________________
६०
सप्तभङ्गीप्रभा तत्प्रतिपादकभङ्गस्य किं न स्यात् ? न स्यात् । तथा सति योग्यतायाः स्वावच्छेदकरूपत्वमित्यस्याऽऽश्रयणीयत्वेनाऽस्तित्वादिप्रत्येकधर्मप्रतिपादकभड्रेनैव चारितार्थ्यात् ।
___ यत्तु विकल्पितं “किञ्चोक्तविवक्षायां सत्यामयं धर्म उपतिष्ठते, अस्तित्वादिवद् यावत्सत्त्वं सन्नेव वा, कल्पनौपाधिको वा ?” इति तत्र द्वितीयकल्प एवाऽभ्युपगम्यते । तत्र यदुक्तं . २“अस्तित्वादिवत् तस्याऽपि प्रत्यक्षादिज्ञाने भानप्रसङ्गादित्यादि, तदचतुरस्रम्, प्रत्यक्षादीत्यादिपदग्राह्ये शाब्दज्ञाने सप्तभङ्गीमुपगच्छदिरस्माभिरवक्तव्यत्वस्य भानाभ्युपगमात्, एवं वाक्यरचनां प्रति वाक्यार्थज्ञानस्य कारणत्वेन सप्तभङ्गीप्रयोक्तुर्ज्ञाने तदानस्याऽवश्यम्भावात्, प्रत्येकमस्तित्वनास्तित्वयोः प्रत्यक्षज्ञाने प्रतिभाने कथञ्चित् तदभिन्नस्याऽवक्तव्यत्वस्याऽपि तत्र प्रतिभासाच्च । अवक्तव्यत्वादिधर्मभाने स्याद्वादव्युत्पत्तेरपि प्रयोजकतया स्याद्वादाव्युत्पन्नस्य प्रत्यक्षादिज्ञाने तदप्रतिभासेऽपि तद्व्युत्पन्नस्य ज्ञाने तत्प्रतिभासस्य न्याय्यत्वात् । अत एव श्रीमद्भिर्यशोविजयोपाध्यायैर्महावीरस्तवे प्रत्यभिज्ञाविचारे
“पर्यायतो युगपदप्युपलब्धभेदं, किं न क्रमेऽपि हि तथेति विचारशाली । स्याद्वादमेव भवतः श्रयते स भेदा-भेदक्रमेण किमु न स्फुटयुक्तियुक्तम् ।। प्र०का० ।।२७।।"
इति पद्येन शाब्दबोधातिरिक्तस्याऽपि प्रत्यभिज्ञानस्य सप्तभङ्गीसमधिरूढयावद्धर्मावभासित्वमावेदितम्, व्युत्पादितं चैतदेव तट्टीकायां न्यायखण्डखाद्याभिधायां तैरेव “स्याद्वादव्युत्पत्तेः क्वेहोपयोगः ? शाब्दवोध एव तदुपयोगादिति चेत्, न, स्वप्रभवसंस्कारोत्पन्नमतिज्ञानद्वारा तत्र तदुपयोगात् । अत एव कारणसाम्राज्यमपि दर्शितम् । तथाऽनुभवस्मरणयोः स्वप्रयोज्यक्षयोपशमद्वारकयोस्तथाप्रत्यभिज्ञानकारणयोः सत्त्वात्, उद्देश्यविधेयभावविपर्यासस्याऽप्यैच्छिकत्वात्, वस्तुतः कररेखाविशेषवान् शतवर्षजीवीत्युपदेशश्रवणानन्तरमयं कररेखा विशेषवानिति ज्ञाने सति यथाऽयं शतवर्षजीवीति सङ्कलनात्मकं प्रत्यभिज्ञानं, तादृशविषये मानान्तरानवकाशात्, तथा सर्वं वस्तु सप्तभङ्गीसमधिरूढधर्मात्मकमित्युपदेशं श्रुतवत इदं वस्त्विति ज्ञानानन्तरमेवेदं सप्तभङ्गीसमधिरूढतत्ताश्रयाभिन्नमिति प्रत्यभिज्ञानं व्युत्पन्नानां न दुर्घटमिति दिग्” इति ग्रन्थेन ।
यदा च परोक्षज्ञाने प्रत्यभिज्ञाने क्षयोपशमविशेषात् स्याद्वादव्युत्पत्तिसहकृतात् सप्तभङ्गीसमधिरूढधर्मनिकरप्रतिभानं युक्तितो निष्टङ्कितं तदा प्रत्यक्षेऽपि तथैव सामग्रीसम्पत्त्या तथाभानस्य को वारयितेति विदाकुर्वन्तु सुधियः । केवलज्ञानं तु विस्तरतः सूरिभिस्तद्ग्रन्थेषु व्यवस्थापितमेवेति विस्तरभयान्न तत्र प्रयत्यत इति तत्राऽवक्तव्यत्वप्रतिभासो नाऽपहस्तयितुं शक्यः ।
अव्यक्तव्यत्वं हि कथञ्चिदेवाऽभिमतमिति तस्याऽवक्तव्यशब्दप्रतिपाद्यत्वं सम्भवत्येव । यत्तूक्तं ३“कल्पनाकोशस्याऽस्खलितप्रचारत्वेन यथाऽवक्तव्यत्वं भवता प्रकल्पितं तथा युगपत्प्राधान्यविवक्षायां तथा ज्ञातुमशक्यत्वेनाऽज्ञेयत्वं प्रकल्प्य स्यादज्ञेय एव घट इति भङ्गोऽपि किं नाऽङ्गीक्रियते ?” इति, तत् १. पृ. २९, पं. ४ । २. पृ. २९, पं. ९ । ३. पृ. २९, पं. १४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org