________________
सप्तभङ्गीप्रभा स शक्यः । इत्थमेवाऽवगमनसौकर्याच्छिष्यादयोऽपि प्रतिवोधयितुं शक्याः । प्रथमत एवाऽनन्तधर्मात्मकत्वाभिधाने च कथमित्थमित्याकाक्षाया अनुपशान्तेरिति । पक्षान्तरे तु स्याद्वादापरिकर्मितवुद्धिः प्रति घटोऽस्तीति वाक्यं न प्रमाणकार्य सम्पादयितुमर्हति । अस्तिपदप्रतिपाद्यस्याऽस्तित्वस्य सर्वथाऽस्तित्वमादायाऽपि प्रतिपत्तिसम्भवात् । घट: स्यादस्तीति वाक्यं कथञ्चिदस्तित्वं प्रतिपादयदपि येन रूपेणाऽस्तित्वं तेनैव रूपेणाऽस्तित्वाभावरूपनास्तित्वात्मकतदयोगस्य व्यवच्छेदं न प्रतिपादयतीति तेनैव रूपेण प्रथमभड्न घटेऽस्तित्वं प्रतीतिपथमारोहेत् तेनैव रूपेण द्वितीयभड्रेन नास्तित्वं प्रतीतिपथमापतत् केन वार्येत ? तथा च बाधितार्थकत्वेन यथा घटोऽस्त्येवेति वाक्यस्य दुर्नयत्वं तथैवकारासंस्पर्शिनः स्यादस्तीति वाक्यस्याऽपि स्यात् । अतोऽनिष्टार्थनिवृत्त्यववोधकस्यैवकारस्य भङ्गे सन्निवेशो युक्त एव । घटोऽस्त्येवेत्यादिवाक्ये तु नैवकारोऽनिष्टार्थनिवर्तकः; किन्तु कथञ्चिदस्तित्वस्य कथञ्चिन्नास्तित्वस्य चेष्टस्यैवाऽर्थस्य प्रतिक्षेपक इति युक्तं तस्य दुर्णयत्वम् ।
एतेन “अस्त्येव घट इत्यस्याऽपि हि दुर्नयत्वमवधारणार्थकैवकारसम्मिश्रणादेव, तच्चाऽत्राऽप्यविशिष्टम्” इति निरस्तम् । ज्ञानमर्थं गृह्णात्येवेत्यादाविव क्रियार्थस्याऽत्राऽपि विशेषणत्वेन तत्सङ्गतैवकारस्याऽयोगव्यवच्छेदार्थकत्वं न विरुद्धम् । यत्र क्रियातिरिक्तं विशेषणं वर्तते तथाविधस्थल एव क्रियासङ्गतैवकारस्याऽत्यन्तायोगव्यवच्छेदबोधकत्वमिति नियमः । तथा चाऽवधारिणी भाषां न भाषेतेति निषेधोऽपीष्टार्थप्रतिक्षेपकावधारणविषय एवेति मन्तव्यम् । अनिष्टार्थनिवर्त्तकावधारणस्याऽऽवश्यकत्वं तु प्राचामप्यनुमतम् । तदुक्तम्
“वाक्येऽवधारणं ताव-दनिष्टार्थनिवृत्तये ।।
कर्त्तव्यमन्यथाऽनुक्त-समत्वात् तस्य कुत्रचित् ।।१।।'' इति । ननु सत्त्वापरपर्यायस्याऽस्तित्वस्याऽसद्व्यावृत्तिरूपत्वेनाऽस्तीत्युक्त्यैव नास्तित्वव्यावृत्तेर्लाभसम्भवेन तथाऽप्यनर्थकमेवाऽवधारणमिति चेत्;
न, विधिमुखेनोपजायमानप्रत्ययस्याऽतद्व्यावृत्तिविषयत्वेनोपपादनेऽनुभवविरोधस्य दुरुद्धरत्वात् ।
किञ्च, यदि बौद्धाभ्युपगमेन विधिस्वरूपस्याऽतद्व्यावृत्तिरूपतयैवाऽनुभव उरीक्रियते तदाऽतद्व्यावृत्तिशब्दोऽप्यतद्व्यावृत्तिमतद्व्यावृत्तीतरव्यावृत्तिरूपेणैवाऽभिदध्यात् । एवमतद्व्यावृत्तीतरव्यावृत्तिशब्दोऽपि स्वार्थं तदितरव्यावृत्तिरूपेणैवाऽभिदध्यादित्यनवस्थैव स्यात् । न तु कस्यचिदप्यवगतिः ।
किञ्चाऽसद्व्यावृत्तिरिति सदिन्नभिन्नत्वम् । तत्र सद्विनेत्यस्य सन्निष्ठप्रतियोगिताकभेदवानित्यर्थोऽभ्युपगतः सत्त्वावच्छिन्नप्रतियोगिताकभेदवानित्यर्थो वा यावत्सन्निष्ठप्रतियोगिताकभेदवानित्यर्थो वा स्यात् ?
नाऽऽद्यः, सन्मात्रस्यैव यत्किञ्चित्सन्निष्ठप्रतियोगिताकभेदवत्त्वेन तदिन्नत्वस्याऽसम्भवात् । न द्वितीयः, विधिरूपस्य सत्त्वस्य प्रतियोगितावच्छेदकतया भानाभ्युपगमे साक्षादेव तस्य सत्प्रतीतिविषयत्वस्य स्वीकर्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org