________________
सप्तभङ्गीप्रभा
७७
त्वस्तित्वस्य मुख्यतया धर्मिणश्च गौणतया । यदि च यत्रैव मुख्यविशेष्यत्वं वर्तते तस्यैव मुख्यतया प्रतिपादनमित्यभिमतं तदाऽस्तिशब्दोऽपि न भावशब्द: । नहि तज्जन्यज्ञानेऽस्तित्वं विशेष्यं, किन्तु प्रकारः । एवं च जीवत्वमस्तित्वमित्यादिशब्दा एव भावशब्दाः । तथा चोक्तदिशा स्यादस्त्येव घट इत्यस्य सकलादेशत्वं, घटे स्यादस्तित्वमेवेत्यस्य विकलादेशत्वमप्रतिहतमिति मन्तव्यम् ।
एतेन यदपि “यदपि-पाचकोऽयमिति द्रव्यशब्द:, पाचकत्वमस्येति भावशब्द इति द्रव्यभावशब्दयोविभागनिरूपणं, तदपि न सङ्गच्छते, पाचकशब्देनाऽपि पाचकत्वधर्मविशिष्टस्यैव पुरुषस्याऽभिधानात्, पाचकत्वमित्यनेनाऽपि पाचकवृत्तित्वविशेषितस्यैव धर्मस्य बोधनादिति” इत्युक्तं विमलदासेन तदपि निरस्तम् ।
यथा च पाचकशब्द: पाचकत्वधर्मविशिष्टमेव पुरुषमभिधत्ते तथा जीवशब्दोऽपि जीवत्वधर्मविशिष्टमेव जीवमाह । तथा सत्यपि जीवशब्दो द्रव्यशब्दो न पाचकशब्दस्तथेति स्वशिष्य एव प्रतिबोधनीयः । अस्य पाचकत्वमित्यत्र पाचकत्वस्य मुख्यविशेष्यतया भानेन भवति प्राधान्यमिति पाचकत्वमिति शब्दस्य भावशब्दत्वे निर्निमित्त एव द्वेषः, अस्तिशब्दस्य भावशब्दत्वे निर्निमित्त एव रागो विमलदासस्य । धर्मिणः प्रधानतया बोधकवाक्यस्य सकलादेशत्वं, प्राधान्येन धर्मबोधकवाक्यस्य विकलादेशत्वं यत् प्रतिपादितं, तेनाऽयमभिप्रायो लक्ष्यते - धर्मिणोऽनन्तधर्मात्मकस्यैव प्रमाणगोचरतया तस्य प्राधान्येन भाने साक्षादेव तदात्मना प्राधान्येनाऽनन्तधर्माणामपि भानमिति सकलादेशत्वयोगिनो वाक्यस्य प्रमाणवाक्यत्वम् । धर्मस्य प्राधान्येन भाने चैकस्य धर्मस्य तद्धर्मिगतैर्यावद्विर्धमैः सह न साक्षादेवाऽभेदो येनैकधर्मात्मना प्राधान्येनाऽशेषाणामपि धर्माणां भानं भवेत्, किन्तु धर्मिद्वारा । धर्मी च तत्र गुणतयैव भासत इति तेषामपि गुणतयैव भानमतो विकलादेशत्वयोगिनो वाक्यस्य नयवाक्यत्वमिति ।
ये तु सकलादेशत्वविकलादेशत्वयोर्लक्षणं मनसि यत्किञ्चिदभिसन्धाय स्यादस्तीत्यादि वाक्यं सप्तविधमपि प्रत्येकं विकलादेशः, समुदितं सकलादेश इति लक्ष्यमात्रमभिदधति, तेषामभिप्रायो यदीदृशः, तथा हि - निराकाडक्षबोधजनकत्वं सकलादेशत्वं साकाडक्षवोधजनकत्वं विकलादेशत्वम || चोत्थिताकाक्षाराहित्यं, साकाङ्क्षत्वं चोत्थिताकाङ्क्षत्वम् । एवं च धर्माणां सप्तविधत्वेन जिज्ञासासंशययोः सप्तविधत्वस्य व्यवस्थापितत्वेनैकेन भनेनैकस्य धर्मस्य वोधने एकैव जिज्ञासा निवर्तते न जिज्ञासान्तरमिति प्रत्येकभङ्गजन्यबोधस्य साकाङ्क्षत्वाद्भवति तञ्जनकानां भङ्गानां प्रत्येकं विकलादेशत्वं, समुदितानां च तेषामेकवाक्यतया वोधजननदशायां सप्तानामपि जिज्ञासानामुपशमात् तज्जन्यबोधस्य निराकाक्षत्वेन तज्जनकतया सकलादेशत्वमिति, एतदभिप्रायानववोधविजृम्भितमेव “अत्र चिन्त्यते - कुतः स्यादस्तीत्यादि वाक्यं प्रत्येकं विकलादेशः ? ननु, सकलार्थप्रतिपादकत्वाभावाद् विकलादेश इति चेत्; न, एतादृशवाक्यसप्तकस्याऽपि विकलादेशत्वापत्तेः, समुदितस्याऽपि सदादिवाक्यसप्तकस्य सकलार्थप्रतिपादकत्वाभावात्, 1. सप्तभङ्गीतरङ्गिणी, पृ. १८, पं. ६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org