________________
८८
सप्तभङ्गीप्रभा व्युत्पन्नापेक्षत्वात् सामान्यविशेषभावेन सप्तभङ्गीद्वयविश्रामे तदादिवत् । स्यात्पदेन लब्धस्याऽर्थस्य विवरणेन स्पष्टत्वार्थं वोत्तरप्रयोगान्न दोषस्पर्शोऽपीति तु वयम् ।
तदाह - इत्थं सामान्यविशेषभावेन विचार्य विवरणपरतया वाऽनेकान्तकान्तवाक्ययोर्व्यवस्थितौ जनानां शबलवस्तुनोऽनन्तधर्मात्मकतत्त्वसिद्धेर्न भजनाभजना व्याघातकृदिति' इति । एतद्ग्रन्थाभिप्रायस्तु न्यायप्रभाख्यायामेतद्वृत्तौ प्रदर्शितोऽस्माभिरिति विशेषावगमार्थिना तत एवाऽवधारणीयः ।।
सप्तभझ्या यद्धर्ममात्रव्यापकत्वमभ्युपगम्यते तत्तत्प्रवृत्तियोग्यतामाश्रित्य, न तु विशेषतस्तत्प्रयोगमाश्रित्य । तथा च या या सप्तभङ्गी प्रयोगपथं विचारपथं वा रूढा स्यात् तासां सर्वासामपि कथञ्चिदनेकान्तत्वं विषयतया सप्तभङ्गीप्रवृत्तियोग्यमिति वस्तुस्थितौ सप्तभङ्गीप्रयोगप्रवाहानवस्था नाऽस्त्येव । सर्वज्ञज्ञानगोचरतादृशसप्तभङ्गीप्रवाहानवस्था तु वस्तुनस्तथात्वेन प्रामाणिकत्वादेव न दोषतास्पदमित्यभ्युपगम्याऽप्यनवस्था स्याद्वादिनः सुखासिकामास्थातुमीशते । सप्तभङ्गीत्वावच्छेदेन कथञ्चिदनेकान्तत्वं कथञ्चिदेकान्तत्वं च विधिनिषेधभावेनाऽवलम्ब्य सप्तभङ्गी प्रवर्त्तमाना स्वात्मानमप्यालम्बत इत्यभ्युपगमेऽप्यनवस्था परिहृता भवति । आत्माश्रयस्तु प्रामाणिकतयैव न दोषावह इत्यपि वोध्यम् ।
प्रतिपाद्यगतं त्वनेकान्तत्वं कथञ्चित्प्रतिपाद्यतत्तद्धर्माभिन्नमिति तदनेकान्तत्वेनैवाऽनेकान्तमिति नाऽनवस्था । अनवस्थात्माश्रययोरन्यतरस्याऽऽवश्यकत्व आत्माश्रय एव कथञ्चित् स्वीकर्तुमुचितः । यदि चाऽऽश्रयेण सह कथश्चिद् भेदमाश्रित्याऽनेकान्तत्वेऽप्यनेकान्तत्वं कथञ्चिदतिरिक्तमभ्युपेत्याऽनवस्थाऽऽपाद्यते तदा तस्याः प्रामाणिकत्वादेव न दोषत्वम् । सर्वमनेकान्तात्मकमिति सर्वत्वावच्छेदेनाऽने-कान्तत्वाववोधनत एवाऽनेकान्तत्वेऽप्यनेकान्तत्वमवबोधितम् । तस्याऽपि सर्वान्तर्गतत्वादित्युपदर्शितपद्धतिवलम्व्याऽनेकान्तत्वेऽनेकान्तत्वं तत्राऽप्यनेकान्तत्वमित्यनवस्थितानेकान्तत्वपरम्पराप्रतिपादकानवस्थितसप्तभड़ीप्रवाहप्रसङ्गः परिहरणीय इत्यपि पन्थाः स्याद्वादिनां निष्कण्टक एवेति दिक् ।
अनेकान्तवादश्चाऽयं क्वचित् क्वचिद् विषये परैरपि स्वीक्रियते । यथैकमपि प्रधानं सत्त्वरजस्तमोरूपगुणत्रयात्मकं साङ्ख्यैरभ्युपगम्यते, एकाऽपि समूहालम्वनात्मिका वुद्धिर्नीलपीताद्यनेकाकाररूपा वौद्धैरुपेयते, चित्ररूपमेकनेकं च काणादाक्षपादाभ्यामुपेयते, नव्यन्यायनिष्णातेन च शिरोमणिना मूले वृक्षः कपिसंयोगी, न शाखायामित्यनुभवबलाद् वृक्षे कपिसंयोगतद्ववेदौ चाऽभ्युपगतौ, एवं तद्वत्यपि पदार्थे व्यधिकरणधर्मेण तदभाव उपगत इति तत्र सर्वत्राऽवच्छेदकभेदेन विरुद्धधर्मद्वयाभ्युपगमवलादाद्यद्वितीयभङ्गयोः सिद्धौ सप्तभङ्गी सिद्धैव । तदुक्तं महावीरस्तवे यशोविजयोपाध्यायैः,
“साङ्ख्यः प्रधानमुपयंस्त्रिगुणं विचित्रां, बौद्धो धियं विशदयन्नथ गौतमीयः । वैशेषिकश्च भुवि चित्रमनेकमेकं, वाञ्छन् मतं न तव निन्दति चेत् सलज्ज ||४४।।" इति, व्याख्यातं च तत्पक्षं तैरेव – “साख्यः प्रधानं परस्परविरुद्धसत्त्वरजस्तमोरूपगुणत्रयगुम्फितमेकमुपैति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org