________________
६४
घटत्वसामानाधिकरण्यं वा यदवभास्यं विशिष्टस्वरूपे तत् केवलविशिष्टस्वरूपावभासनेनैवाऽवभासितमिति चतुर्थपञ्चमयोर्नाऽनुभवारूढत्वम् । एवं प्रकारानाश्रयणे नीलो नीलो घटोऽयमिति, नीलो घटो घटोऽयमित्यनयोः प्रसङ्गोऽपरिहार्य एव स्यात् । एवमस्तित्वनास्तित्वयोः परस्परमवक्तव्यत्वेन वा सह सामानाधिकरण्यमाश्रित्य यानि विशिष्टस्वरूपाणि निष्पन्नानि तेषामस्तित्वनास्तित्वान्यतरेण सह कथञ्चिद्भिन्नाभिन्नानां प्रतिपादका भङ्गा उक्तान्यतरेण सहाऽभेदं स्वप्रतिपाद्यस्य विशिष्टस्य प्राधान्येनाऽवलम्बमाना एव विधिनिषेधकल्पनोपारूढायां सप्तभङ्ग्यां निविशन्ते, नान्यथा । अस्तित्वस्य नास्तित्वेन नास्तित्वस्य चास्तित्वेन प्राधान्येनाऽभेदमवलम्ब्य नैवाऽस्तित्वादिप्रत्येक धर्मप्रतिपादकभङ्गस्य प्रवृत्तिः, किन्तु तयोः साक्षाद्विधिनिषेधरूपत्वादेव ।
भङ्ग
एवं च विशिष्टस्याऽस्तित्वेन सह प्राधान्येनाऽभेद आश्रित आत्माश्रयभयेनाऽस्तित्ववैशिष्ट्यं तत्र नाSSत्मानं लभते । नास्तित्वेन सह प्राधान्येनाऽभेद आश्रिते तत्राऽस्तित्ववैशिष्ट्यं प्रथमवैशिष्ट्याश्रितस्वरूपलाभवेलायामेव प्राप्तमिति पुनरुक्तत्वादेव नाऽऽत्मानमासादयति । एवं विशिष्टस्याऽप्येकस्य सिद्धस्य प्रसिद्धेन विशिष्टान्तरेण सह वैशिष्ट्यमुपादाय यद्विशिष्टान्तरमभ्युपेयम्, तत्राऽपि विशेषणीभूतस्य विशिष्टस्य विशेष्यीभूतस्य च विशिष्टस्य प्राधान्येनाऽस्तित्वनास्तित्वान्यतरेण सहाऽभेदविवक्षैव प्रकृतोपयोगिनी । तथा सत्यात्माश्रय - पुनरुक्तत्वाभ्यां तत्प्रतिपादकभङ्गस्याऽपि नाऽवकाशः ।
यद्यप्यवक्तव्यत्वस्याऽप्यस्तित्वादिना सह प्राधान्येनाऽभेदमवलम्ब्यैव तत्प्रतिपादकभङ्गस्य सप्तभङ्ग्यां प्रवेशः, अन्यथा विधिनिषेधानात्मकधर्मप्रतिपादकतया सप्तभङ्गीप्रवेशानुपपत्तिः । तथा च तस्याऽप्यस्तित्वादिना वैशिष्ट्यमवलम्ब्य विशिष्टान्तराणामात्माश्रय- पुनरुक्तत्वाभ्यां न सम्भवः, तथाऽपि प्रत्येकमस्तित्वनास्तित्वयोर्वक्तव्यस्वभावतायां तदभिन्नस्याऽवक्तव्यस्य वक्तव्यस्वभावतापत्त्या स्वस्वरूपहानिर्मा प्रसाङ्क्षीदित्यतो युगपदेवोभाभ्यामस्तित्वनास्तित्वाभ्यां सह तस्याऽभेदमवलम्व्य तद्भङ्गप्रवृत्तिः । अतस्तस्याऽस्तित्वादिवैशिष्ट्यं नाऽऽत्माश्रयादिकवलितमिति तथाविधविशिष्टान्तराणां सम्भवेन तत्प्रतिपादकभङ्गानां नाऽनवकाश इति । सप्तानां धर्माणामुपपादितत्वेन तद्वैलक्षण्यादेव प्रत्येकं सप्तभङ्गजन्यवोधवैलक्षण्यस्य सम्भवेन “यदि च विशिष्टपक्षो नाऽऽद्रियते” इत्याद्यवशिष्टपूर्वपक्षभागोऽनभ्युपगमपराहत एव इति दिक् ।
सेयं सप्तभङ्गी प्रतिपर्यायं सप्तधर्मप्रकारकवोधजनकतापर्याप्तिमद्वाक्यत्वरूपप्रमाणवाक्यत्वालिङ्गिता नयवाक्यसमूहान्वयाऽऽस्थेया, प्रमाणस्य नयविषयताव्यापकविषयताकत्वेन तद्वाक्यस्याऽपि नयवाक्यघटितत्वस्याऽवश्यम्भावात् । अत्र युक्तिसूत्रणसूत्रधाराः श्रीमन्तः सिद्धसेनदिवाकरा इत्थं नयविभागमादर्शयन्तिसङ्ग्रह-व्यवहार-र्जुसूत्र-शब्द-समभिरूढैवंभूतभेदान्नयाः षट् । तत्र आद्यास्त्रयोऽर्थनयाः शब्दाद्यास्त्रयश्च शब्दनयाः ।
तत्राऽर्थनयानाश्रित्य विचारेऽस्तित्वस्य सामान्यस्य सङ्ग्रहविषयत्वेन तत्प्रतिपादको भङ्गः सङ्ग्रहनयात् प्रवर्तते । सामान्यरूपस्याऽस्तित्वस्य विशेषग्राहिणो व्यवहारस्याऽविषयत्वेन तत्प्रतिपक्षभूतं नास्तित्वं तद्विषय
१. पृ. ३५, पं. २६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org