________________
सप्तभङ्गप्रभा
सकल श्रुतस्यैव सकलार्थप्रतिपादकत्वात् । एतेन सकलार्थप्रतिपादकत्वात् सप्तभङ्गीवाक्यं समुदितं सकलादेश इति निरस्तम्, समुदितस्याऽपि तस्य सकलार्थप्रतिपादकत्वासिद्धेः, सदादिसप्तवाक्येनैकानेकादिसप्तवाक्यप्रतिपाद्यधर्माणामप्रतिपादनात् " इति वचननिकुरम्बं विमलदासस्य ।
७८
किञ्च, प्रश्नयितारं परं प्रति सप्तभङ्गीवाक्यं ह्युत्तरवाक्यतया प्रवृत्तं नोपदेशरूपेण । उत्तरवाक्यं चैकधर्ममधिकृत्य यावन्तः प्रश्नाः परस्योज्जृम्भन्ते तावतामुन्मूलनमात्रेण सकलादेशतासमधिगतं भवति । यस्य कस्यचित् प्रश्नस्य प्रतिविधानेऽपि तच्छृङ्खलाप्रतिबद्धस्य प्रश्नान्तरस्य सद्भावे विकलादेश एव भवति, तावता कथायाः पूर्वरूपस्योत्तररूपस्य वाऽपर्यवसानात् । वक्ति चैवम्भूतेऽर्थे प्रश्नयितोत्तरवादिनं प्रति सकलमादिष्टं भवताऽत्राऽर्थे यतः सर्वेऽपि प्रश्ना प्रतिविहिताः, एकमेकमेव धर्मं प्रतिपादयन् भवान् विकलमेवाऽऽदिशति, यतः प्रश्नान्तराणि मे नाऽधरीकृतानीति । यदि तु तेषामभिप्रायो विमलदासोक्त्यनुपात्येव तदा तदुक्तखण्डनजालं नाऽतिक्रामति । अपरं चेदृशसकलादेशत्वविकलादेशत्वयोः प्रतिपादनं न प्रमाणवाक्यनयवाक्यत्वोपपादनानुगुणमिति किमर्थमित्थं तथा प्ररूपयन्तीति त एव जानन्तीत्युपरम्यते ।
प्रकृतमनुसरामः, तत् सिद्धं सप्तभङ्गयाः सकलादेशस्वभावत्वेन प्रमाणवाक्यत्वं विकलादेशस्वभावत्वेन च नयवाक्यत्वमिति, तया शिष्यादिप्रतिबोधनं वादिनं प्रत्युत्तरदानं च स्याद्वादिनां सङ्गतमेवेति । ननु घटोऽस्त्येवेति वाक्यं दुर्णय:, घटोऽस्तीति वाक्यं नयः, घटः स्यादस्तीति वाक्यं प्रमाणमित्येवं त्रिधैव ज्ञापकस्य वाक्यस्य प्ररूपणं भवतामनुमतम् । यत उक्तं
“सदेव सत् स्यात्सदिति विधार्थी, मीयेत दुर्नीतिनयप्रमाणैः” इति । युक्तं चैतत्, घटोऽस्त्येवेत्यत्रैवकारेण घटेऽस्तित्वायोगस्य नास्तित्वस्य व्यवच्छेदः क्रियते, विशेषणसङ्गतैवकारस्याऽयोगव्यवच्छेदार्थकत्वस्य शङ्खः पाण्डुर एवेत्यादी दर्शनात् । अत्राऽपि चाऽस्तित्वरूपविशेषणसङ्गत एवैवकारः, न तु पार्थ एव धनुर्धरः, जीव एव ज्ञानवानित्यादिवद् विशेष्यसङ्गतोऽन्ययोगव्यवच्छेदार्थकः । तथा सति घटाद्वैतवादः स्यात् । न वा नीलं सरोजं भवत्येवेत्यत्रेव क्रियासङ्गतोऽत्यन्तायोगव्यवच्छेदार्थकः । तथा सति कस्यचिद् घटस्याऽस्तित्वेऽपि कस्यचिद् घटस्य शशशृङ्गकल्पत्वं स्यात् । किञ्चाऽस्तीत्यस्य विशेषणवाचकत्वेन तदतिरिक्तक्रियावाचकपदस्याऽभावेनाऽत्यन्तायोग-व्यवच्छेदार्थकत्वसम्भावनमपि नाऽस्ति । एवं च घटे यथा किञ्चिद्रूपेणाऽस्तित्वं तथाऽस्तित्वाभावोऽपि केनचिद्रूपेणेति तद्व्यवच्छेदो बाधित इति बाधितार्थप्रतिपादकत्वाद् घटोऽस्त्येवेत्यस्य दुर्नयत्वम् । इतरांशाप्रतिक्षेपकत्वे सत्येकांशग्राहकत्वं हि नयत्वम् । तच्च घटोऽस्तीति वाक्ये निर्विवादमेव । अनन्तधर्मात्मकवस्तुप्रतिपादकवाक्यत्वं च प्रमाणवाक्यत्वम् । तच्च घटः स्यादस्तीति वाक्ये सुदृढनिरूढं, स्यात्पदेनाऽनेकान्तावबोधकेनाऽनन्तधर्मात्मकत्वस्य घटे संशब्दनात् । अपेक्षावचनं नय इत्याश्रयणेन तु स्यादस्तीति नयः, स्यादित्यनेनाऽपेक्षावबोधनात् । अस्तीति प्रमाणमस्तित्वप्रतिपादनद्वाराऽभेदवृत्तिप्राधान्यो1. सप्तभङ्गीतरङ्गिणी, पृ. १९, पं. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org