________________
सप्तभङ्गप्रभा
इत्यतो नास्तित्वप्रतिपादको द्वितीयभङ्गो व्यवहारनयात् प्रवर्तते । अवक्तव्यत्वप्रतिपादकस्तु तृतीयस्थानाभिषिक्तो भङ्ग ऋजुसूत्रनयात् प्रवर्तते । यतः सङ्ग्रहव्यवहारौ न युगपदस्तित्वनास्तित्वे आदिशतः, अस्तित्वस्य सङ्ग्रहविषयत्वेऽपि नास्तित्वस्य तदविषयत्वात् । एवं नास्तित्वस्य व्यवहारविषयत्वेऽप्यस्तित्वस्य तदविषयत्वात् । ऋजुसूत्रस्तु युगपदस्तित्वनास्तित्वे आदेष्टुमर्हति । यद्यपि परमार्थतोऽस्तित्वनास्तित्वे परमार्थतो वर्तमानक्षणमात्रावगाहिन ऋजुसूत्रस्य न विषयः, तथाऽपि सांवृतत्वेन रूपेण ते तद्विषयतां गच्छत एव । कल्पितेनाऽपि रूपेण युगपदादिष्टयोस्तयोरवक्तव्यत्वप्रतिपादको भङ्गः पारमार्थिक एव, विषयस्याऽबाधितत्वात् । यथा धूमत्वेनाऽऽरोपिताद् धूलीपटलाल्लिङ्गादपारमार्थिकादपि वस्तुगत्या वह्निमति देशे वन्यनुमितिरवाधितविषयकत्वात् पारमार्थिकी । अस्य चतुर्थस्थानाभिषेकेऽपि मूलं ऋजुसूत्र एव । मिलिताभ्यामेव सङ्ग्रहव्यवहाराभ्यामवक्तव्यत्वभङ्ग इत्यपि केचित् । क्रमार्पितास्तित्वनास्तित्वप्रतिपादकश्च भङ्गः सङ्ग्रहव्यवहाराभ्यां प्रवर्तते, पञ्चमो भङ्गः सङ्ग्रहर्जुसूत्राभ्यां षष्ठो व्यवहारर्जुसूत्राभ्यां सप्तमो भङ्गः सङ्ग्रहव्यवहारर्जुसूत्रेभ्य इति ।
शब्दनयानाश्रित्य विचारे तु घटकुटकलशादिपर्यायभेदेऽपि घटरूपस्याऽर्थस्य न भेद इत्यभ्युपगन्तृशब्दनये घटवाचकयावच्छब्दवाच्यत्वरूपतापन्नमस्तित्वमनुगतं घटे वर्तत इति शब्दनयात् प्रथमो भङ्गः । पर्यायभेदेनाऽर्थभेदाभ्युपगन्तृसमभिरूढनये क्रियाभेदेनाऽर्थभेदाभ्युपगन्त्रेवम्भूतनये चोक्तास्तित्वाभावात् ताभ्यां द्वितीयो भङ्गः । शब्दनयस्य शब्दोपरक्तार्थवोधकत्वस्यैव न्याय्यत्वेनाऽवक्तव्यत्वभङ्गोऽत्र न सम्भवति, तेन तन्मिश्रिताः पञ्चमादिभङ्गा अप्यत्र न सम्भवन्ति । क्रमार्पितास्तित्वनास्तित्वप्रतिपादकस्तु भङ्गस्त्रिभ्यो नयेभ्यः, तथा च तद्वचनं सम्मती
“ एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए ।
-
वंजणपाए पुण सविअप्पो णिव्विअप्पो अ ||" प्र० का० ||४१ ।। इति, अर्थनय इत्यर्थः, वंजणपज्जाए इति अत्थपज्जाए इति शब्दय इत्यर्थः । सविअप्पो - पर्यायशब्दवाच्यतालक्षणविकल्पसहितः, वचनमार्ग इत्यनुवर्त्तते । अस्तित्वप्रतिपादकः प्रथमभङ्ग इति यावत् । निव्विअप्पो उक्तलक्षणविकल्परहितः, नास्तित्वप्रतिपादको द्वितीयभङ्ग इति यावत् ।
ननु नयानां न प्रमाणत्वम्, अनन्तधर्मात्मकवस्तुस्वरूपानवभासकत्वात्, नाऽपि भ्रमत्वं, वस्त्वंशनिर्णयरूपत्वेन विपरीतार्थावभासकत्वाभावात्, किन्तु तृतीयप्रकारत्वमेव । तथा च तन्मूलानां भङ्गानामपि प्रमाणाप्रमाणबहिर्भावे तत्समाहाररूपसप्तभङ्गयपि प्रमाणाप्रमाणवहिर्भूतैव स्यात् । न हि सप्तसु धर्मेष्वेव वस्तुतत्त्वविश्रान्ति:, येन सप्तधर्मप्रतिपादने तदधिकरणं वस्तुतत्त्वं प्रतिपादितं स्यात्, अनन्तधर्मात्मकतयैव वस्तुनो व्यवस्थितेः । एवं च मिलिता अपि सप्तधर्मा वस्त्वंशभूता एव । तावन्मात्रप्रतिपादकत्वेन सप्तभङ्गयाः प्रमाणवाक्यत्वे कोऽपराधस्तत्तद्वस्त्वंशप्रतिपादकानां विशकलितानां भङ्गानाम् ? तदनुसारेण च तत्तद्धर्मप्रकारकबोधजनकवाक्यत्वं प्रमाणवाक्यत्वमिति प्रमाणवाक्यस्य लक्षणं कर्तुं शक्यते । सप्तधर्मप्रकारक
-
Jain Education International
६५
For Private & Personal Use Only
-
www.jainelibrary.org