________________
६७
सप्तभङ्गीप्रभा
अखण्डवस्तुभाने सति कालादिभिरष्टभिरभेदवृत्त्याऽभेदोपचारेण वा तद्वस्तुगतानामशेपधर्माणां तद्वस्तुगतैकधर्मेण सहैकात्म्यमुपगतानां भानसम्भवादनन्तधर्मात्मकवस्तुविषयकत्वस्य स्वजन्यवोधे सम्भवेनाऽऽद्यभङ्गत्रयाणां प्रमाणवाक्यत्वस्योपपत्तेः । विशिष्टप्रतिपादकतया धर्मद्वयादिप्रतिपादकतया वोपगतेषु चतुर्पु भङ्गेषु नैवं प्रमाणवाक्यत्वस्योपपत्तिः । यतो विशेषणीभूतधर्मस्य विशेष्यीभूतधर्मेण सह भेदविवक्षामन्तरेण विशिष्टस्वरूपस्यैव न निष्पत्तिः, न वा धर्मद्वयाधुक्तिरपि घटत इति कस्य प्रतिपादकास्ते भङ्गा भवेयुः ? ततस्तन्मूलतया धर्माणां भेदवृत्तिः पर्यायार्थिकनयादेशाद्भेदोपचारो वा द्रव्यार्थिकनयादेशादवश्यं स्वीकर्तव्यः । तथा च कथं यदैव येषां धर्माणां पर्यायार्थिकनयादेशात् कालादिभिरष्टभिर्भेदवृत्तिर्द्रव्यार्थिकनयादेशाद्वा भेदोपचारस्तदैव तेषां धर्माणां कालादिभिरष्टभिर्द्रव्यार्थिकनयादेशादभेदवृत्तिः पर्यायार्थिकनयादेशादभेदोपचारो वा घटते ? अतश्चतुर्यु भङ्गेषु नाऽनन्तधर्मात्मकवस्त्ववबोधकत्वमिति नयवाक्यत्वमिति तत्त्वार्थटीकाकृत्प्रभृतीनामभिप्रायः ।
वादिदेवसूरिप्रभृतयस्तु सप्तभङ्गयाः प्रतिभङ्गं सकलादेशस्वभावत्वं विकलादेशस्वभावत्वं चाऽभ्युपगच्छन्ति । तन्मते एकधर्मबोधनद्वारा तदात्मकाशेषधर्मात्मकवस्तुविषयकबोधजनकवाक्यत्वं सकलादेशत्वम्, एकधर्मात्मकवस्तुविषयकबोधजनकवाक्यत्वं विकलादेशत्वमिति ।
ननु एकधर्मप्रतिपादनद्वारा तदात्मकानन्तधर्मप्रतिपादनमेव दुर्घटम्, उपायाभावात् । अन्यथैकधर्मात्मकवस्तुविषयकवोधजननदशायामप्यनन्तधर्मात्मकवस्तुविषयकवोधजननापत्त्या सकलादेशत्वमेव स्यात्, न विकलादेशत्वमिति चेत् ।
मैवम्, एकधर्मप्रतिपादनद्वारा तदात्मकानन्तधर्मप्रतिपादने द्रव्यार्थिकनयेन कालादिभिरष्टभिः श्रुतधर्मेण सह धर्मान्तराणामभेदवृत्तेः पर्यायार्थिकनयेनाऽभेदोपचारस्य वोपायस्याऽभ्युपगमात् । एवमेकधर्मात्मकवस्तुविषयकवोधजनने पर्यायार्थिकनयेन कालादिभिरष्टभिः श्रुतधर्मेण सह धर्मान्तराणां भेदवृत्तेर्द्रव्यार्थिकनयेन भेदोपचारस्य वा नियामकत्वमवसेयम् । इदमत्र बोध्यम् - स्यादस्त्येव घट इति भङ्गजन्यवोधनिरूपिता विपयताद्वयी लौकिकी अलौकिकी च, तत्राऽस्तिपदप्रयोज्याऽस्तित्वनिष्ठा विषयता लौकिकी, अस्तित्वगतानन्तधर्मात्मकत्वविपयता स्यात्पदसमभिव्याहृताऽस्तिपदप्रयोज्याऽनन्तधर्मात्मकत्वविषयता वा स्यात्पदप्रयोज्याऽलौकिकी । अस्यां च द्रव्यार्थिकनयेनाऽभेदवृत्तेः पर्यायार्थिकनयेनाऽभेदोपचारस्य वा प्रतिसन्धानं प्रयाजकमिति न स्याद्वादापरिकर्मितबुद्धेर्न वा पर्याययार्थिकनयेन भेदवृत्तेर्द्रव्यार्थिकनयेन भेदोपचारस्य वा प्रतिसन्धानदशायामनन्तधर्मप्रतिभासः । यत्रैव लौकिकी विषयता तदाकारमुपादायैव ज्ञानस्योल्लिख्यमानत्वमिति पथमभङ्गादिजन्यबोधानां कथञ्चिदस्तित्वाद्याकारोल्लेखशेखरत्वम् । कालादयश्च -
“कालात्मरूपसम्बन्धाः, संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाश्चे-त्यष्टौ कालादयः स्मृताः ।।१।।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org