________________
सप्तभङ्गप्रभा
शक्यत एव । तस्मादव्याप्यवृत्तित्वपक्षे उपरञ्जकमपि स्वसामानाधिकरण्यं यथा विशेषणं तथा व्याप्यवृत्तित्वपक्षे उपरञ्जकमपि प्रतियोगिवैयधिकरण्यं विशेषणं भविष्यति ।
८२
किञ्चाऽव्याप्यवृत्तित्वस्याऽवगतये यदि प्रतियोगिवैयधिकरण्यं निवेश्यते तदा स्वसामानाधिकरण्यं न निवेश्यमेव । तथा सति व्यतिरेकिणः प्रतियोगिव्यधिकरणात्यन्ताभावाप्रतियोगित्वं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपमव्याप्यवृत्तित्वं विना नोपपद्यत इति भवति तेन तत्कल्पनम् । प्रतियोगिव्यधिकरणस्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं तु नाऽव्याप्यवृत्तित्वनियतं, तदभावेऽपि तत्सम्भवात् ।
किञ्च, परं प्रत्यस्तित्वादीनामव्याप्यवृत्तित्वं साक्षाज्ज्ञापयितुं स्यादस्त्येवेत्यादयो भङ्गाः प्रयुज्यन्ते । तैरपि यद्यनुमानमुपजीव्यैवाऽस्तित्वादयोऽव्याप्यवृत्तितया ज्ञाप्यन्ते, तदा वरं प्रथमत एवाऽनुमानोपन्यासः । किञ्च, स्यादर्थस्याऽनन्तधर्मात्मकत्वस्य परं प्रत्यसिद्धतया तस्योद्देश्यविशेषणत्वमयुक्तम्, अप्राप्तस्य साक्षात्परपरम्परया वा विधेयत्वस्यैवौचित्यात्, एवमनेकधर्मात्मकत्वस्योद्देश्यघटकतया भाने सकलादेशत्वविकलादेशत्वविभागोऽपि न स्यात्, भङ्गमात्रे स्यादर्थस्याऽनेकधर्मात्मकत्वस्य साक्षादेव भानेनैकधर्मद्वारेत्यादिलक्षणासंस्पर्शात् । एवं स्यादस्त्येव घट इत्यादेः स्वद्रव्यादिनाऽस्त्येव घट इत्यादिविशेषरूपे पर्यवसानमुक्तविशेषरूपेण तदर्थस्य विवरणं च दृश्यते । तदपि विमलदासव्याख्याने न सङ्गच्छते । न ह्यनेकधर्मात्मकत्वस्य प्रतियोगिवैयधिकरणस्य वा विशेषः स्वद्रव्यादिनेति कस्याऽपि सचेतसश्चेतसि निविशते । अस्मद्व्याख्याने चाऽनन्तधर्मात्मकत्वमस्तित्वविशेषणं कथञ्चिदर्थस्वारस्याद् विधेयतयैव भासते । तत्र चाऽलौकिक्येव विषयता । तस्यां च कालादिभिरष्टभिरभेदवृत्त्याद्युपयोगघटिता विशेषसामग्रीत्यतस्तज्जन्यत्वप्रतिसन्धानदशायामेव तदवगतिरिति सकलादेशत्वविकलादेशत्वविभागः सामान्यस्य विशेषरूपे पर्यवसानमुक्तविशेषरूपेण विवरणं चेत्येतत् सर्व ।
यच्च
1“स्याच्छव्दादप्यनेकान्त-सामान्यस्याऽवबोधने ।
शब्दान्तरप्रयोगोऽत्र, विशेषप्रतिपत्तये ॥ 9 ॥।”
इति वचनं, तदप्यनेकान्तत्वस्य विधेयतयोक्तदिशा भानमवलम्ब्य स्याद्वादापरिकर्मितबुद्धिमुद्दिश्ये मन्तव्यम् । अत एव तेनाऽपि “ नन्वप्रयुक्तोऽपि स्याच्छब्दो वस्तुनोऽनेकान्तस्वरूपत्वसामर्थ्यात् प्रतीयते, सर्वत्रैवकारवदिति चेत्" इत्याशङ्कय “सत्यं, प्रतिपाद्यानां स्याद्वादन्यायकौशलाभावे वस्तुसामर्थ्यात् तदप्रतीत्या तेषां प्रतिपत्त्यर्थं तदावश्यकत्वात् । प्रतिपाद्यानां स्याद्वादकौशले च स्यात्काराप्रयोग इष्ट एव, प्रमाणादिना - कान्तात्मके समस्तवस्तुनि सिद्धे कुशलानामस्ति घट इति प्रयोगेऽपि स्यादस्त्येव घट इति प्रतिपत्तिसम्भवात् । तदुक्तम्
1. सप्तभङ्गीतरङ्गिणी, पृ. ३०, पं. ६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org