज्यं तुल्ययोगमित्वादि ति । यदपि चोक्तं प्रधानादिकतोऽयं लोकति तदप्यसंगतं । यतस्तत्प्रधानं किं मूर्तममू त वा। यद्यमूर्त न ततोमकराकरादेर्मूतस्योनवोघटते । नह्याकाशात्किंचित्पद्यमानमाल दयते मूर्ताऽमूर्तयोः कारणविरोधादिति । अथ मूर्त तत्कुतः समुत्पन्नं । न तावत्स्वतोलो कस्यापि तथोत्पत्तिप्रसंगात् नाप्यन्यतोऽनवस्थापत्तेरिति । अन्यथाऽनुत्पन्नमेव प्रधाना द्यनादिनावेनास्ते तल्लोकोपि किं नेष्यते । अपिच । सत्वरजस्तमसा साम्यावस्था प्रधा नमित्युच्यते नचाऽविकतात्प्रधानान्महदादेरुत्पत्तिरिष्यते नवतिः। नच विकत प्रधानव्यपदे शमास्कंदतीत्यतोन प्रधानान्महदादेरुत्पत्तिरिति । अपिचाचेतनायाः प्रकृतेः कथं पुरुषार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org