________________
५६
सप्तभङ्गीप्रभा
भयत्वस्यैकविशिष्टापरत्वरूपत्वमेव ।
__न च, कथञ्चिदस्तित्वनास्तित्वोभयं कथञ्चिदस्तित्वविशिष्टनास्तित्वरूपं, कथञ्चिन्नास्तित्वविशिष्टास्तित्वरूपं वेत्यत्र विनिगमनाविरहेण विशिष्टद्वयरूपत्वं स्वीकरणीयं तदपेक्षयाऽतिरिक्तत्वे लाघवमिति वाच्यम् ।
धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायेन क्लृप्ते विशिष्टद्वये उभयत्वकल्पनाया एव लघीयस्त्वात् । एवं च तृतीयभङ्गे कथञ्चिदस्तित्वनास्तित्वोभयस्य तादृशोभयत्वेन प्रकारत्वे कथञ्चिदस्तित्वविशिष्टनास्तित्वस्य कथञ्चिन्नास्तित्वविशिष्टास्तित्वस्य च तत्रैवाऽन्तर्भावसम्भवेन न तत्प्रतिपादकस्य भङ्गान्तरस्य सप्तभङ्गयां प्रवेश इति न नवभङ्गीत्वादिप्रसङ्गः । एतेन पञ्चमषष्ठसप्तमभङ्गा अपि व्याख्याताः ।
एकविशिष्टापरत्वस्य च न प्रकारतावच्छेदकत्वम्, येनैकस्य विशेषणतया भाने प्रकारतावच्छेदकतायास्तत्र सत्त्वेन प्रकारतावच्छेदकतानात्मकप्रकारताशालित्वरूपप्राधान्यस्य तत्राऽभावेन तृतीयभङ्गेऽस्तित्वनास्तित्वोभयं प्रधानमित्यभ्युपगमव्याकोप: स्यात्, किन्तूक्तोभयत्वमेव प्रकारतावच्छेदकमित्युभयस्य प्राधान्यमव्याहतमेव । यदि चोभयत्वमपि नाऽतिरिक्तं किन्त्वेकविशिष्टापरत्वमेव, प्रकारतावच्छेदकतावच्छेदकं चोभयत्वत्वमनुगतमखण्डधर्म इति न तृतीयभड्नेन विशिष्टद्वयासङ्ग्रह इति विभाव्यते, तदाऽप्युभयस्य प्राधान्यमनिर्बाधम् । यतः स्यादस्ति नास्ति चेति तृतीयभङ्गप्रयोज्या प्रकारता कथञ्चिदस्तित्वविशिष्टनास्तित्वनिष्ठा कथञ्चिन्नास्तित्वविशिष्टास्तित्वनिष्ठ चेति प्रथमां प्रकारतामादाय नास्तित्वस्य, द्वितीयामादायाऽस्तित्वस्य प्राधान्यमिति विशिष्टस्य प्रकारत्वेऽपि न तृतीयभङ्गस्य भङ्गद्वयसमाहाररूपत्वम् । एतेन १“एवं सत्यस्तित्वस्य नास्तित्वविशेषणत्वे प्रकारतावच्छेदकतानात्मकप्रकारतारूपस्य प्रकारगतस्य प्राधान्यस्येत्यादि तस्मादर्थभेदोपदर्शनमन्तरेण भङ्गद्वयसमाहारमात्रेण तृतीयभङ्गसमर्थनं न विचारचूलामवलम्बते” इत्यन्तं निरस्तमवगन्तव्यम् । एतेनैव च “एवं सत्यस्तित्वविशिष्टनास्तित्वं यथा विशिष्टात्मकतया धर्मान्तरमित्यादि द्वितीये च विशिष्टे नास्तित्वं विशेषणं विशेष्यमस्तित्व''मितीयन्तं खण्डनं खण्डितम् ।
___ प्रथमभङ्गे प्राधान्येन कथञ्चिदस्तित्वं प्रकारः, द्वितीयभङ्गे प्राधान्येन कथञ्चिन्नास्तित्वं प्रकारः, तदेवोभयमुभयत्वधर्मासादनमात्रेण कथञ्चिदिन्नं प्राधान्येन तृतीयभने प्रकारः । तावतैव च प्रथमद्वितीयभनाभ्यामस्य वैलक्षण्योपपत्ते ऽत्राऽपेक्षानिमित्तान्तरस्योपयोगं पश्यामः । तृतीयभङ्गे स्यादितिपदमस्तित्वनास्तित्वापेक्षानिमित्तमेवाऽऽवेदयति न त्वपूर्वमपेक्षानिमित्तमवबोधयति । नैतावतैकान्तवादापत्तिः, कथञ्चिदस्तित्वनास्त्वित्वोभयस्वरूपस्यैवैकान्तवादेऽनिष्पत्तेः । । तथा च “किञ्च, विशिष्टस्य धर्मान्तरस्य तृतीयभङ्गविषयत्वे तदपेक्षानिमित्तमपि प्रथमद्वितीयभङ्गविषयधर्मापेक्षानिमित्ताभ्यामन्यदेव वाच्यमित्यादि, तथा सति तस्य व्यापकत्वाद्यापत्त्या घटाद्यसाधारणरूपता न स्यादि''त्यन्तं वचनं प्रलापप्रायमवगन्तव्यम् ।
विशेषणवति विशेष्यशून्ये विशिष्टाभावप्रतीतेर्विशेष्याभावविषयकत्वेन, विशेष्यवति विशेषणशून्ये १. पृ. २४, पं. २८ । २. पृ. २५, पं. २७ । ३. पृ. २६, पं. ८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org