________________
सप्तभङ्गीप्रभा
प्युपकारः । भवति हि स्यादस्त्येव घट इतिवत् स्याद् घटेऽस्तित्वमेवेति बुद्धिरिति तथाविधोपकारेणाSभेदवृत्तेरेवं सत्यनुपसङ्ग्रहान्यूनत्वम् । यथा च धर्माणां धर्मिण्युपकारजननमन्तरेणाऽतिप्रसङ्गभयात् तद्धर्मत्वं न घटते तथा धर्मिणोऽपि धर्मेषूपकारजननमन्तरेण तद्धर्मित्वं न घटत एव, युक्तेस्तौल्यात् । एवं चैकधर्मिजनितोपकारशालित्वमपि धर्माणां साधारणं रूपमिति तद्रूपेणाऽभेदवृत्तेरपि सम्भवेन तदुपेक्षाऽपि न घटत इति । किन्तु, धर्मिनिष्ठविषयतानिरूपितस्वनिष्ठविषयताकवोधस्वरूपयोग्यत्वमेव स्वानुरक्तत्वकरण - मित्यनेन विवक्षितम् । योग्यता च शक्तिविशेष एव । सेयं स्वरूपशक्तिरुच्यते । तस्याश्च सहकारिशक्तिवैधुर्येण कार्याजननेऽपि स्वरूपावस्थानं न विरुद्धम् । तदनुगमकं च सामान्यतो धर्मत्वमेव । तथा चाऽतीन्द्रियाणां धर्माणां फलोपधानाभावेऽपि न क्षतिः । स्वप्रकारकधर्मिविशेष्यकज्ञानस्वविशेष्यकधर्मिप्रकारकज्ञानयोश्च धर्मिनिष्ठविपयतानिरूपितस्वनिष्ठविषयताकवोधत्वेन सङ्ग्रहान्न न्यूनता । विशिष्टवोधे च यथा विशेषणस्य स्वरूपयोग्यता तथा विशेष्यस्याऽपीति धर्मिजनितोऽप्युपकारो धर्मिनिष्ठविषयतानिरूपितस्वनिष्ठविषयताकवोध एव । एकेनैवोपकारेण धर्मधर्मिभावयोरुपपत्तावपकारान्तरकल्पनायां मानाभावात् । तच्छालित्वं च विषयताविशेषेण वाऽस्तु तत्स्वरूपयोग्यतया वाऽस्त्वित्यन्यदेतत् । तथा च न धर्मिजनितोपकारशालित्वस्याऽप्युपेक्षेति वोध्यम् ।
यथा हि धर्माणां धर्मिणि वृत्ति कालावच्छेदेन प्रतीयते तथा देशावच्छेदेनाऽपीति कालवद् देशस्याऽप्यवच्छेदकत्वम् । तत्राऽपि तदधिकरणस्यैव तन्निष्ठधर्मावच्छेदकत्वमिति नियमेन गुण्यधिकरणदेश एव गुणिनिष्ठधर्माणामवच्छेदकः । तथा च य एव गुणिदेशोऽस्तित्वस्याऽवच्छेदकः स एव नास्तित्वादीनामपि । अवच्छेद्यावच्छेदक भावः सम्बन्धोऽपि चाऽतिप्रसङ्गभयादविष्वग्भावनियत एवाऽभ्युपगन्तव्य इत्यस्तित्वाभिन्नगुणिदेशरूपावच्छेदकाभिन्नत्वान्नास्तित्वादीनामस्तित्वाभिन्नत्वमिति गुणिदेशेनाऽभेदवृत्तिः ।
—
७१
नन्वस्तित्वनास्तित्वयोर्विधिनिषेधरूपयोरेकावच्छेदेनैकस्मिन्नधिकरणे वृत्तिविरोध इत्यतस्तयोरेकत्र वृत्त्यर्थमवच्छेदभेद एव स्वीकृतः स्याद्वादिना गुणिदेशश्च स्वद्रव्यरूपः स्वक्षेत्ररूपो वा स्यादुभयथाऽप्यस्तित्वस्यैवाऽवच्छेदकत्वं, परद्रव्यपरक्षेत्रयोरेव नास्तित्वावच्छेदकत्वात् । यदि च तदधिकरणस्यैव तन्निष्ठधर्मावच्छेदकत्वमिति नियमेऽधिकरणपदं सम्वन्धिसामान्यपरमित्युक्तनियमोपपत्त्यर्थं परद्रव्यपरक्षेत्रयोरपि परम्परया गुणिसम्वन्धित्वेन गुणिदेशत्वमभ्युपगन्तव्यमिति गुणिदेशत्वेनोभयोरप्युपग्रह इति विभाव्यते, तदाऽपि स्वद्रव्यादिव्यक्तिः परद्रव्यादिव्यक्तिश्च स्वरूपतो भिन्नैवेति य एव गुणिदेशोऽस्तित्वस्याऽवच्छेदकः स एव नास्तित्वादीनामपीत्युक्तदिशा गुणिदेशेनाऽभेदवृत्तेरुपवर्णनं न सङ्गच्छते ।
Jain Education International
न च द्रव्यार्थिकनयेनाऽभेदवृत्तिराश्रिता । द्रव्यार्थिकनये च धर्मधर्मिणोरभेद इत्यस्तित्वनास्तित्वयोरेकद्रव्यात्मकत्वेनाऽभिन्नत्वमतो योऽस्तित्वस्याऽवच्छेदको देशः सोऽस्तित्वाभिन्नानां नास्तित्वादीनामपीति कृत्वा गुणिदेशेनाऽभेदवृत्तिः सम्भवतीति वाच्यम् ।
For Private & Personal Use Only
www.jainelibrary.org