________________
सप्तभङ्गीप्रभा
८३
“सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्राऽर्थात् प्रतीयते ।
यथैवकारोऽयोगादि-व्यवच्छेदप्रयोजनः ।।१।।" इती''त्यभिहितम् ।
यदा च स्याद्वादापरिकर्मितधियं प्रत्येव स्यात्कारप्रयोगस्याऽऽवश्यकत्वं तदा तं प्रति विधेयत्वमपि तदर्थस्य न्याय्यम् ।
न चाऽनेकधर्मात्मको घटस्तादृशास्तित्ववानिति वोधेऽनेकधर्मात्मकत्वस्य स्वातन्त्र्येणैवाऽस्तु विधेयतया भानमिति वाच्यम् ।
तथा सति वाक्यभेदापत्तेः ।
किञ्च, प्रत्येकपदस्याऽर्थं पृथक्तयोपदी स्यादस्त्येव घट इति भङ्गादनेकधर्मात्मको घटस्तादृशास्तित्ववानित्याकारको बोधः पूर्वमुपदर्शितः, पश्चाद् वाक्यार्थनिरूपणावसरे “स्यादस्त्येव घटः स्यान्नास्त्येव घट इत्यस्य स्वरूपाधवच्छिन्नास्तित्वाश्रयो घटः, पररूपाद्यच्छिन्ननास्तित्वाश्रयो घट इति च बोधः” इत्युपदर्यत इति कथं पूर्वापरग्रन्थविरोधोऽपि तेन नाऽऽकलितः ? यदि च स्वरूपाद्यवच्छिन्नत्वं पररूपाद्यवच्छिन्नत्वं च न कस्याऽपि पदस्याऽभिधेयार्थो द्योत्यार्थो वा स्यात्, कस्य बलाच्छाब्दबोधे भासेत ? कथं चैवकाराद्यर्थो वाऽवयार्थाववोधे न प्रवेशित ? इति दिक् ।
यथा च स्वद्रव्यक्षेत्रकालभावैः वस्तुस्वरूपावगतिः, तथा नामस्थापनाद्रव्यभावपि । एवं च स्वद्रव्यक्षेत्रकालभावानां स्वस्वरूपत्वं परद्रव्यक्षेत्रकालभावानां पररूपत्वमित्याभ्यामाद्यद्वितयभङ्गावुपपाद्य सप्तभङ्गी यथोपपादिता भवति, स्वनामादीनां स्वस्वरूपत्वं, परनामादीना पररूपत्वं, ताभ्यां मूलभङ्गावुपपाद्य सप्तभङ्गी तथोपपादयितुं शक्यते । एवं स्वद्रव्यक्षेत्रकालभावानां मध्यादेकस्य स्वस्वरूपत्वमपरस्य पररूपत्वमाश्रित्याऽपि सप्तभङ्गी अबाधितप्रसरा । तथा नामस्थापनाद्रव्यभावानां मध्यादेकस्य स्वस्वरूपत्वमपरस्य पररूपत्वमवलम्व्याऽपि सप्तभङ्गी सूपपादा । अत्र बीजं तु यदि यदेव स्वद्रव्येण सत्त्वं तदेव च स्वक्षेत्रादिनाऽपि सत्त्वं स्यात्, यदेव च नाम्ना सत्त्वं तदेव च स्थापनादिनाऽपि सत्त्वं स्यात्, तदा तेषां स्वरूपभेद एव न स्यात्, एकावगमनदशायां सर्वेषामप्यवगमः स्यात् । एकरूपेण व्यवहृतावविशेषेण तदन्यरूपेणाऽपि व्यवहतिः स्यात्, एकस्वरूपापगमदशायामन्य-स्वरूपस्याऽप्यपगमप्रसङ्गः, एकस्वरूपस्य स्थैर्येऽपरस्याऽपि स्थैर्यप्रसङ्ग इत्यादि स्वयमूह्यम् ।
यदा च नामादीनां मध्यादेकस्य स्वस्वरूपत्वमपरस्य पररूपत्वं विवक्षावैचित्र्येणाऽनेकान्तवादे व्यवस्थितं तदा न व्यधिकरणधर्मस्यैव पररूपत्वमित्यस्याऽर्थतः प्राप्तत्वेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव एव द्वितीयभङ्गविषय इत्यस्य प्रतिक्षिप्तत्वेन प्रमेयादावप्यस्तित्वनास्तित्वविधिनिषेधकल्पनया सप्तभङ्गी 1. सप्तभङ्गीतरङ्गिणी, पृ. ३१, पं. १ । 2. सप्तभङ्गीतरङ्गिणी, पृ. ३८, पं. ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org