________________
भङ्गप्रभा
निरूपद्रवैव, प्रमेयस्य प्रमेयत्वं स्वस्वरूपं घटत्वादि पररूपमिति ताभ्यामस्तित्वनास्तित्वयोः सम्भवात् । न च, निर्विशेषस्य सामान्यस्याऽभावेन घटत्वादिना प्रमेयस्य नास्तित्वे घटपटादिविशेषविनिर्मुक्तस्य प्रमेयसामान्यस्याऽप्रतीत्या सर्वथोच्छेद एव तस्य स्यादिति वाच्यम् ।
यतो घटो घट इति प्रतीतिर्न भवति, प्रमेयो घट इति प्रतीतिस्तु भवति । यदि घटत्वेन घटसत्तैव प्रमेयस्याऽप्यस्तित्वं स्यात् तदा घटो घट इतिवत् प्रमेयो घट इत्यप्यविशेषान्न स्यात् । तस्मात् सामान्यस्य विशेषरूपव्यतिरिक्तरूपेण सत्त्वमभ्युपगन्तव्यम् । एवमेव सविशेषरूपं सामान्यं सिद्धं भवति । अन्यथा विशेषो यथा न सविशेषस्तथा सामान्यमपि न सविशेषं स्यात् । एतेन घटो घटत्वेनाऽस्ति प्रमेयत्वेन नास्तीत्यपि व्याख्यातम् । एवं घटः प्रमेयत्वेनाऽस्ति घटत्वेन नास्ति, तथा प्रमेयो घटत्वेनाऽस्ति प्रमेयत्वेन नास्तीत्यपि बोध्यम् ।
८४
विवक्षावैचित्र्यबीजं त्वित्थमवसेयम् - घटपटादितोऽत्यन्तपृथग्भावेन प्रमेयसामान्यं यद्यपि नोपलभ्यते, तथाऽपि घटः प्रमेयः, पटः प्रमेयः, मठः प्रमेय इत्यादौ सर्वत्र प्रमेयः प्रमेय इत्यबाधितानुगतप्रतीत्या घटपटाद्यनुस्यूतं प्रमेयसामान्यं तावदस्तीत्यत्र न कस्याऽपि वादिनो विगानं सम्भवति । परन्तु घटपटादीनां यथा दण्डचक्रचीवरादितुरीवेमादिप्रतिनियतसामग्रीप्रयोज्यतया घटत्वपटत्वादिको धर्मो जन्मत आरभ्यैव स्वाभाविको, नैवं प्रमेयत्वसामान्यं तस्य प्रमात्मकज्ञानविषयत्वरूपस्य प्रमासामग्रीपरतन्त्रस्य प्रमाव्यक्तिभेदेन कथञ्चिद् भिन्नस्यौपाधिकस्य तत्तत्प्रमासामग्रीदशायामुत्पद्यमानस्वरूपतया, तद्विगमदशायां विलीयमानस्वरूपतया स्वीकरणीयत्वात् ।
एवं च प्रमेय इति प्रमात्मकज्ञानविषयः । तस्य यदि घटत्वपटत्वादिना सत्त्वं स्यात्, तदा जन्मत आरभ्यैव घटत्वपटत्वादितिर्यग्सामान्यव्यवस्थितिपर्यन्तं सत्त्वं स्यात् । तदपगमदशायां तदपगमः स्यात् । तथा च घटपटादिकं देवदत्तो यदा न प्रमिणोति, घटपटादिभावेन च घटपटादेरवस्थानमस्ति तदाऽपि देवदत्तस्येदानीं प्रमेयो घटादिरिति स्यादित्येवं पर्यालोचयन् वक्ता प्रमेधस्य प्रमेयत्वेनाऽस्तित्वं घटत्वादिना च नास्तित्वं विवक्षति, तया च विवक्षया प्रमेयः प्रमेयत्वेनाऽस्ति, घटत्वेन नास्तीत्येवं भङ्गानां प्रवृत्तिः । एवं घटादिरतीतोऽनागतो वा प्रमाया विषयभावमुपगच्छति, ज्ञानज्ञेययोर्विभिन्नकालीनयोरपि विषयविषयिभावसम्बन्धस्योपगमात् । तथा च घटादीनां यदि प्रमेयत्वेन सत्ता स्यात् तदाऽनागतोऽपि घटः प्रमेयतादशायां वर्त्तमानः स्यात्, एवमतीतोऽपि । वर्त्तमानोऽपि च प्रमानुत्पादविगमदशायामनुत्पन्नो विनष्टश्च स्यादित्येवं पर्यालोचयन् वक्ता घटस्य घटत्वेनाऽस्तित्वं प्रमेयत्वेन च नास्तित्वं विवक्षति, तया च विवक्षया घटो घटत्वेनाऽस्ति, प्रमेयत्वेन नास्तीत्येवं भङ्गानां प्रवृत्तिर्भवति ।
वस्तुव्यवस्था न वस्त्वधीना किन्तु प्रमाणपरतन्त्रैव, वस्तुनः सद्भावेऽपि तत्र प्रमाया अप्रवृत्तिदशायां तद्व्यवस्थाया अभावात् । अतथाभूताऽपि वस्तुव्यवस्था क्रियते भ्रान्तैः । तत्र यद्यपि नाऽस्ति तथावस्तुसत्ता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org