________________
सप्तभङ्गीप्रभा
च तस्या विशेषणाभावविषयकत्वेन, विशेषणशून्ये विशेष्यशून्ये च विशेपणाभावविशेष्याभावद्वयविषयकत्वेनोपपत्तेर्विशिष्टाभावो नाऽतिरिक्तोऽभ्युपेयः । तथैवोभयाभावोऽपि नाऽभ्युपेयः । प्रत्येकाभावात्मकाभावसामानाधिकरण्येनाऽनेकान्तत्वं च विशिष्टस्य निर्वहति तथैवोभयस्येत्युपगमतोऽपि “अस्तु वाऽपेक्षानिमित्तं तस्य यत्किञ्चित्, किन्त्वेकान्तवादापत्तिभिया तदभावोऽपि तत्राऽवश्यं स्वीकरणीयः” इत्यादिदूषणमुन्मूलयितुं शक्यं, विशिष्टाभावरूपातिरिक्तधर्मस्याऽभावेन तत्प्रतिपादकभङ्गापत्तेरप्यनवकाशात् । तथाऽपि यदि विशेषणविशेष्योभयशून्ये विशिष्टाभावप्रतीतेर्विनिगमनाविरहाविशेषणाभावविशेष्याभावद्वयविषयकत्वकल्पनापेक्षयाऽतिरिक्तविशिष्टाभावरूपैकविषयकत्वमेव कल्पनीयमित्यतिरिक्तविशिष्टाभावसिद्धिरिति विभाव्यते, तदाऽपि न भङ्गान्तरापत्त्यवकाशः । तथा हि - विशिष्टस्योभयस्य वा कथञ्चित् प्रत्येकानतिरिक्तत्वेन मूलीभूतधर्मद्वयापेक्षया विधिनिषेधभावापन्नत्वेन तत्प्रतिपादकभङ्गस्य सप्तभङ्ग्यां प्रवेशसम्भवेऽपि मूलीभूतधर्मद्वयापेक्षया विशिष्टाभावस्योभयाभावस्य वा विधिनिषेधभावापन्नत्वेन तत्प्रतिपादकभङ्गस्य प्रवेशो न युज्यते ।
न च, विशिष्टाभावस्याऽपि प्रत्येकाभावान्न सर्वथा भेदः, किन्तु कथञ्चिदेवेति विधिनिषेधभावापन्नत्वमविशिष्टमेवेति वाच्यम् ।
तथा सति प्रथमद्वितीयभाभ्यामेवाऽस्य प्रतिपादनसम्भवेन नाऽतिरिक्तस्य भङ्गस्याऽऽवश्यकत्वम् ।
न च, यथोभयस्य कथञ्चिदनितिरिक्तत्वेऽपि तत्प्रतिपादको भोऽतिरिक्तस्तथोभयाभावस्याऽपि स्यादिति वाच्यम् ।
तत्र हाभयस्य प्राधान्यविवक्षया तृतीयभङ्गनिर्देशः । प्रथमद्वितीयभङ्गयोस्तु प्रत्येकस्यैव प्राधान्यम् । प्रकृते तु प्रत्येकाभावरूपस्योभयाभावस्य यदि प्राधान्यं विवक्षितं तदाऽस्तित्वाभावरूपं नास्तित्वं, नास्तित्वाभावरूपमस्तित्वमिति कृत्वा प्रथमद्वितीयभाभ्यामेव चारितार्थ्यम् । यदि चाऽस्तित्वाभावनास्तित्वाभावद्वयस्य प्राधान्यं विवक्षितं तदा नास्तित्वाभावोऽस्तित्वमस्तित्वाभावो नास्तित्वमिति प्राधान्येनाऽस्तित्वनास्तित्वोभयप्रतिपादकतृतीयभड्रेनैव चारितार्थ्यम् । यदि च प्रत्येकाभावरूपतया प्रत्येकाभावद्वयरूपतया वा प्राधान्यं न विवक्षितं, किन्त्वस्तित्वनास्तित्वोभयत्वाद्यवच्छिन्नप्रतियोगिताकाभावत्वेनैवेति तदा विधिनिषेधभावानापन्नत्वेनैव तत्प्रतिपादकभङ्गस्य न सप्तभङ्ग्यां प्रवेश इति ।
न च, यत्रैव तृतीयभङ्गेऽस्तित्वनास्तित्वोभयस्य प्राधान्येन प्रतिपाद्यता तत्रैव तदभावस्य प्रत्येकाभावद्वयरूपस्य प्राधान्येन प्रतिपाद्यतेति कथं श्रद्धेयमिति वाच्यम् ।
स्याद्वादतो युक्तिसिद्धेऽर्थे श्रद्धायाः स्वयमेव प्रामाणिकान् प्रति समुल्लासात् । तस्मान्न विशिष्टाभावप्रतिपादकभङ्गस्याऽऽपादनं युज्यते, न वा तत्र धर्मान्तरस्य वैशिष्ट्यमुपादाय तत्प्रतिपादकभङ्गस्याऽप्य- १. पृ. २७, पं. ९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org