________________
६८
सप्तभङ्गीप्रभा
इति कारिकया सगृहीताः समवसेयाः । तत्र कालेनाऽभेदवृत्तिः – यस्मिन् काले घटेऽस्तित्वरूपा धर्मस्तस्मिन्नेव काले शेषा अनन्ता अपि धर्मा वर्तन्ते । न ह्यनधिकरणीभूतः कालोऽवच्छेदको भवितुमर्हतीति सर्वेषामेव धर्माणामवच्छेदकीभूतः कालोऽधिकरणतयाऽभ्युपेयः । अधिकरणत्वं च नाऽनतिप्रसक्तं सम्वन्धमृते । सम्बन्धश्च कालेन सह सर्वेषामेव धर्माणां स्वरूपमेव, अन्यस्य दुर्वचत्वात् । तदपि भेदाभेदात्मकाविष्वग्भाव एव पर्यवस्यति । एवं चैतदनुरोधेन येन कालेन सहैकस्य धर्मस्याऽभेदस्तेनैव कालेन सह धर्मान्तराणामपीति तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेनाऽस्तित्वधर्माभिन्नेन कालेन सहाऽभिन्नानां नास्तित्वादीनामस्तित्वाभिन्नत्वमिति कालेनाभेदवृत्तिः । तदाश्रयणे च यदेवाऽस्तित्वं तदेव नास्तित्वादीत्यस्तित्वप्रतिपादनद्वाराऽशेषधर्मप्रतिपादनमिति सकलादेशत्वं निर्वहति ।
नन्वेवं यत्काले घटेऽस्तित्वादयो धर्मा वर्तन्ते तत्काले पटादावप्यस्तित्वादयो धर्मा वर्तन्त इत्युक्तयुक्त्या पटाद्यशेषधर्मिगताशेषधर्माणां घटगतास्तित्वेन सहाऽभेद: प्राप्नोतीति स्यादस्त्येव घट इति भङ्गजन्यज्ञानवतः सर्वज्ञत्वं स्यादिति चेत् -
अत्र केचित् – एककालावच्छिन्नैकाधिकरणनिरूपितवृत्तित्वं कालेनाऽभेदवृत्तिरित्याहुः । तथा च धर्म्यन्तरगतधर्मान्तराणां घटगतास्तित्वेन सहैककालावच्छिन्नैकाधिकरणनिरूपितवृत्तित्वरूपकालाभेदवृत्त्यभावान्नैकभङ्गजन्यज्ञानवतः सार्वझ्यापत्तिरित्याशयः । अत्र चाऽधिकरणविधया द्रव्यरूपार्थस्य प्रवेशादर्थेनाऽभेदवृत्तिरप्यत्रैव गतार्था स्यादिति चिन्त्यम् । वस्तुतो भवतु धर्म्यन्तरगतधर्मान्तराणामपि घटगतास्तित्वेन सह कालेनाऽभेदवृत्तिः, तथाऽपि विशेष्यीभूते घटे तेषां सम्बन्धाभावेन योग्यताविरहादेव न तत्तदङ्गजन्यवोधे भानमिति न सर्वज्ञतापत्तिः ।
न च, साक्षात्सम्बन्धाभावेऽपि परम्परासम्वन्धसत्त्वात् तेन योग्यतया तेषामपि भानापत्तिरिति वाच्यम् ।
इष्टत्वात्, घटादीनामनन्तधर्मात्मकत्वात् । तन्मध्ये परम्परासम्वन्धिनामपि प्रवेशात् । ईदृशं च सर्वज्ञत्वमिष्टमेव । अत एव
‘एको भावः सर्वथा येन दृष्टः, सर्वे भावास्तत्त्वतस्तेन दृष्टाः' इत्यादिवचनमपि सङ्गच्छते ।
यद्वा नवपुराणादिभावेन परिणतो घटादिरेव वर्तनालक्षणः कालः । एकस्यैव वस्तुनो द्रव्यविधयाऽधिकरणत्वं कालविधयाऽवच्छेदकत्वं च न विरुध्यते, धर्म-धर्मिणोश्चाऽभेदाद् धर्मिकाल एव धर्मकालः । एवं च घटगतयावद्धर्मकालश्च घटस्यैव नवपुराणादिभावलक्षणो न पटस्य, पटगतधर्मकालश्च पटस्यैव नवपुराणादिलक्षणो न घटस्येति, पटगतधर्माणां घटगतास्तित्वेन सह कालेनाऽभेदवृत्त्यभाव एवेति न कश्चिद्दोषः । अथवा कालादिभिरष्टभिरेवाऽभेदवृत्तिः सकलादेशत्वोपपादिका, न तु कालाद्येकैकमात्रेणाऽभेदवृत्तिस्तथा । तथा चाऽन्यगतधर्माणां कालेनाऽभेदवृत्तिसत्त्वेऽप्यर्थादिनाऽभेदवृत्त्यभावान्न भानप्रसङ्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org