________________
५८
सप्तभङ्गीप्रभा वकाशः । एवमुक्तविशिष्टस्य धर्मान्तरेण सह वैशिष्ट्यमुपादाय धर्मान्तरस्याऽतिरिक्तस्य सम्भवेऽपि तस्य मूलीभूतधर्मापेक्षया विधिनिषेधभावानापन्नत्वेन न तत्प्रतिपादकभङ्गान्तरस्याऽप्यवकाश इति तृतीयभङ्गः सिद्धिसौधमध्यास्त इति दिक् ।
स्यादस्त्येव घट इत्यनेन सदेव विश्वं नाऽसदित्येकान्तवादिनः साङ्ख्याचार्यस्य, स्यान्नास्त्येव घट इत्यनेनाऽसदेव विश्वमित्येकान्तवादिनो बौद्धस्य, स्यादस्ति नास्ति च घट इत्यनेन कदाचित् सत् कदाचिदसदिति किञ्चित्सत् - किञ्चिच्चाऽसदिति वा कृत्वा सदासदात्मकमेव विश्वमित्येकान्तवादिनो नैयायिकस्य यथाऽपाकरणं तथा स्यादवक्तव्य एव घट इत्यनेन प्रपञ्चस्य न पारमार्थिकं सत्त्वं न वा शशशृङ्गादिवदसत्त्वं, किन्तु सत्त्वासत्त्वाभ्यां वक्तुमशक्यत्वात् सत्त्वाभाववत्त्वे सत्यसत्त्वाभाववत्त्वमवक्तव्यत्वमेवेत्येकान्तवादिनो वेदान्तिनोऽपाकरणं क्रियते । तदपाकरणं च न सर्वथा सत्त्वासत्त्वाभ्यामतिरिक्तस्याऽवक्तव्यत्वस्य तुरीयभङ्गविषयत्वे सम्भवति, तथाभूतस्य तस्य वेदान्तिनाऽप्युपगमात्, किन्तु सत्त्वासत्त्वाभ्यां कथञ्चिदनतिरिक्तस्याऽवक्तव्यत्वस्य तुरीयभङ्गविषयत्व एव । यथा च तृतीयभङ्गविषयस्य सत्त्वासत्त्वोभयस्य धर्मिणि सत्तायां नाऽवच्छेदकान्तरस्याऽपेक्षा प्रत्येकावच्छेदकसङ्घटनत एव च स्यादर्थसंवलितत्वं, तथा तुरीयभङ्गविषयस्याऽप्यवक्तव्यत्वस्य । अन्यथा यद्यदस्तित्वस्याऽनवच्छेदकं तत् सर्वं नास्तित्वस्याऽवच्छेदकमिति तद्रूपावच्छेदकमध्ये जगत एव प्रवेशेनाऽवच्छेदकान्तरस्य दौर्लभ्येऽवक्तव्यत्वादीनां सत्त्वमेवोच्छिद्येत ।
भङ्गप्रवृत्तिनिमित्तानि चैषां विविक्तानि । तथा हि – सदसदात्मके वस्तुनि सत्त्वस्यैव प्राधान्यविवक्षा प्रथमभङ्गप्रवृत्तिनिमित्तं, तत्राऽसत्त्वस्यैव प्राधान्यविववक्षा द्वितीयभङ्गप्रवृत्तिनिमित्तं, पदद्वयाभ्यामस्तित्वनास्तित्वोभयस्य प्राधान्यविवक्षा तृतीयभङ्गप्रवृत्तिनिमित्तम्, एकेनैव पदेनाऽस्तित्वनास्तित्वोभयस्य प्राधान्यविवक्षा तुरीयभङ्गप्रवृत्तिनिमित्तम् । एतदत्र तत्त्वं – यद्यद्धर्मात्मकं वस्तु स स धर्म एकेनाऽपि पदेन प्राधान्येन प्रतिपाद्यते, यथा घटत्वधर्मात्मके घटे घटत्वं घटपदेन, पटत्वधर्मात्मके पटे पटत्वं पटपदेन, अस्तित्वधर्मात्मके घटादावस्तित्वमस्तिपदेन, नास्तित्वधर्मात्मके च तत्र नास्तित्वं नास्तिपदेन प्रतिपाद्यते । एवमस्तित्वनास्तित्वोभयात्मके वस्तुन्यस्तित्वनास्तित्वोभयधर्म एकेन पदेन प्राधान्येन प्रतिपादनीयः, परन्तु न किमपि पदमेकं प्राधान्येन तदुभयप्रतिपादकं समस्तीति वचनाभावादवक्तव्यत्वात्मनैवाऽऽत्मानमासादयत् तदुभयं स्यादवक्तव्य एव घट इति भङ्गविषयः । अवक्तव्यत्वस्य कथञ्चिदुभयात्मकत्वादुभयस्य च कथञ्चित् प्रत्येकात्मकत्वादित्येवमवक्तव्यस्याऽस्तित्वाद्यपेक्षया विधिनिषेधभावापन्नतया तत्प्रतिपादकस्य भङ्गस्य सप्तभङ्ग्यां प्रवेशो युक्त एव । मूलीभूतयोरस्तित्वनास्तित्वयोरेकत्राऽवच्छेदकभेदेन सत्त्वे कथञ्चित् तदात्मकानां धर्मान्तराणामपि भङ्गान्तरप्रतिपाद्यानां सत्त्वस्योपपत्तेर्न तदर्थमवच्छेदकान्तरापेक्षा । स्यादवक्तव्य एवेत्यत्र स्यात्पदं तु नैतादृशमवच्छेदकमवबोधयति, किन्त्वस्तित्वनास्तित्वोभयं प्राधान्येनैकेनाऽस्त्यादिपदेन मुख्यया वृत्त्या प्रतिपाद्यत्वाभावेनाऽवक्तव्यत्वरूपतामासादयतु नाम, तथाऽपि न सर्वथा वचनागोचरत्वमेव तस्य । तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org