________________
सप्तभङ्गीप्रभा तस्मात् तुरीयभङ्गप्रतिपाद्यस्याऽवक्तव्यत्वस्य सिद्धिनिप्प्रत्यूहैव, तेन "तदभावे त्रयोऽपि तदधीनसिद्धिका अग्रिमभङ्गा दूरोत्सारिता एवे"ति वचनस्य नाऽवकाशः ।
__ यद्यपि, यथा हि केचिदस्तित्वमेव, केचिन्नास्तित्वमेव, केचिदस्तित्वे सति नास्तित्वमेव, केचिदवक्तव्यत्वमेवैकान्तेन प्रतिपन्नास्तेषां विपर्ययोन्मूलनायाऽनेकान्तप्रतिपादकानां स्यादस्त्येवेत्यादिभङ्गानां चतुर्णां प्रवृत्तिः; तथा केचिदस्तित्वे सत्यवक्तव्यत्वमेव, केचिन्नास्तित्वे सत्यवक्तव्यत्वमेव, केचिदस्तित्वे सति नास्तित्वे सत्यवक्तव्यत्वमेवेत्युरीकुर्वन्ति, तदेकान्तकदर्थनाय शेपा अपि त्रयो भङ्गा वक्तव्या एव । न चैभ्यो व्यतिरिक्ता धर्मा अस्तित्वविधिनिषेधभावापन्नास्तीर्थान्तरीयैरेकान्तेनोपगता विलसन्तीति कस्याऽनेकान्तववोधनायाऽष्टमभङ्गाधुन्मेष ? इति तावद्वस्तुगतिः । तथाऽपि परस्य शङ्कशुकतानिवृत्तये प्रक्रिया प्रदर्श्यते । तथा हि - विशेषणविशेष्याभ्यां कथञ्चिदिन्नाभिन्नानां विशिष्टात्मकधर्माणामालम्वनेन पञ्चमभङ्गादिप्रवृत्तिरिति पक्षे यदुक्तं २“भवन्मतेऽस्तित्वनास्तित्वयोरपि कथञ्चिद्वेद एव, तथा सत्यपि यथा तयोः क्रमार्पणं युगपदर्पणं चाऽऽदाय भङ्गान्तरप्रवृत्तिस्तथा विशिष्टान्तराणामपि स्यादिति तत्रोच्यते - अस्तित्वनास्तित्वयोः प्रतियोग्यनुयोगिभावसम्बन्धस्याऽऽवश्यकतया तदनुरोधेन सम्वन्धमात्रव्यापकस्य भेदाभेदस्याऽऽवश्यकत्वेऽपि न तस्य सप्तभङ्गयनुगुणत्वं, किन्तु विधिनिषेधात्मकत्वस्यैव । विशिष्टस्याऽपि च विधिनिषेधात्मकत्वोपपत्त्यर्थमेव विशेषणविशेष्याभ्यां कथशिद्वेदस्याऽऽदरः, न तु तावन्मात्रेण क्रमार्पणं युगपदर्पणं वा । ते त्वनुभवानुसारेणैव कल्प्येते । तथा हि - राज्ञः पुरुष इत्यत्र स्वत्वसंसर्गेण राजप्रकारकपुरुषविशेष्यकशाव्दवोधाभ्युपगन्तृविभक्त्यर्थसंसर्गतावादिमतापेक्षया स्वरूपसंसर्गेण राजस्वत्वप्रकारकपुरुषविशेष्यकशाव्दवोधाभ्युपगन्तृविभक्त्यर्थप्रकारतावादिमते राजस्वत्वाभाववान् पुरुषः सुन्दर इति प्रत्यक्षे विभिन्नविषयके तादृशशाब्दबोधसामग्र्याः प्रतिवन्धकत्वाकल्पनेन लाघवमिति विभक्त्यर्थप्रकारतावादिमतं तत्राऽऽद्रियते गदाधरप्रभृतिभिः । न तु ततोऽपि लाघवाद् राजस्वत्वस्वरूपतत्सम्वन्धतत्सम्बन्धादिपरम्पराप्रकारकपुरुषविशेष्यकशाब्दबोधाभ्युपगमो राज्ञः पुरुष इति वाक्यात् कस्यचित् । तत्र च किं नियामकमिति विमर्शेऽनुभवादृते न कश्चिन्नियामक उपलभ्यते । तथैकैकमस्तित्वं नास्तित्वं संवलितं च तदुभयमनुभूयते । तदनुरोधेन च तत्प्रतिपादका भङ्गा अभ्युपगम्यन्ते । क्रमार्पणयुगपदर्पणे च तदुपपादनप्रकारौ । न चाऽस्तित्वेन नास्तित्वेन वा संवलितं तृतीयपञ्चमादिभङ्गप्रतिपाद्यं विशिष्टमनुभूयते, अननुभूयमानमपि युक्तिसमालिङ्गितं यदि' स्यात् तदाऽपि तत्प्रतिपादका भङ्गाः प्रवर्तेरन् ।
___ न चैवमपि, नीलोऽयं, घटोऽयं, नीलो घटोऽयमिति च प्रतीयते, न तु नीलो नीलो घटोऽयमिति, न वा नीलो घटो घटोऽयमिति । तत्र प्रथमेन नैल्यं द्वितीयेन घटत्वं तृतीयेन नैल्यघटत्वयोरिदमंशे सामानाधिकरण्यावगाहनतो विशिष्टस्वरूपमिति प्रतीयते । चतुर्थेन नैल्यसामानाधिकरण्यं, पञ्चमेन
१. पृ. ३५, पं. १० । २. पृ. ३५, पृ. २१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org