________________
सप्तभङ्गीप्रभा
८१
मुचितत्वात्, अतद्व्यावृत्तिरूपस्य सत्त्वस्य प्रतियोगितावच्छेदकतयाऽऽश्रयणे त्वनवस्थापिशाचिप्रवेशापत्तेः । न तृतीयः, अनुगतधर्मरूपावच्छेदकनिर्वचनमन्तरेण सन्मात्रस्य निषेधानुपपत्त्या यावत्सन्निष्ठ प्रतियोगिताया एवाऽनुपपत्तेः, घटघटेतरोभयनिष्ठप्रतियोगिताया अपि यावत्सन्निष्ठत्वेन तन्निरूपकस्य घटघटेतरोभयभेदस्य केवलान्वयित्वेन तद्वद्भिन्नत्वस्याऽसम्भवाच्च । विस्तरतस्त्वतद्व्यावृत्तिवाचकत्वमन्यत्राऽपाकृतम् । तत्सिद्धमेवकारस्य सप्तभङ्गीघटकत्वमिति ।।
एवकारार्थभानं तु स्वावच्छेदकावच्छेद्यस्वसमानाधिकरणात्यन्ताभावाप्रतियोगिकथञ्चिदस्तितावान् घट इत्येवंरीत्या तत्तदङ्गजन्यशाब्दबोधस्याऽऽश्रयणे स्पष्टमेवानुभूयते । विमलदासस्तु स्याच्छब्दार्थस्याऽनेकान्तस्य घटेनाऽन्वयं, स्यात्पदसमभिव्याहारबलेनैवकारार्थस्य प्रतियोगिव्यधिकरणस्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्याऽस्तित्वेन सहाऽन्वयं च स्वीकृत्य प्रतियोगिव्यधिकरणस्वसमानाधिकरणात्यन्ताभावाप्रतियोग्यस्तितावाननेकधर्मात्मको घट इत्याकारकं बोधं स्यादस्त्येव घट इति भङ्गादभ्युपगच्छति । अत्र येनैव रूपेण घटेऽस्तित्वं तेनैव रूपेणाऽस्तित्वाभावरूपो योऽस्तित्वस्याऽयोगस्तद्व्यवच्छेदावबोधनमेवकारस्य प्रयोजनं न लभ्यते । यतो यदूपेणाऽस्तित्वं तद्रूपेणाऽस्तित्वाभावो घटे सन्नपि न प्रतियोगिव्यधिकरण इति प्रतियोगिव्यधिकरणः स्वसमानाधिकरणो योऽत्यन्ताभावः सोऽन्यस्यैवाऽभावस्तदप्रतियोगित्वमस्तित्वे विद्यते । अस्मत्पक्षे तु यद्रूपेणाऽस्तित्वं तद्रूपेणाऽस्तित्वाभावस्य घटे सत्त्वे तु स्वावच्छेदकावच्छेद्यस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमेवाऽस्तित्वे स्यादिति भवति तद्व्यवच्छेदावभासनमिति ।
किञ्च, दुर्नयत्वापनोदाय स्यात्पदं प्रयुज्यते सुनयत्वसम्पादनाय च । एतदपि प्रयोजनमेतदर्थकरणे नोपपद्यते । स्यात्पदेनाऽनेकधर्मात्मकत्वस्य घटेऽववोधनेऽप्यस्तित्वस्य कथञ्चिदस्तित्वे पर्यवसानं न लभ्यते । न ह्यनेकधर्मात्मकत्वं नास्तित्वमादायैवेत्यस्ति राज्ञामाज्ञा । तथा च व्याप्यवृत्तिधर्मान्तरमादायाऽनेकधर्मात्मकत्वमपि घटे सम्भवति । व्याप्यवृत्त्यस्तित्वमादाय प्रतियोगिव्यधिकरणस्वसमानाधिकरणात्यन्ताभावाप्रतियोग्यस्तित्ववत्त्वमपि स्यात्, को दोषः ? नहि व्याप्यवृत्तिधर्मे स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्य भावे प्रतियोगिव्यधिकरणस्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं न भवेदित्यस्ति ।
न चाऽस्तित्वस्य व्याप्यवृत्तित्वे स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वमात्रस्यैवकारार्थतया भानेऽपि शाब्दबोधस्य प्रामाण्यं स्यादिति स्यात्पदेनोक्तैवकारार्थे प्रतियोगिव्यधिकरणत्वप्रवेशो व्यर्थमापद्येत, अतः प्रतियोगिवैयधिकरण्यप्रवेशान्यथानुपपत्त्याऽव्याप्यवृत्तित्वमस्तित्त्वस्य ज्ञायत इति वाच्यम् ।
यथा ह्यस्तित्वस्य व्याप्यवृत्तित्वे प्रतियोगिवैयधिकरण्यनिवेशो व्यर्थः, तदत्यन्ताभावस्य स्वसामानाधिकरण्यविरहादेव स्वसमानाधिकरणात्यन्ताभावपदेन ग्रहणासम्भवात्, तथाऽस्तित्वस्याऽव्याप्यवृत्तित्वे स्वसामानाधिकरण्यनिवेशो व्यर्थः स्यात्, तदत्यन्ताभावस्य प्रतियोगिवैयधिकरण्यविरहादेव प्रतियोगिव्यधिकरणात्यन्ताभावपदेन ग्रहणासम्भवात् । अन्यत्र स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्यैवकारार्थत्वेऽपि स्यात्पदसमभिव्याहारस्थले प्रतियोगिव्यधिकरणात्यन्ताभावाप्रतियोगित्वमेवकारार्थ इत्यपि वक्तुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org