________________
सप्तभङ्गीप्रभा
सप्तानां धर्माणां विवक्षाभिः सप्तानां भङ्गानां समुल्लासे तेषामेव समुदायतामवलम्ब्य सप्तभङ्गत्वं, न तु सप्तभङ्गया अतिरिक्तधर्मविवक्षया प्रयोगो, नाऽपि सप्तधर्मव्यतिरिक्तधर्मप्रतिपादकत्वमिति कथमस्या अष्टमभङ्गत्वप्रसङ्गः ? अस्य तु तृतीयधर्मविवक्षया पृथगेव प्रयोगाद् युक्तं तृतीयत्वं, न तु भङ्गद्वयसमाहाररूपत्वम् । न चोभयस्य प्रत्येकानतिरिक्तत्वे तृतीयत्वमेव दुरुपपादं प्रत्येकातिरिक्तत्वे नास्तित्वाद्यपेक्षया विधिनिषेधात्मकत्वमिति नास्तित्वादिधर्मप्रतिपादकभङ्गसमाहारघटकत्वं तत्प्रतिपादकभङ्गस्येति सेयमुभयतः पाशा रज्जुरिति वाच्यम् ।
उभयस्य हि सर्वथा प्रत्येकानतिरिक्तत्वे घटमात्रस्य पटमात्रस्य वा सत्त्वेऽपि घटपटोभयसत्त्वप्रसङ्गः, प्रत्येकप्रतीतितो वैलक्षण्येनाऽनुभूयमानाया उभयप्रतीतेरपलापप्रसङ्गञ्च । सर्वथा प्रत्येकातिरिक्तत्वे घटपटयोरन्यतरस्याऽसत्त्वेऽपि घटपटोभयसत्त्वप्रसङ्गः, घटपटोभय-मठतटोभय-चैत्रमैत्रोभयादीनामन्योन्यवैलक्षण्ये निमित्तान्तरस्य वक्तव्यत्वप्रसङ्गश्च । अतः कथञ्चित् प्रत्येकतोऽनतिरिक्तमेवोभयं तत्र च नोक्तदोषसमुन्मेषः । एवं च क्रमार्पितत्वस्याऽधिकस्य तृतीयभङ्गजबोधविषयत्वाभावेऽपि च तृतीयभङ्गोपपत्तेः " तस्य क्रमार्पितास्तित्वनास्तित्वोभयविषयकत्वं यदुच्यते तत्राऽधिकतया प्रविष्टं क्रमार्पितत्वं विचारमर्हती" त्यादि तृतीयभङ्गखण्डनमरण्यरुदितमेव, विचारार्हमुभयस्वरूपं परित्यज्याऽन्यत्र विचारस्योपसङ्क्रमात् ।
५५
इदं त्वत्राऽवधेयम् - अस्तित्वनास्तित्वोभयं यथाकथञ्चित् प्रत्येकानतिरिक्तं सद् अस्तित्वाद्यपेक्षया विधिनिषेधभावापन्नं तत्प्रतिपादकसप्तभङ्गीप्रतिपाद्यधर्मकदम्बे निविशते, तथाऽस्तित्वविशिष्टं नास्तित्वं, नास्तित्वविशिष्टमस्तित्वं च कथञ्चिदस्तित्वादितो भिन्नाभिन्नं विधिनिषेधभावापन्नं चेति तयोरपि सप्तभङ्गीप्रतिपाद्यधर्मकदम्वे प्रवेशो युक्तः । तथा च नवभयाद्यापत्त्या न सप्तभङ्गीवादश्चतुरस्रः ।
न चोक्तयुक्त्योभयस्य कथञ्चित् प्रत्येकानतिरिक्तस्य सम्भवेऽपि विशिष्टस्य तथाविधस्य सत्त्वे मानाभाव इति वाच्यम् ।
विशिष्टं हि विशेषणस्वरूपं, विशेष्यस्वरूपं, तदुभयस्वरूपं वैकान्तेऽभ्युपगम्यते किं वा तेभ्यः सर्वथा व्यतिरिक्तमेव ? नाऽऽद्यः, दण्डमात्रसत्त्वेऽपि दण्डविशिष्टपुरुषसत्त्वप्रसङ्गात् । नाऽपि द्वितीयः, दण्डविनिर्मुक्तपुरुषवति देशे दण्डविशिष्टपुरुषप्रतीतेः प्रमात्वप्रसङ्गात् । नाऽपि तृतीयः यत्र विशेषण - विशेष्योभयस्य सत्त्वं तत्राऽवश्यं विशिष्टस्य सत्त्वं यत्र च विशिष्टस्य सत्त्वं तत्राऽवश्यमुभयस्य सत्त्वमित्येवं सामनैयत्येऽपि तयोः स्वरूपवैलक्षण्यस्याऽवश्यं स्वीकरणीयत्वात् । अन्यथा घटत्वपटत्वोभयस्वरूपनिष्पत्तौ घटत्वविशिष्टपटत्वस्वरूपस्याऽपि निष्पत्तिप्रसङ्गः । नाऽपि चतुर्थः, विशेषणाद्यभाववत्यपि विशिष्टप्रतीतेः प्रमात्वप्रसङ्गात् । अतो विशिष्टस्याऽपि विशेषणादितो भिन्नाभिन्नत्वमेव ज्यायः ।
अत्र वदन्ति, व्यधिकरणधर्मयोरुभयत्वस्यैकविशिष्टापरत्वरूपत्वासम्भवेऽपि समानाधिकरणधर्मयोरु
१. पृ. २४, पं. ८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org