________________
सप्तभङ्ग
इति वोध्यम् । आत्मरूपेणाऽभेदवृत्तिरेवम् - अस्तित्वस्याऽऽत्मरूपं घटगुणत्वं यदेव तदेव नास्तित्वादीनामपीत्यस्तित्वाभिन्नघटगुणत्वाभिन्नानां नास्तित्वादीनामस्तित्वाभिन्नत्वमिति तेनाऽस्तित्वप्रतिपादनमुखेन नास्तित्वाद्यशेषधर्मप्रतिपादनम् । अत्राऽपि घटरूपस्याऽर्थस्य प्रवेशमन्तरेणाऽप्युपपत्तिः पूर्ववदवसेया । सम्बन्धेनाऽभेदवृत्तिर्यथा य एवाऽभेदप्रधानो गुणीभूतभेदः कथञ्चित्तादात्म्यलक्षणोऽविष्वग्भावः सम्वन्धी घटेऽस्तित्वस्य स एव नास्तित्वादीनामपि । सम्वन्धश्च सम्बन्धिनोः सम्वद्ध एवाऽतिप्रसङ्गभयाद् वाच्यः । सम्बन्धिभ्यां सह सम्वन्धश्च तस्य स्वरूपात्मक एवाऽनवस्थाभयादास्थेयः एवं चाऽस्तित्वाभिन्नाविष्वग्भावलक्षणसम्वन्धाभिन्नत्वान्नास्तित्वादीनामस्तित्वाभिन्नत्वमिति । कथञ्चित्तादात्म्यलक्षणोऽविष्वग्भाव एव भेदप्रधानो गुणीभूताभेदश्च संसर्ग इत्युच्यते । तेनाऽभेदवृत्तिः सम्वन्धाभेदवृत्तिवद् बोध्या ।
६९
ननु प्रमाणविपयीभूत एवाऽविष्वग्भावः सम्वन्धतां संसर्गतां च वास्तवीमासादयितुमर्हति नाऽन्यथा । प्रमाणविपयता चाऽविष्वग्भावस्य धर्मधर्मिणोरेकान्तभेद एकान्ताभेदे च सम्बन्धायोगाद् वाच्या । तथा च तत्र भेदाभेदयोः समप्रधानभाव एव युक्तो, नैकस्य प्राधान्यमन्यस्य च गौणत्वम् । प्रमाणवलादेव समप्राधान्येन तयोरेकत्र सत्त्वं नाऽनुभवविरुद्धम् । एवं च गुणीभूतभेदस्य गुणीभूताभेदस्य चाऽविष्वग्भावस्य प्रमाणगोचरचरिष्णुत्वाभावात्सत्त्वमेव नास्ति, कस्य सम्वन्धत्वं संसर्गत्वं च स्यात् ? दूरत एव ताभ्यामभेदवृत्तिः । यदि च द्रव्यार्थिकनयेनाऽभेदस्य प्राधान्यं भेदस्य च गौणत्वमिति कृत्वाऽविष्वग्भावः सम्वन्धतास्पदं भवति, पर्यायार्थिकनयेन च भेदस्य प्राधान्यमभेदस्य गौणत्वमिति कृत्वा स एवाऽविष्वग्भावः संसर्गतामासादयति, ततश्च ताभ्यामभेदवृत्तिः सङ्गतैवेति विभाव्यते, तर्हि प्रमाणावलम्वनेन भेदाभेदौ समप्रधानभावेन क्रोडीकृत्याऽ विष्वभावस्य तृतीयाऽपि कोटिः स्यादिति तद्द्वाराऽप्यभेदवृत्तिः सम्भवतीति तदनभिधानान्न्यूनता स्यादिति
चेत्;
सत्यं, प्रमाणविषयीभूत एवाऽविष्वग्भावः सम्वन्धः संसर्गश्च भेदासहिष्णोरभेदस्याऽभेदासहिष्णोर्भेदस्य चाऽविष्वग्भावरूपत्वासम्भवात् । समानाधिकरणौ भेदाभेदौ तथेति वक्तव्यम् । एतच्च द्विधोपपद्यते - भेदाधिकरणवृत्तिरभेदोऽभेदाधिकरणवृत्तिश्च भेद इति । तथा च प्रथमे भेदस्य विशेषणत्वं गुणत्वभेदस्य च विशेष्यत्वं प्राधान्यं द्वितीये त्वभेदस्य विशेषणत्वं गुणत्वं भेदस्य च विशेष्यत्वं प्राधान्यमिति नाऽऽभ्यामन्योऽ विष्वग्भावस्य तृतीयः प्रकारः समस्ति ।
न च भेदाभेदोभय एवोभयत्वेन रूपेण तृतीयः प्रकारः सम्भवतीति वाच्यम् ।
समानाधिकरणोभयस्यैकविशिष्टापररूपतायामेव विश्रामात्, व्यधिकरणस्य च भेदाभेदोभयस्यैकसम्वन्ध्यसम्बद्धत्वेन सम्वन्धत्वसामान्यस्यैवाऽभावेन तद्व्याप्यस्याऽविष्वग्भावत्वस्य सुतरामभावादिति ।
ननूक्तदिशा भवत्वविष्वग्भावस्य सम्बन्धरूपता संसर्गरूपता च । तथाऽपि सम्वन्धेनाऽभेदवृत्तेः संसर्गेणाऽभेदवृत्तेश्चाऽविष्वग्भावेनाऽभेदवृत्तिरित्युक्त्यैव सङ्ग्रहसम्भवेन पृथक्तया तयोराश्रयणे किं वीजमिति चेत्;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org