________________
७९
सप्तभङ्गीप्रभा पचाराभ्यामनन्तधर्माणामपि प्रतिपादनादित्यन्यदेतत् । उक्तप्रकारत्रयविलक्षणं च घटः स्यादस्त्येवेति वाक्यमिति ज्ञापकवाक्यतैवाऽस्य नाऽस्ति, दूरे तत्समाहाररूपायाः सप्तभङ्ग्याः प्रमाणवाक्यत्वमिति ।
न च, स्यादस्त्येव घट इत्यनेन प्रतीतेरुपजायमानाया अपलपितुमशक्यत्वेनोक्तप्रकारत्रयमध्येऽस्याऽन्तर्भाव आवश्यक इति वाच्यम् ।
तथा सति दुर्नयवाक्य एवाऽस्याऽन्तर्भावोऽस्तु । अस्त्येव घट इत्यस्याऽपि हि दुर्नयत्वम्, अवधारणार्थकैवकारसम्मिश्रणादेव, तच्चाऽऽत्राऽप्यविशिष्टम् ।
एवं च दुर्नयवाक्यसमाहाररूपा सप्तभङ्गयपि प्रमाणं न स्यात् । एकस्याऽन्धस्य रूपसाक्षात्काराभावेऽन्धसहस्रस्याऽपि रूपसाक्षात्काराभावस्यैव भावादिति चेत्;
अत्र वूमः, स्यादस्त्येव घट इति वाक्यं प्रमाण-नय-दुर्नयांशसंवलितं सुनय इत्याख्यायते । अत्र स्यादिति प्रमाणवाक्यांशः, अस्तीति नयांशः, एवकारश्च दुर्नयांशः स्पष्टं प्रतीयते । अथवाऽस्त्येवेति दुर्नयस्यैव स्यादिति प्रमाणांशसम्पर्कादस्तीति नयस्य वा दुर्नयांशैवकारमिश्रितस्याऽपि प्रमाणांशसम्पर्कात् पक्षान्तरे दुर्नयांशकदर्थितस्याऽपि प्रमाणस्य नयांशसम्मिश्रणात् सुनयत्वम् । अर्थानुसारेण हि तद्रोधकस्य वाक्यस्य व्यवस्था भवति । अर्थश्च नयविषयीभूतो वस्त्वंशोऽस्तित्वादिः, तस्य च सर्वथाऽस्तित्वादिरूपे कथञ्चिदस्तित्वादिरूपे वा पर्यवसानं, न तु सर्वथाऽस्तित्वादिकथञ्चिदस्तित्वादिभ्यामन्याऽस्तित्वादेः तृतीया कोटिः सम्भावनास्पदमपि । तथा च सर्वथाऽस्तित्वादेः प्रतिपादकं यथाऽस्त्येवेत्यादिवाक्यं, तस्य बाधितार्थत्वेन दुर्नयत्वं, तथा कथञ्चिदस्तित्वादे: प्रतिपादकं स्यादस्त्येवेत्यादिवाक्यं, तस्य त्ववाधितार्थत्वेन सुनयत्वम् । यस्य त्वर्थस्य सर्वथाऽस्तित्वादिबाधितः प्रकारः कथञ्चिदस्तित्वादिरवाधितः प्रकारः, तस्याऽस्तित्वस्य सामान्यतः प्रतिपादकतयाऽस्तीत्यस्य नयत्वाभिधानमाचार्याणामविरुद्धम् ।
न च, कथञ्चिदस्तित्वादेर्वस्त्वंशस्य स्यादस्तीत्यादेरेवाऽवगमसम्भवेनैवकारसङ्घटनं व्यर्थमेवेति वाच्यम् ।
स्यादिति निपातोऽनेकान्तावद्योतकोऽविशेषेणाऽनन्तधर्मात्मकत्वप्रतिपादकोऽप्येवकारसमभिव्याहारबलात् । कथञ्चिदस्तित्वरूपांशस्य प्राधान्येन प्रतिपादकोऽन्यांशस्य गौणतयेत्यर्थकतयैवकारस्य सार्थक्यात् । अन्यथा प्रमाणावाक्यत्वमेव स्यात्, न नयवाक्यत्वमिति ।
न च, वस्तुस्वरूपावबोधकतया प्रमाणस्य नयापेक्षया बलवत्त्वेन तेन स्वशिष्यादिप्रतिबोधस्य प्रतिवादिनः संशयापाकरणप्रतिबोधयोः सम्भवे एवकारसंयोजनेन तत्र नयवाक्यतामापाद्य तेन प्रतिवोधनमुत्तरदानं चाऽसमञ्जसमिति वाच्यम् ।
एकान्तकदाग्रहग्रहिलचित्तः परो हि प्रतिनियतैकैकधर्मात्मकतयैव वस्त्वगच्छति । तत्र तत्तन्नायार्पणतस्तदंशे कथञ्चिदर्थानुप्रवेशेन बोधयितुं शङ्कशुकतानास्पदं च कर्तुं यथा शक्यो, न तथा सहसैवाऽनन्तधर्मात्मकत्वावबोधनतः । तत्तन्नयेन च प्राधान्येन तत्तदंशेऽवगते तु प्रमाणतोऽनन्तधर्मात्मकत्वमप्यवगमयितुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org