________________
सप्तभङ्गप्रभा
सति अवक्तव्यशब्दप्रतिपाद्यमपि तन्न स्यात् । परन्तु कथञ्चिदवक्तव्यत्वमेवेत्यवबोधयतीति वस्तुस्थितिः ।
ये त्वेकान्तवादिन इमां वस्तुस्थितिमनाकलयन्तस्तुरीयभङ्गोन्मूलनाय प्रवृत्तास्तान् प्रति ब्रूमः, यत्तूक्तं “मूलीभूताद्यद्वितीयभङ्गविषयधर्मोन्मूलनोन्मूलितविषयोऽपि तुरीयभङ्ग” इति तत्तुरीयभङ्गविषयस्य प्रथमद्वितीयभङ्गविषयाभ्यां कथञ्चिदभिन्नत्व एव शोभते । तथा सति सर्वथा भेदमवलम्ब्याऽग्रे प्रदर्शितानि दूषणानि निरवकाशीकृतानि स्युः । प्रथमद्वितीयभङ्गविषयधर्मयोश्चोपपादितत्वेन तदुन्मूलनोन्मूलितविषयत्वं तु तुरीयभङ्गस्य दूरोत्सारितमेव । अस्तित्वनास्तित्वाभ्यां कथञ्चिद्व्यतिरिक्तस्याऽवक्तव्यत्वस्य तुरीयभङ्गविषयतयोपपादितत्वेन २“पञ्चमषष्ठसप्तमभङ्गसूत्रणसूत्रधारोऽधिकार्थासंस्पर्शान्नोपपद्यते” इत्युक्तिरप्ययुक्तैव । अवक्तव्यत्वस्याऽतिरिक्तवक्तव्यत्वस्याऽभावरूपतामारोप्य तदपाकरणं ३" अपेक्षानिमित्तं हि वक्तव्यत्वे वाऽन्वियात्, तन्निष्ठप्रतियोगित्वे तदभावे वा ?” इत्यादिना यत्कृतं तदनभ्युपगमपराहतमेव । यदप्युक्तं " तृतीयोऽप्यसम्भवादेव निरस्तः । यो हि स्वरूपतः प्रसिद्धो भवति तस्यैव क्वचिदधिकरणे सत्त्वोपपादनायाऽवच्छेदकभेदकल्पनोपयुज्यते । वक्तव्यत्वाभावश्च स्वरूपत एवाऽप्रसिद्धः कथमवच्छेदकसम्वन्धितामासादयेत् ?” इति तदतिमन्दम्, कथञ्चिदस्तित्वनास्तित्वोभयाव्यतिरिक्तस्याऽवक्तव्यत्वस्योक्तयुक्त्याऽवश्याभ्युपगन्तव्यत्वात् तस्य च धर्मिणि सत्ताऽस्तित्वनास्तित्वोभयावच्छेदकावच्छेद्यैवेत्यतिरिक्तावच्छेदककल्पनाया अभावाच्च ।
यदप्युक्तं ““अस्तु वाऽवक्तव्यत्वं यत्किञ्चित्, तत्प्रतिपादको यथा तुरीयभङ्गस्तथा वक्तव्यत्वमप्यस्तित्वादिप्रत्येकनिमित्तापेक्षयाऽस्तीति तत्प्रतिपादकोऽप्यपरो भङ्गः स्वीकर्तव्यः स्यादित्यादि, तदप्यबोधविलसितम् । नहि स्याद्वादिनामयमभ्युपगमो यावन्तो धर्मा घटे सम्भवन्ति तावद्धर्मप्रतिपादकभा एकस्यां सप्तभङ्ग्यां निवेशनीया इति । तथा सत्यनन्तभङ्ग्येव स्यात्, किन्तु अस्तित्वादिप्रत्येकधर्माणां विधिनिषेधकल्पनया सप्तधर्मप्रतिपादिका सप्तभङ्गीत्येवाऽभ्युपगमः । अस्तित्वादिप्रत्येकनिमित्तापेक्षयेत्युक्त्या चाऽस्तित्वाद्यापेक्षिकत्वमेव वक्तव्यत्वे प्रतिपादितमिति तस्याऽस्तित्वादिविधिनिषेधानात्मकतया तत्प्रतिपादकभङ्गस्य तत्राऽनवसरः स्वयमेव सूचितः ।
५९
६“न हि यदेवाऽस्तित्वं नास्तित्वं वा तदेव वक्तव्यत्वम्" इत्यादिग्रन्थेन च वक्तव्यत्वस्याऽस्तित्वादितो भेदः कण्ठरवेणैवोक्तः । तेन च सुतरामेव तत्प्रतिपादकभङ्गस्याऽस्तित्वादिप्रतिपादकसप्तभट्ट्यामप्रवेशो निर्द्धारितो भवति । अवक्तव्यत्वं चोक्तदिशा कथञ्चिदस्तित्वनास्तित्वोभयात्मकमिति तस्य प्रस्तावः वक्तव्यत्वस्य च भवद्दर्शितदिशैव न प्रस्तावः । अतः सुष्ठुक्तं “ अत्र त्वस्तित्वनास्तित्वधर्माणामेव प्रस्तावः । अतोऽप्रस्तावावक्तव्यत्वप्रतिपादको भझे नाऽऽद्रियत इती" ति । यथा ह्यवक्तव्यत्वस्य कथञ्चिदुभयानतिरिक्तत्वमालम्व्य तत्प्रतिपादकभङ्गस्य सप्तभङ्ग्यां प्रवेशस्तथा वक्तव्यत्वस्य प्राधान्येन विवक्षितास्तित्वादिप्रत्येकाभेदमवलम्ब्य
७
१. पृ. २७, पं. २४ । २. पृ. २७, पं. २४ । ३. पृ. २८, पं. ५ । ४. पृ. २८ पं. १८ । ५ पृ. २८, पं. २० । ६. पृ. २८, पं. २१ । ७. पृ. २८, पं. २७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org