________________
सप्तभङ्गीप्रभा
सप्तभङ्गीघटकभङ्गप्रतिपाद्यतां भजन्ते, नाऽन्यथा । तथा चैकदाऽपि विशिष्टस्वरूपोपपादिका विशेषणविशेष्ययोर्भेदवृत्तिरभेदवृत्तिर्यदा न विरुद्धा, तदा कैव कथा सप्तभङ्गीघटकभङ्गप्रतिपाद्यतोपपत्तयेऽवश्याश्रयणीयाSभेदवृत्तिर्धर्मान्तरैः सह विशिष्टधर्माणामिति ? सप्तानामपि भङ्गानां सकलादेशत्वं भेदवृत्त्युपचारयोराश्रयणस्याऽपि सम्भवित्वेन विकलादेशत्वं च युक्तम् । न तु त्रयाणां सकलादेशत्वमेव, चतुर्णा विकलादेशत्वमेवेत्येकान्तो ऽनेकान्तवादिना गदितुं युक्तः ।
७४
एतेन त्रयाणां सकलादेशत्वे चतुर्णां विकलादेशत्वे सप्तभङ्गी न सकलादेशस्वभावा नाऽपि विकलादेशस्वभावेति न प्रमाणवाक्यं नाऽपि नयवाक्यमिति ततः सप्तधर्मात्मकत्वसिद्धिर्न स्यादिति सोन्मत्तवचनवदुपेक्षणीया परीक्षकाणां प्रसज्येत । यदि च समुदायस्य समुदाय्यभिन्नत्वमिति भङ्गत्रयाभिन्नत्वात् । सकलादेशत्वं भङ्गचतुष्टयाभिन्नत्वाद् विकलादेशत्वं चेति विभाव्यते, तदा तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेन भङ्गत्रयरूपसकलादेशाभिन्नसप्तभङ्ग्यभिन्नत्वाद् विकलादेशत्वेनाऽभिमतानां चतुर्णामपि भङ्गानां सकलादेशत्वम् । एवं विकलादेशरूपभङ्गचतुष्टयाभिन्नसप्तभङ्गयभिन्नत्वात् सकलादेशानामपि त्रयाणां विकलादेशत्वं च स्यात् ।
न चैवंरीत्या सकलादेशत्वस्य विकलादेशत्वस्य च मुख्यत्वं नाऽङ्गीक्रियत इति वाच्यम् । तथा सति सप्तभङ्ग्यप्युक्तदिशा मुख्यतः सकलादेशस्वभावा विकलादेशस्वभावा च न स्यादिति निरस्तम्, प्रतिभङ्गं सकलादेशविकलादेशस्वभावाभ्यां सप्तभङ्ग्याः स्वीकारादिति ।
अत्र तत्त्वार्थटीकाकृत्प्रभृतीनां यद्येवमभिप्राय उपवर्ण्यते - यद्यपि सर्वेऽपि भझ एकधर्मप्रतिपादनद्वाराऽशेषधर्मप्रतिपादकाः, तथाऽपि निरवयवधर्मप्रतिपादनद्वाराऽशेषधर्मप्रतिपादकत्वं सकलादेशत्वम् । निरवयवत्वं चाऽविशिष्टरूपत्वमिति स्यादस्त्येव घटः स्यान्नास्त्येव घटः स्यादवक्तव्य एव घट इति त्रयाणां सकलादेशत्वम् । सावयवधर्मप्रतिपादनद्वाराऽशेषधर्मप्रतिपादकत्वं विकलादेशत्वम् । सावयवत्वं च विशिष्टरूपत्वमिति विशिष्टधर्मप्रतिपादकानां चतुर्णां भङ्गानां विकलादेशत्वमिति । तदा प्रतिभङ्गं सप्तभङ्ग्याः प्रमाणवाक्यतैव स्यात्, न नयवाक्यता, विकलादेशत्वस्याऽप्युक्तस्य प्रमाणवाक्यताया एवोपष्टम्भकत्वात् । तथा च सप्तभङ्गी द्विधा - प्रमाणसप्तभङ्गी नयसप्तभङ्गी चेत्यस्मिन्नर्थे सकलादेशत्वविकलादेशत्वविचारस्य नोपयुक्तता, किन्तु शिष्यवृद्धिवैशद्यार्थतैवेति । यदि च सकलादेशत्वं विकलादेशत्वं च भङ्गानामुक्तदिशा, नयसप्तभङ्गीत्वं तु पर्यायार्थिकनयादेशात् कालादिभिरष्टभिर्भेदवृत्तिद्रव्यार्थिकनयादेशाद् भेदोपचाराद्वा प्रतिभङ्गमेकैकधर्मप्रतिपादकत्वेन, ईदृशं च विकलादेशत्वमपरमप्यास्थीयते, तदा सर्वेषामप्यैकमत्यं निर्वहतीति वोध्यम् ।
अनेकधर्मात्मकवस्तुविषयकवोधजनकवाक्यत्वं सकलादेशत्वम्, एकधर्मात्मकवस्तुविषयकवोधजनकवाक्यत्वं विकलादेशत्वमिति ये मन्यन्ते तेपामपि स्याद्वादाभ्युपगन्तॄणां वस्तुन्यनेकधर्मात्मकत्वमनन्तधर्मात्मकत्वमेवाऽभिमतम् । अन्यथा धर्मद्वयादेरपि वस्त्वंशत्वेन तदात्मत्वेन वस्तुविषयकवोधजनकवाक्यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org