________________
सप्तभङ्गीप्रभा
ये ये शब्दा अस्तित्वस्य वाचकास्तेषां सर्वेषां नास्तित्वादिवाचकत्वे तादृशयावच्छब्दद्वारा धर्माणामभेदवृत्तिरभिमता ?
आद्ये नानार्थस्य हर्यादिशब्दस्यैकस्य विष्णुसिंहादिवाचकत्वे विष्णुसिंहादीनामभेद उक्तयुक्त्या स्यात् । द्वितीयेऽस्तित्वमिति शब्दो मुख्यवृत्त्याऽस्तित्वस्य वाचको भवति । स न तथा नास्तित्वादीनां वाचक इति न तद्द्वाराऽभेदवृत्तेरुपपत्तिः ।
किञ्चाऽस्तीतिशब्द: प्राधान्येनाऽस्तित्वविशिष्टं वस्त्वेवाऽऽह नाऽस्तित्वमिति । तस्य वाच्यवाचक भावसम्बन्धानुरोधेनाऽभेदोऽस्तित्वविशिष्टेन धर्मिणैव सह साक्षात्, नत्वस्तित्वेन धर्मेण । शब्दस्य धर्मिणा सहाऽभेदो धर्मिणश्च धर्मेः सहाऽभेद इत्येवं शब्दाभेदवृत्तिस्तु सम्भवन्त्यपि न पृथक्तया सकलादेशे निभित्तभावमुपगच्छति, अर्थाभेदवृत्त्यैव गतार्थत्वात् । एकशब्दवाच्यत्वं त्वात्मरूप एवाऽन्तर्भवन्न शब्देनाऽभेदवृत्तिरूपातिरिक्तप्रकारतया वक्तुं शक्यम् । अन्यथा प्रमेयत्वादीनामप्यतिरिक्तप्रकारतया वक्तव्यता स्यादित्यावेदितमधस्तात् ।
तथाऽपि द्रव्यार्थिकनये धर्ममात्रस्याऽनुगामिर्मिरूपत्वमित्यस्तित्वशब्दोऽप्यनुगतधर्मिरूपमेवाऽस्तित्वं बूते । धर्मी च न केवलमस्तित्वरूपधर्मात्मकः, किन्तु नास्तित्वाद्यशेषधर्मात्मक इति भवति यः कश्चिदस्तित्वप्रतिपादकः शब्द: स सर्वोऽपि नास्तित्वाद्यशेषधर्मप्रतिपादकः । अस्तित्वादिसप्तधर्मप्रतिपादिकायां सप्तभङ्ग्यां चाऽस्तीति शब्द एवाऽस्तित्वप्रतिपादनानुगुण इति य एवाऽस्तीति शब्द इति विशेषत उक्तिरविरुद्धा । अथवा द्रव्यार्थिकनये सर्वेऽपि पदार्थाः सत्तासामान्यरूपाः । सत्तासामान्यस्य च वाचकमस्तिपदमिति तत्सर्वस्य वाचकम् । यद्वा, यथा वाच्या अर्थाः सर्वेऽपि सत्तासामान्यैकरूपतामश्नुवते तथा वाचका अपि सर्वे शब्दा अस्तीतिसामान्यशब्दैकरूपतामश्नुवत इत्यतोऽप्युक्तदिशा शब्देनाऽभेदवृत्तिरुपपद्यतेतरामिति । पयायार्थिकनये च धर्मभेदेन कालादीनामष्टानामपि भेदात् कालादिभिरष्टभिरभेदोपचार एवेति, प्रकृतमनुसरामः । तत् सिद्धमुक्तदिशा सप्तानामपि भङ्गानामेकधर्मवोधनद्वारा तदात्मकाशेषधर्मात्मकवस्तुविषयकबोधजनकवाक्यत्वं सकलादेशत्वम्, एकधर्मात्मकवस्त्वंशविषयकवोधजनकवाक्यत्वं विकलादेशत्वं चेति ।
नृसिंहाकारधर्मप्रतिपादकतया स्यादस्त्येव स्यान्नास्त्येव च घट इत्यादिभङ्गानां चतुर्णां विकलादेशत्वमेव युक्तम्, न सकलादेशत्वमिति पूर्वपक्षोन्मूलने देवसूरिप्रभृतीनामिदमैदम्पर्य प्रतिभाति - अस्तित्व-नास्तित्वावक्तव्यत्वानां विशेषणविशेष्यभावमवलम्व्य चतुर्णां धर्माणां निष्पत्त्या तत्र विशेषणविशेष्ययोर्भेदस्याऽऽवश्यकत्वमिति को नाम नाऽनुमनुते ? भवन्तु ते धर्मा नरसिंहरूपाः, तेषामपि धर्मान्तरैः सह कालादिभिरष्टभिरभेदवृत्तिरभेदोपचारो वा सम्भवत्येव । यतो विशेषणविशेष्यभावो न केवलं भेदमवलम्व्य, किन्त्वभेदमपि । तथा च धर्मान्तररूपनिष्पत्त्यवलोकनवेलायामभेदवृत्तेरप्यस्त्यावश्यकता । विशेषणविशेष्यीभूतयोर्धर्मयोर्भेदाभेदमवलम्व्य लब्धात्मानश्च धर्मा अस्तित्वादिना सहाभेदमासादयन्त एव विधिनिषेधभावापन्नाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org