________________
सप्तभङ्गीप्रभा
सकलादेशत्वानुपपत्तिः । स्यात्पदस्य चाऽनन्तधर्मात्मकत्वद्योतकस्य भङ्गमात्रे सत्त्वेन तावता सकलादेशत्वे विकलादेशत्वं न स्यादेवेत्यत एकधर्मप्रतिपादनद्वारोक्तदिशाऽनन्तधर्मप्रतिपादनमवलम्ब्यैवोक्तं सकलादेशत्वमभिमतमित्यास्थेयम् । तथा यद्धि वस्त्वनन्तधर्मात्मकं तदनन्तधर्मान्तर्गतैकधर्मात्मकं भवत्येवेत्येकधर्मात्मकेत्युक्तेरनतिप्रयोजनत्वं मा प्रसाङ्क्षीदित्येकधर्ममात्रात्मकार्थत्वं वाच्यम् । तच्चाऽनन्तधर्मात्मके वस्तुनि बाधितम् । अतः कथञ्चिदेकधर्मप्रतिपादनद्वाराऽनन्तधर्मप्रतिपादनाभावमुक्तदिशाऽऽस्थायैकधर्मात्मकवस्तुविषयकबोधजनकवाक्यत्वं विकलादेशत्वमित्यभिमतं वाच्यम् । तथा चाऽत्राऽपि प्रमाणवाक्यानां नयवाक्यानां च सप्तविधत्वमित्युपपद्यते ।
एतेन “तेषां प्रमाणवाक्यानां नयवाक्यानां च सप्तविधत्वव्याघातः, प्रथमद्वितीयचतुर्थभङ्गानां सत्त्वासत्त्वावक्तव्यत्वरूपैकैकधर्मात्मकवस्तुविषयकबोधजनकानां सर्वथा विकलादेशत्वेन नयवाक्यत्वापत्तेः, तृतीयपञ्चमषष्ठसप्तमानामनेकधर्मात्मकवस्तुविषयकबोधजनकानां सदा सकलादेशत्वेन प्रमाणवाक्यत्वापत्तेः । न च त्रीण्येव नयवाक्यानि चत्वार्येव प्रमाणवाक्यानीति वक्तुं युक्तं, सिद्धान्तविरोधात्” इति विमलदासोक्तेर्वेमल्यमपाकृतं भवति, कालादिभिरष्टभिरभेदवृत्तेरनाश्रयणे सप्तसु भड्नेष्वेकधर्मबोधकत्वस्यैव भावात्, तदाश्रयणे चाऽनेकधर्मबोधकत्वस्यैव सद्भावात् ।
प्रथमभङ्गप्रतिपाद्यं यदस्तित्वं द्वितीयभङ्गप्रतिपाद्यं च यन्नास्तित्वं तदुभयमेव तृतीयभङ्गजन्यबोधे भासते । एवं पञ्चमादिभङ्गजन्यबोधे प्रथमादिभङ्गप्रतिपाद्यं यदस्तित्वादिकं तृतीयभङ्गप्रतिपाद्यं यदवक्तव्यत्वं तदुभयं तत्त्रयं च भासते, न त्वतिरिक्तं धर्मान्तरमिति मनसि निधायैवमुक्तिः स्यादपि यदि “धर्माः सत्त्वादयः सप्त" इत्यादिवचनं न व्याकुप्येत । इदं तु स्याद् यदि तेषामभिप्रायो यथाश्रुतमेव स्ववचनं संवदति तदा सप्तानामपि भङ्गानां प्रतिभङ्गमेकैकधर्मप्रतिपादकत्वेन विकलादेशत्वमेव स्यात्, न सकलादेशत्वम् । यदि वा तृतीयपञ्चमादिभड्रेष्वनेकधर्मप्रतिपादनमुरीक्रियते तदाऽपीदृशात् सकलादेशत्वान्न प्रमाणवाक्यत्वमुपपत्तिपद्धतिमेतीति विभावयन्तु विद्वांसः । यदपि धर्माविषयकधर्मिविषयकबोधजनकवाक्यत्वं सकलादेशत्वं, धर्म्यविषयकधर्मविषयकबोधजनकवाक्यत्वं विकलादेशत्वमिति मतं, तत्राऽपि शिष्यबुद्धिवैशद्यव्यतिरिक्तं किमस्येदृशसकलादेशत्वविकलादेशत्वविभजनस्य प्रयोजनम् ? इति प्रयोजनगवेषणा न क्रियते चेत् तदा कथञ्चिदुपपन्न भवत्येव । धर्माविषयकेत्यत्र धर्मपदं चाऽसाधारणधर्मातिरिक्तधर्मपरम् । तदसाधारणधर्मत्वं च तनिष्टनिरवच्छिन्नविशेष्यताविशिष्टप्रकारताशालित्वम् । वैशिष्ट्यं च स्वनिरूपितत्वस्वावच्छेद्यविशेष्यतानिरूपितावच्छेदकतावच्छेद्यत्वोभयसम्बन्धेन । द्वितीयसम्बन्धश्चाऽनन्तराभासमानसमानाधिकरणैकज्ञानीयविषयत्वयोरवच्छेद्यावच्छेदकभाव इति मतेन, तयोरभेद एवेति मते तु स्वाभिन्नविशेष्यतानिरूपितावच्छेदकताभिन्नत्वं द्वितीयसम्बन्धतया बोध्यम् । धर्म्यविषयकेत्यत्र धर्मिपदमपि स्वासाधारणधर्मिव्यतिरिक्तधर्मिपरम् । धर्मिणि
1. सप्तभङ्गीतरङ्गिणी, पृ. १६, पं. ६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org