SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६२ भङ्गप्रतिपाद्यस्याऽवक्तव्यत्वस्य कथञ्चिदस्तित्वनास्तित्वोभयात्मकत्वेन नित्यत्वादिप्रतिपादकसप्तभङ्गीप्रविष्टभङ्गप्रतिपाद्यस्य चाऽवक्तव्यत्वस्य कथञ्चिन्नित्यत्वानित्यत्वोभयात्मकत्वेनेत्येवमवक्तव्यत्वानामन्योन्यभेदस्य सुस्पष्टत्वात् । यदपि “किञ्चाऽवक्तव्यत्वस्य धर्मान्तरत्वपक्षे तस्य निमित्तभेदेन विभिन्नस्याऽऽश्रयणे यथा द्वाभ्यां युगपदर्पिताभ्यामस्तित्वनास्तित्वाभ्यामेकस्य वस्तुनो विवक्षायां तादृशस्य शब्दस्याऽसम्भवादवक्तव्यत्वं, तथा त्रिभिर्युगपदर्पितैरस्तित्वनास्तित्वावक्तव्यत्वैरेकस्य वस्तुनो विवक्षायां तादशस्य शब्दस्याऽसम्भवादवक्तव्यत्वान्तरं स्यादेव, युक्तेस्तौल्यादि”त्यादि, तदपि प्रलापमात्रम् । युगपदर्पितमस्तित्वनास्तित्वोभयमेव हि वक्तव्यकक्षामनासादयदवक्तव्यत्वरूपतां विभ्रति । तस्य पुनः कीदृशं युगपदर्पणम् ? क्रमार्पणमपि तस्य नाऽस्त्येव । तथा सति तस्य स्वरूपमेवोच्छिद्येत । पञ्चमादिभङ्गप्रवृत्तिस्तु न तस्य क्रमार्पणमवलम्व्य, किन्त्वस्तित्वेन नास्तित्वेन चैकैकेन सह युगपदर्पितास्तित्वनास्तित्वोभयविवक्षातः पञ्चमषष्ठयोः क्रमार्पितास्तित्वनास्तित्वाभ्यां सह युगपदर्पितास्तित्वनास्तित्वोभयविवक्षातः सप्तमस्य च प्रवृत्तिरिति । एवं चाऽवक्तव्यत्वस्य क्रमार्पणयुगपदर्पणयोरभावेऽपि पञ्चमादिभङ्गानां सम्भवेन एवं सति क्रमार्पणमपि धर्मान्तरेण सह तस्य माऽस्तु । च स्यादस्ति स्यादवक्तव्यश्चेत्यादयोऽपि भझ विलीयेरन्" इत्यादिकं प्रतिविहितमववोद्धव्यम् । सप्तभङ्गप्रभा यच्च ३" किञ्चाऽवक्तव्यत्वस्य यदि धर्मान्तरेण सह युगपदर्पणं नैवाऽभिमतमायुष्मतः, कथं तर्हि स्याद्वक्तव्यो घटः १, स्यादवक्तव्यो घटः २, स्याद्वक्तव्योऽवक्तव्यश्च घटः ३, स्यादवक्तव्यो घटः ४, स्याद्वक्तव्योऽवक्तव्यश्च घटः ५, स्यादवक्तव्योऽवक्तव्यश्च घटः ६, स्याद्वक्तव्योऽवक्तव्योऽवक्तव्यश्च घटः ७, इतीयं सप्तभङ्गी सूपपादा?” इत्युक्तम् तदज्ञानविलसितम् । अस्तित्वादिप्रतिपादक सप्तभङ्गीप्रविष्टभङ्गप्रतिपादकस्याऽवक्तव्यत्वस्यैव युगपदर्पणं क्रमार्पणं च नाऽभ्युपगच्छामः । तस्य विधिनिषेधभावापनतत्तद्धर्मद्वयस्य युगपदर्पणतो निष्पन्नस्वरूपस्य कथञ्चित् तत्तद्धर्मद्वयात्मकत्वमेव । यथा चाऽस्तित्वनास्ति. त्वादयो धर्मा घटे वर्तन्ते तथा वक्तव्यत्वावक्तव्यत्वादयोऽपि धर्मा अस्तित्वादिभ्यो भिन्नास्तत्र वर्तन्ते । तादृशधर्मकदम्वप्रविष्टो यो वक्तव्यत्वप्रतिषेधरूपोऽवक्तव्यत्वधर्मस्तस्य च क्रमार्पणं युगपदर्पणं चाऽभ्युपगच्छाम इति वक्तव्यत्वावक्तव्यत्वादिधर्मप्रतिपादिका सप्तभङ्गी युक्तैव । यथा दधिमधुदुग्धद्राक्षासितादीनां माधुर्येऽस्ति परस्परं वैलक्षण्यं, यदापामरमनुभववीथीमुपगच्छति, न तु वक्तव्यकोटिमुपयाति; तथा घटादावप्यवक्तव्यधर्मसम्बन्धादस्त्यवक्तव्यत्वं, तस्य चाऽवक्तव्यत्वस्याऽपेक्षानिमित्तान्तरमुरीक्रियत एव । भवन्ति हि घटादयो वक्तव्यघटत्वादिधर्मापेक्षया वक्तव्या, अवक्तव्यधर्मापेक्षया अवक्तव्या इति । एवं व्युत्पन्नवक्त्रपेक्षया घटादयो वक्तव्या भवन्ति, बालमूकाद्यपेक्षया पुनरवक्तव्या इति । तयोश्च वक्तव्यत्वावक्तव्यत्वयोर्युगपदर्पितत्वे यदवक्तव्यत्वं तुर्यभङ्गविषयतामासादयति तदुक्तयुक्त्या तदुभयरूपतामाभेजानं न निमित्तान्तरपेक्षत इति सर्वं सुस्थम् । १. पृ. ३४, पं. २ । २. पृ. ३४, पं. २२ । ३. पृ. ३५, पं. ४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003636
Book TitleSaptabhangiprabha
Original Sutra AuthorNemisuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy