________________
सानभट्टीप्रमा
स्वासाधारणत्वं तु स्वनिष्ठप्रकारतानिरूपितनिरवच्छिन्नविशेष्यताशालित्वम् । एवं च स्याज्जीव एव, स्यादजीव एवेत्यादिसप्तभङ्गी स्यादस्त्येव स्यान्नास्त्येवेत्यादिसप्तभङ्गी च प्रतिभङ्गं सकलादेशस्वभावा प्रतिभङ्गं विकलादेशस्वभावा चेति, स्यादस्त्येव घटः स्यान्नास्त्येव घट इत्यादि स्यादस्त्येव पटः स्यान्नास्त्येव पट इत्यादिसप्तभङ्गीनां च विशेष्यभेदभिन्नानामनन्तानामपि सामान्यतः स्यादस्त्येवेत्यादिसप्तभङ्गीस्वरूपत्वसम्भवेन तद्गतयोः सकलादेशत्वविकलादेशत्वयोः सम्भवेन विशेषतः सकलादेशत्वविकलादेत्वयोरभावेऽपि क्षत्यभावः । यथा ह्यर्थस्य सामान्यविशेषोभयरूपता तथा तत्प्रतिपादकसप्तभङ्गीवाक्यस्याऽपीति । उक्तविवक्षायां च “सत्त्वाद्यन्यतमेनाऽपि धर्मेणाऽविशेषितस्य धर्मिणः शाव्दवोधविषयत्वासम्भवात्, धर्मिवृत्तित्वाविशेषितस्य धर्मस्याऽपि तथात्वादुक्त-लक्षणस्याऽसम्भवात् ।
न च, स्याज्जीव एवेत्यनेन धर्मिमात्रविषयकवोधस्य जननात् स्यादस्त्येवेत्यनेन केवलधर्मविषयकबोधस्य जननाच्च नाऽसम्भव इति वाच्यम् ।
यतो जीवशब्देन जीवत्वरूपधर्मावच्छिन्नस्यैव जीवस्याऽभिधानं न तु केवलधर्मिणः । अस्तिशब्देन च यत्किञ्चिद्धर्मिवृत्तित्वविशेषितस्यैवाऽस्तित्वस्याऽभिधानं, न तु केवलधर्मस्येति सर्वानुभवसाक्षिकम्' इति वचनसन्दर्भोऽपि 'विमलदासदृब्धो नाऽत्राऽवकाशं लभते ।
___ यदि च शाब्दबोधसामान्य एवोद्देश्यत्वाख्या विषयता विधेयत्वाख्या च विषयताऽवश्यम्भाविनीति नियमः, एकं च पदं नोद्देश्यत्वविधेयत्वयोः प्रयोजकमिति नियमश्च शब्दमर्यादाभिज्ञानामनुमतः स्यात् तदा स्याज्जीव एवेत्यादिका स्यादस्त्येवेत्यादिका वा सप्तभड़ी प्रमाणवाक्यतामेव न विभ्रति । अलमस्यां सकलादेशत्वविकलादेशत्वसमन्वयचिन्तया । एवं चोक्तदिशा निरुच्यमानं सकलादेशत्वं विकलादेशत्वं च प्रमाणवाक्येऽसम्भवदोषाघातमतो धर्माविषयकेत्यस्य धर्मनिष्ठमुख्यविशेष्वत्वानिरूपकेत्यर्थः । तथा च स्यादस्त्येव घटः स्यान्नास्त्येव घट इत्यादिका सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा, घटे स्यादस्तित्वमेव घटे स्यान्नास्तित्वमेवेत्यादिका च सप्तभङ्गी प्रतिभङ्गं विकलादेशस्वभावेति सिद्धं भवति ।
एतेन “मुख्यतया द्रव्यप्रतिपादकशब्दो द्रव्यशब्दः, यथा जीवशब्द: ! जीवशब्देन हि जीवत्वरूपधर्मो गौणतया प्रतिपाद्यते, जीवद्रव्यं मुख्यतया । एवं मुख्यतया धर्मप्रतिपादकशब्दो भावशब्दः, यथाऽस्त्यादिशब्दः । तेन ह्यस्तित्वरूपधर्मस्य मुख्यतया प्रतिपादनं धर्मिणश्च गौणतयेति द्रव्यभावशब्दयोर्विभाग उपपद्यत"2 इत्यप्यसङ्गततयाऽऽवेदितं भवति । जीवशब्देन जीवत्वविशिष्टस्य ज्ञानं भवति । तत्र जीवत्वे विशेष्यतानात्मकप्रकारत्वलक्षणं मुख्यविषयत्वं वर्तते । धर्मिण्यपि प्रकारतानात्मकविशेष्यत्वलक्षणं मुख्यविषयत्वं वर्तते । तथा च जीवत्वजीवद्रव्ययोर्मुख्यतया प्रतिपादनमेव जीवशब्दात् प्राप्तं, न तु जीवत्वस्य गौणतया जीवद्रव्यस्य च मुख्यतया । एवमस्तित्वतदाश्रयधर्मिणोर्मुख्यतया प्रतिपादनमेवाऽस्तिशब्दात् प्राप्तं, न 1. सप्तभङ्गीतरङ्गिणी, पृ. १७, पं. २ । २. सप्तभङ्गीतरङ्गिणी, पृ. १८, पं. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org