________________
सप्तभङ्गीप्रभा
८५ नाऽपि तथाप्रमाऽस्ति, तथाऽप्यप्रमैव प्रमात्मना गृहीता तथाव्यवस्थानियामिका । एवं च घटादेर्घटत्वादिना प्रमात एव सद्भावः । तथा प्रमाया अभावे घटत्वेन घटस्य स्वरूपतो विद्यमानाऽपि सत्ता शशशृङ्गकल्पैवेति त्वालोचयन् वक्ता घटस्य प्रमेयत्वेनाऽस्तित्वं, घटत्वेन नास्तित्वं विवक्षति, तया च विवक्षया घटः प्रमेयत्वेनाऽस्ति घटत्वेन नास्तीत्येवं भङ्गानां प्रवृत्तिः ।
- रजते रजतत्वज्ञानं प्रमा भवति, शुक्तौ तु रजतत्वज्ञानमप्रमेत्यत्र किं नियामकमित्यपेक्षायां स्वरूपतो विद्यमानैकत्र रजतत्वसत्ता यद्रलाद्रजते रजतत्वज्ञानं प्रमा, यदभावाच्छुक्तौ रजतत्वज्ञानमप्रमेत्यास्थेयम् । एवं च रजतादौ प्रमेये रजतत्वमेव सत्त्वव्यवस्थापकं न तु तन्मुखनिरीक्षकं प्रमेयत्वमित्यालोचयन् वक्ता प्रमेयस्य घटत्वादिनाऽस्तित्वं प्रमेयत्वेन च नास्तित्वं विवक्षति, तया च विवक्षया प्रमेयो घटत्वेनाऽस्ति, प्रमेयत्वेन नास्तीत्येवं भड़ानां प्रवृत्तिरिति ।
नन्वेवं घटः सत्तया द्रव्यत्वेन मृत्त्वेन वाऽस्ति घटत्वेन नास्तीत्येवमपि भङ्गानां प्रवृत्तिः स्यादिति चेत्;
नैवं भवतीति कः प्राह ? परसङ्ग्रहनयाश्रयणे सत्तैव घटादीनां स्वरूपमपरसङ्ग्रहाश्रयणे द्रव्यत्वादीति तन्मूलया विवक्षया तथाऽपि भङ्गानां प्रवृत्तिरप्रत्यूहैव । एवं महासत्ताया अपि सकलद्रव्यक्षेत्रकालादिव्यापकत्वं स्वस्वरूपं, तत्तद्व्यमात्रनियतत्वं तु पररूपमिति कृत्वा सप्तभङ्गीगोचरत्वमप्रत्यूहम् ।
इयं च सप्तभङ्गी सर्ववस्तुनियता स्वीक्रियते । शशशृङ्ग-कूर्मरोम-वन्ध्यापुत्र-गगनकुसुमादयस्तु सर्वोपाख्याविकला निर्धर्माणो न वस्तुस्वभावा इति तेषु सप्तभङ्ग्या अप्रवृत्तिर्गुणायैव ।
न च, शशशृङ्गादीनां नास्तित्वधर्मयोगित्वेन निर्मित्वमेवाऽसिद्धमिति वाच्यम् ।
सर्वधर्माणामव्याप्यवृत्तित्वस्य व्यवस्थापितत्वेन शशशृङ्गादौ नास्तित्वस्य सद्भावेऽस्तित्वस्याऽप्यावश्यकत्वेन सप्तभङ्गीप्रवृत्तेरपि प्रसङ्गात् ।
न चैवमेवाऽस्त्विति वाच्यम् । तथा सति शशशृङ्गादीनामनुपाख्यकोटिबहिर्भावप्रसङ्गः ।
न चैवं सति शशशृङ्गादीनां नास्तित्वधर्मयोगित्वानङ्गीकारे शशशृङ्गं नास्तीति प्रतीतेरनु-भूयमानायाः का गतिरिति वाच्यम् ।।
अस्तित्वविरोधिनो नास्तित्वस्याऽखण्डस्याऽभ्युपगमपक्षे व्यधिकरणस्याऽपि शशीयत्वस्याऽनुयोगितावच्छेदकत्वमाश्रित्य शशीयत्वावच्छिन्नशृङ्गनिष्ठविशेष्यतानिरूपितनास्तित्वनिष्ठप्रकारताकत्वस्य तस्यामभ्युपगमेन सामञ्जस्यात् । अस्तित्वाभावस्य नास्तित्वरूपतायामप्युक्तदिशा सामञ्जस्यं प्रतियोगिमत्यपि व्यधिकरणधर्मावच्छिन्नानुयोगिताकाभावस्य प्रतीत्यनुरोधेन स्वीकरणीयत्वात् । व्यधिकरणधर्मावच्छिन्नानुयोगिताकाभावबलादेव च शशशृङ्गे नरविषाणं नास्तीति प्रतीतेरुपपत्तिः, तस्याः शशीयत्वावच्छिन्नशृङ्गनिष्यनुयोगिताकनरीयत्वावच्छिन्नविषाणनिष्ठप्रतियोगिताकाभावविषयकत्वात् । अनुयोगिवाचकपदासमभिव्याहारेऽप्यभाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org