________________
सप्तभङ्गीप्रभा बौद्धश्च विचित्रामेकानेकग्राहकग्राह्याकारकरम्बितां धियं विशदयति-विवेचयति । गौतमीयो वैशेषिकश्चोक्तरीत्या चित्रं चित्ररूपमेकमनेकं च वाञ्छति, तदेते चत्वारोऽपि यदि सलज्जास्तदा तव मतं स्याद्वादपवित्रं न निन्दन्ति, तन्निन्दायाः स्वपदकुठारप्रहारतुल्यत्वात्, एकांशस्य प्राधान्येऽपरांशस्य च गौणत्वे युक्तेरनवस्थितत्वात्, नयानां परस्परोपमर्दमात्रप्रवृत्तत्वात्, तत्त्वनिर्णयस्तु स्याद्वादन्यायैकसाध्यत्वादिति भावः” इति । ___ “अव्याप्यवृत्तिगुणिभेदमुदीर्य नव्या-भावं प्रकल्प्य च कथं न शिरोमणे ! त्वम् ।
स्याद्वादमाश्रयसि सर्वविरोधिजैत्रं, बूमः प्रसार्य निजपाणिमिति त्वदीयाः ।।४५।।"
इति च तत्रैव शिरोमणिं प्रति शिक्षावचनम् । तद्व्याख्यानमित्थं तेषामेव “अव्याप्यवृत्तिः गुणिनः संयोगिनो भेदमुदीर्य नव्यं च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकमभावं परिकल्प्य विश्रान्तस्त्वं हे शिरोमणे ! किं न स्याद्वादमाश्रयसि ? तदाश्रयणं विना सम्पूर्णबोधानुपपत्तेः, सूक्ष्मधियस्तव सोऽवश्यमाश्रयणीय इति शिक्षावचनं वयं त्वदीया निजपाणिं प्रसार्य ब्रूमः । पाणिप्रसारणं शिक्षाभङ्गी ।"
अयं भावः -- “मूले वृक्षः कपिसंयोगी न शाखायामित्यवाधितानुभवबलात् कपिसंयागितद्वेदयोरवच्छेदकभेदेन समावेशः परेण साधितः । तथैव स्वद्रव्याद्यपेक्षया घट: सन् परद्रव्याद्यपेक्षया त्वसन्नित्यबाधितानुभवेन सदसतोरपि तादात्म्यसमावेशः किं न कल्प्यते ? प्रतियोग्यनवच्छेदकस्याऽभावावच्छेदकत्वेऽतिप्रसङ्गस्याऽनुभवविनिगमनेनैव निवारणात् । प्रतियोग्यनवच्छेदकमपि किञ्चिदेव कस्यचिदभावस्य वृत्ताववच्छेदकमिति । अथवा परद्रव्याद्यपेक्षयेत्यस्य प्रतियोग्यनवच्छेदकावच्छेदेनेत्येतावानेवाऽर्थः । यदि वा स्वद्रव्यादीनामप्यस्तित्वशरीरघटकत्वमेवाऽपेक्ष्यत्वं, परद्रव्यादीनां च नास्तित्वशरीरघटकत्वमेव तथा, तथा च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव एव द्वितीयः । अभ्युपगम्यते चाऽयं “यदि च घटत्वेन पटो नास्तीति प्रत्ययः स्वरसवाही लोकानां तदा व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाववारणं गीर्वाणगुरोरप्यशक्यम्” इति वदता परेणाऽपि । एवं प्रतीतिवलसिद्धव्यधिकरणधर्मावच्छिन्नाधिकरणताकाभावमादायाऽपि द्वितीयभङ्गः समर्थनीयः, नानागमभङ्गबहुलत्वाद् भगवत्प्रवचनस्य । गमाः – प्रतिपत्तिप्रकाराः, भङ्गाःप्रतिपादकप्रकारा इति विवेकः ।
न चैवं व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावादीनां सार्वत्रिकत्वेनाऽव्यावर्तकत्वाद द्वितीयभङ्गादिवैयर्थ्यमिति शङ्कनीयम् । एवकारोदितसर्वथा नास्तित्वशङ्कायाः स्यात्कारेण निर्दलनेन तत्सार्थक्यात् । यथा चित्रे घटे नील एवेति प्रयुक्ते सर्वथा नीलत्वप्रसक्तौ तद्वारणार्थं स्यात्कारप्रयोगः, प्रथमभङ्गोत्थापिताकाङ्क्षया च क्रमेणाऽन्ये भङ्गा लोकव्यवहारानुसारेण प्रयुज्यन्ते तथा सर्वत्र सप्तभङ्ग्यामिति दिग्” इति ।
सप्तभङ्गीवाक्यस्यैव पूर्णोत्तरत्वमिति न्यायखण्डखाद्ये श्रीमद्भिर्यशोविजयोपाध्यायैरुपपादितम् । तथा च तद्ग्रन्थः – “एतच्चाऽभिनिविष्टसौगतनयखण्डनोद्देशेन प्रवृत्तमपि पूर्वरूप एव पर्यवस्यति, एकान्तावगाहित्वेन जातिप्रायत्वादुत्सर्गत ईदृशाभिधानस्य सिद्धान्तनिषिद्धत्वात् । अवधारिणी भाषां न भाषेतेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org