________________
सप्तभङ्गप्रभा
शृणु, अभेदो वस्तुमात्रे एकत्वं भेदश्च वस्तुमात्रे नानात्वमित्यभेदरूपेणाऽवगतं वस्त्वेकस्वरूपतयाऽवगतं भवति, भेदरूपेणाऽवगतं च नानास्वरूपतया । तथाऽवगम एव च वस्तुनः परिपूर्णतयाऽवगतिर्युज्यते । एवं च नानैकस्वभावस्याऽस्तित्वस्य नानैकस्वभावैर्नास्तित्वादिभिः सहाऽभेदस्योपपत्तयेऽ विष्वग्भावाभेदद्वारस्याऽऽश्रयणेऽविष्वग्भावस्य प्रकारद्वयसम्भवेऽपि तत्सामान्याभेदेन नाऽवश्यं तत्प्रकारद्वयाभेदप्राप्तिः सम्भवति । नहि वह्निरयमित्युक्त्या पर्वतीयवह्न्यादियावद्विशेपव्यक्त्यभेदप्राप्तिरिदमंशे । तथा चाऽविष्वग्भावाभेदस्य स्वैकप्रकाराभेदमात्रेणोपपत्तौ तद्द्वाराऽस्तित्वनास्तित्वादीनामप्यभेदोऽभेदांशं भेदांशं वा स्वस्याऽऽश्रित्य स्यादिति न नानैकस्वभावतया नास्तित्वाद्यशेषधर्माणामस्तित्वावगममुखेनाऽवगम इति न परिपूर्णार्थावबोधः । सम्बन्धेनाऽभेदवृत्तेः संसर्गेणाऽभेदवृत्तेश्च पृथग्भावेनाऽऽश्रयणे च सम्बन्धाभेदद्वाराऽस्तित्वनास्तित्वादीनामभेदेऽस्तित्व-नास्तित्वाद्यशेषधर्मगतैकत्वांशस्य संसर्गाभेदद्वाराऽभेदे चाऽस्तित्वनास्तित्वाद्यशेषधर्मगतनानात्वांशस्य चाऽवबोध इति भवत्युक्तद्वारा परिपूर्णार्थाववोध इति ।
७०
एतेन यद्यविष्वग्भावस्य द्वौ प्रकारौ सम्भवत इत्येतावतैव सम्बन्धसंसर्गयोः पृथगुपादानं तर्त्यात्मरूपेणाऽभेदवृत्तिरित्यस्य यथा यदेवाऽस्तित्वस्य घटगुणत्वं स्वरूपं तदेव नास्तित्वादीनामपि स्वरूपमित्येकस्वरूपत्वमात्मरूपेणाऽभेदवृत्तिरित्येवं स्वरूपमुपवर्ण्यते तथा यदेवाऽस्तित्वस्य घटगततया प्रमेयत्वादिस्वरूपं यदेव च घटनिष्ठप्रतियोगिव्यधिकरणात्यन्ताभावाप्रतियोगित्वादिस्वरूपं तदेव नास्तित्वादीनामपि स्वरूपमित्येकस्वरूपत्वमात्मरूपेणाऽभेदवृत्तिरित्येवमप्युपवर्णयितुं शक्यत एव । तथा चोक्तदिशाऽऽत्मरूपस्य बहूनां प्रकाराणां सम्भवेन तेषामपि पृथक्तयोपादानं कर्तव्यकक्षामियात् । यदि च घटगुणत्वमेवाऽस्तित्वस्याऽऽत्मरूपं न तादशप्रमेयत्वादि, तर्हि तेन तेन रूपेणाऽप्यभेदवृत्तेः सकलादेशोपपादिकायाः सम्भवेन तदुपेक्षाया निर्वीजत्वं स्यादिति निरस्तम्, सम्वन्धसंसर्गाभेदवृत्त्योः फलवैचित्र्यस्योपदर्शितत्वादिति ।
उपक्रियोपकारस्तेनाऽभेदवृत्तिर्यथा य एवोपकारोऽस्तित्वस्य स्वानुरक्तत्वकरणं स एव नास्तित्वाद्यशेषधर्माणामपीत्यतोऽस्तित्वाभिन्नस्वानुरक्तत्वकरणरूपोपकाराभिन्नत्वान्नास्तित्वादीनामस्तित्वाभिन्नत्वम् । उपकारोपकारकयोश्च सम्बन्धान्यथानुपपत्त्याऽभेदश्चाऽवश्यमभ्युपेयः । स्वानुरक्तत्वकरणं च स्ववैशिष्ट्यसम्पादनमेव नीलाद्युपरक्तो घट इत्याद्यनुरोधात् प्रतीयते । तच्च स्वप्रकारकधर्मिविशेष्यकज्ञानजनकत्वरूपं प्रथमतोऽवभासते, तथाऽप्येवं नाऽभ्युपगन्तुं शक्यते । तथा • सांव्यवहारिक प्रत्यक्ष एव विषयस्य कारणत्वं, न ज्ञानमात्रे । तथा सत्यतीतादिविषयकस्याऽस्मदाद्यनुमानादेरशेषविषयकस्य केवलज्ञानस्य चोत्पत्तिरेब न स्यात् । घटगताश्च यावन्तो धर्मा नाऽस्मदादीनां प्रत्यक्षगोचरचरिष्णव इति घटगता येऽतीन्द्रिया धर्मास्तेषां स्वविषयकज्ञानजनकत्वमेव नाऽस्ति, दूरे स्वप्रकारकधर्मिविशेष्यकज्ञानजनकत्वमिति ।
किञ्च, स्वप्रकारकधर्मिविशेष्यकज्ञानजननं यथोपकारस्तथा स्वविशेष्यकधर्मिप्रकारकज्ञानजननम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org