________________
सप्तभङ्गीप्रभा
वोधजनकतापर्याप्तिमद्वाक्यत्वमित्युक्त लक्षण एव वा पर्याप्ति!पादेया, तावताऽपि प्रत्येकं भङ्गानां प्रमाणवाक्यत्वं भविष्यति ।
न चोक्तदिशा प्रमाणस्याऽपि प्रमाणवहि वो नयानां वा प्रमाणत्वं प्रसज्येतेति वाच्यम् ।
यदि हि नयसमूहात्मकतयैव प्रमाणस्योपगमः स्यात्, तदा स्यादप्येष दोषो, न चैवम् । किन्त्वनन्तधर्मात्मकवस्तुस्वरूपव्यवसायितयैव प्रमाणस्योपगमः । न च नयानामनन्तधर्मात्मकवस्तुप्रतिपादकत्वमिति न प्रमाणत्वप्रसङ्गः ।
इत्थं च सप्तभङ्गयाः प्रमाणवहिर्भावे तया स्वशिष्यादिप्रतिवोधनं वादिनं प्रत्युत्तरदानं चाऽसमञ्जसं प्रसक्तमित्याकुलीभूत एवाऽशेषतो जैनानां स्याद्वादराद्धान्तः । यत्र सप्तभङ्गीमृते शिष्यादिप्रतिबोधने नाऽन्यः कुशलोपायो, न वा वादिनामेकान्ततत्त्वाभिनिवेशोन्मूलने इति चेत्;
__अत्रोच्यते, वादिनां शिष्यादीनां च निराकाङ्क्षप्रतिपत्त्युपजननकृतार्थतायामुपयोगितया सप्तधर्मप्रकारकबोधजनकतापर्याप्तिमद्वाक्यत्वलक्षणं प्रमाणवाक्यत्वं सप्तभङ्ग्या अभ्युपगम्यते । प्रमाजनकत्वलक्षणं च प्रामाण्यं तस्याः सकलादेशस्वभावत्वादेव, तत एव च तस्य न प्रमाणवहिर्भावः ।।
न च प्रत्येकं भङ्गानां विकलादेशत्वेन तत्समाहाररूपा सप्तभङ्गी विकलादेशस्वभावैव स्यात्, न सकलादेशस्वभावेति वाच्यम् ।
स्यादस्त्येव घटः, स्यान्नास्त्येव घटः, स्यादवक्तव्य एव घट इति भङ्गत्रयाणां सकलादेशत्वस्य, तदिन्नानां चतुर्णां भङ्गानां विकलादेशत्वस्य च तत्त्वार्थटीकाकृदाद्यनुमतत्वेन त्रीन् भानपेक्ष्य सकलादेशस्वभावत्वेन प्रमाणवाक्यत्वस्य चतुरो भानपेक्ष्य विकलादेशस्वभावत्वेन नयवाक्यत्वस्य च सप्तभङ्गन्याः स्वीकारात् । अत एवेयं प्रमाणसप्तभङ्गी नयसप्तभङ्गीति च गीयते । एतेन शिष्यादिप्रतिबोधनायैकान्तमतकदर्थनाय चोपास्यतां नामेयं सप्तभङ्गी । तस्याः सकलादेशस्वभावत्वस्य विकलादेशस्वभावत्वस्य चोपवर्णनं जलताडनादिवदनतिप्रयोजनमेवेति शङ्का निरस्ता, सकलादेशस्वभावत्वमन्तरेण प्रमाणवाक्यत्वस्याऽभावेनाऽप्रमाणवाक्येन शिष्यादिप्रतिवोधनस्य वादिविजयस्य चाऽपर्यवसानात्, विकलादेशस्वभावत्वमन्तरेण च नयवाक्यत्वस्याऽभावे नयसमुत्थभङ्गसमाहाररूपत्वस्याऽप्यभावप्रसङ्गात् ।
नन्वस्तित्वनास्तित्वावक्तव्यत्वप्रतिपादकभङ्गानां तत्तन्नयसमुत्थानां तत्तन्नयसमानविषयत्वमेव युक्तं, तथा च भङ्गान्तराणामिव विकलादेशत्वमेव स्यात्, न तु सकलादेशत्वमिति चेत्;
मैवम्, अखण्डवस्तुविषयत्वेन त्रिषु भड्नेषु सकलादेशत्वस्यैकदेशविपयत्वेन चतुर्यु भङ्गेषु विकलादेशत्वस्य च तैरुपगमात्, तादृशस्य च सकलादेशत्वस्य नयसमुत्थत्वेऽप्यविरोधात् ।
न चैवमीदृशसकलादेशत्वस्याऽभ्युपगमेऽपि प्रमाणवाक्यत्वस्य ततोऽप्राप्तिरित्येकं सीव्यतोऽपरप्रच्युतिरिति वाच्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org