________________
सप्तभङ्गप्रभा
वोधाभ्युपगमे तु शशीयत्वावच्छिन्नशृङ्गनिष्ठप्रतियोगिताकाभावविषयकप्रतीतिरपि शशशृङ्गं नास्तीति वाक्यादुपपद्यते । एवं तात्पर्यवलाद् व्युत्पत्तिवैचित्र्येण शशत्वावच्छिन्नविशेष्यतानिरूपितशृङ्गत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारतानिरूपकबोधस्य शशीयत्वनिष्ठप्रतियोगिताकाभावत्वावच्छिन्नप्रकारतानिरूपितशृङ्गत्वावच्छिन्नविशेषप्यतानिरूपकवोधस्य च तादृशवाक्यादुपपत्तिरूह्या । शृङ्गे च शशीयत्वेन नास्तित्वप्रकारकबोधपक्षे शृङ्गे गवीयत्वेनाऽस्तित्वप्रकारकबोधोऽपि वाक्यान्तरात् स्यादेव । तथा च वस्तुनि शृङ्गे सूपपादैव सप्तभङ्गी । इत्थं च प्रकारान्तरेण शशशृङ्गादौ सप्तभङ्गयुपपादनप्रयासो विमलदासादीनामस्थान एवेति मन्तव्यम् ।
ननु, सप्तभङ्गीव्यतिरिक्तवादस्यैकान्तत्वं सप्तभङ्ग्याश्चाऽनेकान्तत्वं भवतामनुमतम् । तत्रेदं वक्तव्यं सप्तभङ्गीव्यतिरिक्तवादस्यैकान्तत्वं सर्वथा वा स्यात् कथञ्चिद्वा ? आद्ये तत्रैवैकान्तत्वस्य विधिनिषेधकल्पनया सप्तभङ्ग्या न प्रवृत्तिरिति व्यापकत्वं तस्या भज्येत । द्वितीये द्वितीयभङ्गाववोध्यानेकान्तत्वसमन्वितत्वेनैकान्तवादोऽप्यनेकान्तवाद एवेति तदपाकरणं स्ववधाय कृत्योत्थापनं भवतः प्रसक्तं, सेयमुभयतः पाशा
८६
रज्जुः ।
एवं सप्तभङ्ग्यामप्यनेकान्तत्वं सर्वथा वा स्यात् कथञ्चिद् वेति विकल्पद्वयं नाऽतिक्रामति । आद्ये तत्रैव सप्तभङ्ग्या व्यापकत्वव्याकोपः । एवमस्मिन् पक्षे धर्ममात्रस्याऽव्याप्यवृत्तित्वनियमोऽपि भग्न इति यथा स्वात्यन्ताभावासमानाधिकरणमप्यनेकान्तत्वं श्रद्धास्पदं तथैव धर्मान्तरमपि वस्तुनि स्यादित्येकान्तवादापाकरणमसमञ्जसमापद्येत । द्वितीयेऽनेकान्तवादोऽपि द्वितीयभाववोध्यैकान्तत्वसमन्वित इत्येकान्तवादोन्मूलनपटिष्ठदूषणगणक टाक्षित एव स्यात् । एवं सप्तभङ्गीधर्मिकानेकान्तत्वविधिनिषेधकल्पनसमुत्था येयमपरासप्तभङ्गी साऽपि द्वितीयपक्षनिक्षिप्तानेकान्तत्वसमनुगता स्वधर्मिकानेकान्तत्वविधिनिषेधकल्पनासमुत्थाऽपरसप्तभङ्गीसमालिङ्गितैवाऽऽश्रयणीया, साऽपीत्थमित्यनवस्थातो न मुक्तिः ।
एवं प्रतिपाद्यगतमप्यनेकान्तत्वं सप्तभङ्गीगोचरतयैवाऽऽस्थेयं सप्तभङ्गयाः सर्वधर्मव्यापकत्ववादिना । तथा च सर्वधर्माणामेकान्तत्वं द्वितीयभङ्गगोचरतया प्राप्तमिति यथा यथाऽनेकान्तवादावलम्वनेनैकान्तत्वमपाक्रियते तथा तथैकान्तत्वमागच्छतीति चेत्;
मैवं, सर्वथा ह्येकत्वस्य शशशृङ्गकल्पत्वेन सप्तभङ्गन्यास्तत्र प्रवृत्त्यभावेऽपि न वस्तुव्यापकत्वस्वभावस्य हानिः । कथञ्चिदेकान्तत्वं तु वस्तुभूतं, तदव्यापकत्वं सप्तभङ्गया अभ्युपगम्यत एव । तदपाकरणं तु नैव क्रियतेऽनेकान्तवादिना, किन्तु दुर्नयाभिमतस्य सर्वथैकान्तत्वस्याऽपाकरणेन कथञ्चिदेकान्तत्वं नयापेक्षया व्यवस्थाप्यते ।
न च, सर्वथैकान्तत्वस्य विधिनिषेधागोचरत्वे तदपाकरणमप्यशक्यमिति वाच्यम् । एकान्तत्वं हि प्रसिद्धं तत्र यदवच्छिन्नत्वं नास्ति तदवच्छिन्नत्वमप्यन्यत्र प्रसिद्धम् । तदवच्छिन्नत्वे - नैकान्तत्वज्ञानस्याऽप्रामाण्यज्ञापनमेव तदपाकरणं, तच्च शक्यमेव । एवं सप्तभङ्ग्यां सर्वथाऽनेकान्तत्वमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org