________________
सप्तभङ्गीप्रभा
शशशृङ्गकल्पमेवेति तदव्यापकत्वेऽपि सप्तभङ्गया न किञ्चिदपचीयते । यत् पुनः सप्तभङ्ग्यां कथञ्चिदनेकान्तत्वं वस्तुभूतं तद्व्यापकत्वं सप्तभङ्गयामभ्युपगम्यत एव प्रमाणापेक्षयाऽनेकान्तत्वस्य नयापेक्षयैकान्तत्वस्य च व्यवस्थितौ सत्यां स्यादनेकान्त एव सप्तभङ्गीवादः स्यादेकान्त एव सप्तभङ्गीवाद इत्येवं सप्तभङ्गीप्रवृत्तेः सम्भवात् । एकान्तवादखण्डनपटिष्ठदूषणगणस्तु सर्वथैकान्तत्वमेवाऽऽक्रामति, न तु कथञ्चिदेकान्तत्वम् । तद्ध्यनेकान्तत्वस्य साहाय्यमेवाऽऽचरति, न तु विरोधमिति । सप्तभङ्गीगतानेकान्तत्वाववोधनपरा सप्तभङ्गयपि कथञ्चिदनेकान्तत्वसमनुगतेति तत्राऽप्यपरा सप्तभङ्गी प्रवर्तत एव । उक्तमर्थमर्थतः संवदन्ति श्रीमन्तो यशोविजयोपाध्यायाः महावीरस्तवाख्यग्रन्थस्य
--
“देशेन देशदलनं भजनापथे तु, त्वच्छासने निजकरेण मलापनोदः ।
व्याघातकृन्न भजनाभजना जनाना - मित्थं स्थितौ शवलवस्तुविवेकसिद्धेः ||४२ || "
इति स्तुतेर्व्याख्याने न्यायखण्डखाद्ये, तथा च तद्ग्रन्थः
“देशेन न्यायनयेन, देशदलनं वौद्धनयदलनं, त्वच्छासने भजनापथे तु स्याद्वादमार्गे तु, निजकरेण मलापनोदो व्रणादिमलापनयनं, स्यात्कारोपादानानुपादानाभ्यां स्याद्वादाज्ञया नययोर्दूषकदूष्यत्वस्थितिरित्यर्थः । तथाऽप्येकान्तयुक्तीनां तत्त्वतो मिथ्यात्वादाश्रयणानौचित्यमिति चेत्;
न, “असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते" इति न्यायेन शिष्यमतिविस्फारणार्थं तदुपादानस्याऽपि न्याय्यत्वात् । परमार्थतस्तु नयभाषाप्रयोग एव नास्ति, कुतस्तद्युक्त्याश्रयणमिति वोध्यम् । तदुक्तं सम्मतौ
“सीसमईविप्फारण- मेत्तत्थोऽयं कओ समुल्लावो ।
इहरा कहामुहं चे व णत्थि एवं ससमयम्मि || 9 || त्ति "
Jain Education International
८७
अयं च निषेधः स्वतन्त्रनयविषयः । स्याद्वादैकवाक्यतापन्ननयवाक्यस्य तु तत्त्वादेव नाऽप्रतिपादनीयत्वमिति ध्येयम् । तदाह भजनाभजना स्याद्वादेऽपि स्याद्वादः न व्याघातकृत् न स्याद्वादलक्षणक्षतिकृत्, एकत्र धर्मिणि प्रतिधर्मं सप्तधर्मप्रकारकबोधजनकतापर्याप्तिमद्वाक्यत्वस्य स्याद्वादलक्षणस्य प्रतिभङ्गमेकधर्मावधारणत्वरूपनयत्वेऽप्यविरोधात् । तदाह समन्तभद्रः “अनेकान्तेऽप्यनेकान्त" इत्यादि, प्रमाणत्वमाश्रित्याऽनेकान्तो, नयत्वमाश्रित्य चैकान्त इत्येतदर्थः ।
यदि च स्यादस्त्येवेत्यादिसप्तभङ्गयात्मकमहावाक्ये स्यात्पदस्य वाचकत्वपक्षे बुद्धिविषयावच्छेदका - वच्छिन्नत्वमेव तदर्थस्तदा सामान्यतोऽवच्छेदकलाभे विशेषतस्तज्जिज्ञासायां तदनन्तरं स्वद्रव्यापेक्षयाऽस्त्येवेत्यादिरेकान्तेन नयवाक्यप्रयोग इति तस्याऽपि प्राक्तनानेकान्तसापेक्षत्वेनाऽनेकान्तानेकान्तत्वं परिभाषन्ते । अत एव नाऽनवस्था, तृतीयचतुर्थानेकान्तयोः प्रथमद्वितीययोरेव विश्रामात् । अन्योन्याश्रयस्तु प्रामाणिक इति बहवः । विशेषतोऽवच्छेदकजिज्ञासाया अपि सप्तविधाया औत्सर्गिकत्वात् भङ्गद्वयप्रयोगस्य च
For Private & Personal Use Only
www.jainelibrary.org