________________
भङ्ग
काल्पनिकत्वस्याऽवक्तव्यत्वेऽनभ्युपगमादेव निरस्तम् । किञ्च यथा दधिमधुदुग्धद्राक्षागुडसितादीनां मधुररसे वैलक्षण्यं रसनेन्द्रियेण सर्वैरपि प्रतिपत्तृभिर्ज्ञायते न तु वक्तुं शक्यते, तादृशस्याऽन्योन्यवैलक्षण्यप्रतिपादकवचनस्याऽभावात्; नैतावता तस्याऽभाव एव, अनुभूयमानस्याऽन्योन्यवैलक्षण्यस्याऽपलपितुमशक्यत्वात् । एवं पानकरसेष्वनेकजातीयेषु रसवैलक्षण्यं प्रत्युपभोक्तृ प्रतीयते, न तु वक्तुं शक्यते, नाऽपि तादृशवैलक्षण्यप्रतिपादकस्य वचनस्य सर्वथाऽभाव एव । तथा सति सजातीयं पानकरसमनुभवतामन्योन्यसंवादस्याऽभाव एव स्यात् । तथा युगपद्धर्मद्वयप्राधान्यविवक्षायामेकेन पदेन वक्तुमशक्यत्वेऽपि ज्ञातुं शक्यत एवेति नाऽज्ञेयत्वप्रतिपादकभङ्गस्याऽवकाशः ।
६१
यदपि “किञ्च विवक्षाऽपि सैव युज्यते यया वचनप्रतिघातो न भवति । सहार्पितास्तित्वनास्तित्वविवक्षा तु नैवंभूतेति परित्यज्यतां सैव । नैतदनुरोधेन तुर्यादिभङ्गकल्पना युक्तिमती”ति, तदपि न समीचीनं, युगपदर्पितास्तित्वनास्तित्वोभयविवक्षया स्यादवक्तव्य एव घट इति वचनप्रवृत्तेः सम्भवेन तादृशविवक्षाया वचनप्रतिघातकत्वाभावात् । वस्तुतः स्यादवक्तव्य एव घट इति वचनप्रवृत्तिमूलस्य कथञ्चिदवक्तव्यत्वप्रकारकघटविशेष्यकज्ञानस्य वक्तुं सत्त्वेन प्रतिपाद्यस्य संशयजिज्ञासाभ्यां तादृशज्ञानमिष्टमित्यवगत्य तत्प्रवणं वचनं पराववोधनप्रवृत्तस्य ममेष्टसाधनमिति ज्ञानाद् विवक्षया स्यादवक्तव्य एव घट इति भोल्लासे न दूषणकणस्याऽवकाशः । प्रतिपाद्यस्य तु स्याद्वादापरिकर्मितबुद्धेः सप्तभङ्गीसमुत्थवोधात् प्रागवक्तव्यत्वज्ञानाभावे विशेषोपस्थित्यभावान्नाऽवक्तव्यत्वत्वेन रूपेणाऽवक्तव्यत्वे संशयः सम्भवति । तथाऽपि क्रमार्पितास्तित्वनास्तित्वोभयस्य तृतीयभङ्गेन ज्ञाने वृत्तेः प्राधान्येन सहार्पितास्तित्वनास्तित्वोभयस्योपस्थितिसम्भवेन तद्विषयकसंशयः सम्भवत्येव, स एव चाऽवक्तव्यत्वसंशयः । यद्वा वेदान्तनये यथा सत्त्वासत्त्वयोरनुपपत्त्याऽवक्तव्यत्वस्य घटादावुपगमस्तथा प्रत्येकं सत्त्वमसत्त्वं क्रमार्पितसत्त्वासत्त्वोभयं चोपपादयतां भवतां मते घटादाववक्तव्यत्वमस्ति न वेति संशयस्तज्जन्या जिज्ञासा च सम्भवत्येव । तेन २५ यतो यदि सहार्पितास्तित्वनास्तित्वोभयं वक्तुमशक्यं तर्हि प्रश्नोऽपि वचनरूपस्तद्विषयकः कथं प्रवर्तेत ? न ह्यन्यः पृच्छाविषयोऽन्यश्चोत्तरविषयः” इत्याद्युक्तेर्नाऽवकाशः ।
अवक्तव्यत्वस्य कथञ्चिदस्तित्वनास्तित्वोभयाव्यतिरिक्तत्वस्योपपादितत्वेन " किञ्चाऽयं तुर्यभङ्गः कस्याऽवक्तव्यत्वमनुशास्ति ? किं घटस्योत युगपदर्पितयोरस्तित्वनास्तित्वयोरुत तन्निमित्तयोः स्वद्रव्यादिपरद्रव्याद्योः स्वस्वापेक्षानिमित्तसंवलितयुगपदर्पितास्तित्वनास्तित्वविशिष्टस्य घटस्य वा ?” इति विकल्पानां तत्खण्डनानां च नोल्लासः । एतेनैव च “ किञ्च, अवक्तव्यत्वं यदि धर्मान्तरं तदाऽस्तित्वनास्तित्वादिधर्मप्रतिपादकसप्तभङ्गीप्रविष्टतुर्यभङ्गविषयस्य तस्य नित्यत्वानित्यत्वभेदाभेदादिप्रतिपादकसप्तभङ्गीप्रविष्टतुर्यभङ्गविषयात् तस्मादविशेषप्रसङ्गः" इत्यादिकमपि वचनं समाहितं भवति । अस्तित्वादिप्रतिपादकसप्तभङ्गयन्तर्गत
१. पृ. २९, पं. १८ । २. पृ. २९, पं. २४ । ३. पृ. ३०, पं. ६ । ४. पृ. ३३, पं. १२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org