________________
सप्तभङ्गीप्रभा
गुणिदेशेनाऽभेदवृत्तेराश्रयणस्य प्रयोजनमस्तित्वनास्तित्वयोरभेदसम्पादनमस्तित्वनास्तित्वयोरभेदस्य च गुणिदेशेनाऽभेदवृत्तेरुपपत्त्यर्थम् ।
ततः प्रागेव सिद्ध्यभ्युपगमे गुणिदेशेनाऽभेदवृत्तेराश्रयणस्य निष्प्रयोजनत्वप्रसङ्गादिति चेत्;
मैवम्, यतोऽस्तित्वनास्तित्वादयो धर्मा विभिन्नावच्छेदेनैकत्र द्रव्ये वर्तमानाः सन्त एव कथश्चिदस्तित्वकथञ्चिन्नास्तित्वादिस्वरूपतां भजन्ते । तथास्वरूपाणामववोधनत एव भङ्गानां सकलादेशत्वम् । तथास्वरूपाश्च गुणिनि वर्तमाना न मध्यपृष्ठाग्रादिप्रतिनियतदेशावच्छेदेन वर्त्तन्ते । न हि भवति घटो मध्ये पृष्ठेऽग्रे वाऽस्तितावान् तदन्यभागे च नास्तितावानितीदृशदेशेनाऽभेदवृत्तिरेवाऽत्राऽभिमतेति न कश्चिद्दोषः ।।
न चेदृशाशेषभागवतो घटस्याऽस्तित्वनास्तित्वादिधर्मयोगित्वे तादृशभागानामवच्छेदकत्वमेव न स्यात्, यद्यदवच्छेदेन विरुद्धधर्माणामेकत्र वृतौ विरोधव्याहतिस्तेषामेवाऽवच्छेदकत्वादिति वाच्यम् ।
प्रतीत्यनुरोधेनाऽव्याप्यवृत्तित्वानुपपादकानामपि भागानामवच्छेदकत्वस्य सम्भवादिति ध्येयम् ।
य एव घटद्रव्यरूपोऽर्थोऽस्तित्वस्याऽऽधारः स एव नास्तित्वाद्यशेषधर्माणामपि । आधाराधेययोश्च कथञ्चिदभेदोऽतिप्रसङ्गभयादावश्यक इत्यस्तित्वाभिन्नघटद्रव्यरूपार्थाभिन्नत्वान्नास्तित्वादीनामस्तित्वाभिन्नत्वमित्यर्थेनाऽभेदवृत्तिः । अस्तित्वगता ये धर्मास्तेषां सर्वेषामात्मरूप एवाऽन्तर्भावो नाऽङ्गीक्रियते चेत् तदा तेषां बहूनां पृथक्तया भावादष्टौ कालादय इत्येव न स्याद् । अतस्तेषामात्मरूप एवाऽन्तर्भाव इत्येकाधारवृत्तित्वमपि तत्रैवाऽन्तर्भवन्नाऽर्थेनाऽभेदवृत्तिः, किन्त्वर्थपदेनैकाधारद्रव्यमानं विवक्षितम् । तेनाऽभेदवृत्तिश्चोक्तदिशाऽवसेया ।
न च, द्रव्यार्थिकनयप्राधान्यादिमा अभेदवृत्तयोऽभिमताः । तत्र द्रव्यार्थिकनयप्राधान्यमेतदेव, यदेकद्रव्यद्वाराऽभेद इति कथमुपपादकस्यैवोपपाद्याष्टकमध्ये प्रवेश ? इति वाच्यम् ।
तदभिन्नाऽभिन्नस्य तदभिन्नत्वमिति नियमस्य प्राधान्येनाऽभ्युपगमस्यैव द्रव्यार्थिकनयप्राधान्येनेत्यनेनाऽभिमतत्वात् । द्रव्यार्थिकनये एकस्याऽनेकानुगतस्य भावे तं क्रोडीकृत्य धर्माणामुक्तनियमगोचरता सम्भवति, अत एव कालात्मरूपादेरेकस्याऽनेकानुगतस्य तन्नये भावात् तद्द्वाराऽप्युक्तनियमगोचरता धर्माणामुपपद्यते । अन्यथाऽऽधारभूतद्रव्यद्वाराऽभेदस्यैव द्रव्यार्थिकनयविषयत्वे द्रव्यार्थिकनयप्राधान्यस्य कालात्मरूपादिनाऽभेदवृत्तौ प्रयोजकत्वमेव न स्यात् । अत एव पर्यायार्थिकनयेऽनुगतानां कालादीनामभावात् प्राधान्येनोक्तनियमगोचरताया धर्मेष्वभावादुपचाराश्रयणमिति बोध्यम् ।
य एवास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एवाऽशेषानन्तधर्मात्मकस्याऽपि वस्तुनो वाचक इत्येकशब्दवाच्यत्वं शब्देनाऽभेदवृत्तिरिति यद्यपि यथाश्रुतं न सङ्गच्छते । तथा हि - यत्किञ्चिच्छब्दस्याऽस्तित्ववाचकस्य नास्तित्वादिवाचकत्वे तद्द्वाराऽस्तित्वनास्तित्वादीनामभेदवृत्तिरभिमता उत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org