________________
५४
सप्तभङ्गीप्रभा
प्रकारः, भूतले घटो नास्तीत्यत्र घटस्य प्रतियोगितया विषयत्वमित्यपरं मतं,तदनयोः कुत्र प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमावित्यस्य सामञ्जस्यम् ? इति विदाकुर्वन्तु विद्वांसः । एतेन “को नाम प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमाविति न्याये जाग्रति एकजातीयाया एव विभक्तेः समानस्य स्यात्पदस्य वा प्रतियोग्यन्वयबोधकवाक्येऽन्यार्थकत्वम्, अभावान्वयबोधकवाक्ये चाऽन्यादृशार्थकत्वमभ्युपगच्छेच्छाब्दमर्यादाभिज्ञ” इत्युक्तिरप्यपास्ता । भूतले घटोऽस्तीत्यत्र सप्तम्या निरूपितत्वार्थकत्वस्य प्रथमान्तार्थस्य घटस्य मुख्यविशेष्यत्वस्य प्रथमायाः सङ्ख्यातिरिक्तार्थत्वाभावस्याऽभ्युपगमः, भूतले घटो नास्तीत्यत्र सप्तम्या निरर्थकत्वस्य प्रथमान्तार्थे घटे मुख्यविशेष्यत्वाभावस्य प्रथमायाः प्रतियोगित्वार्थकत्वस्य सप्तम्यन्तभूतलपदार्थे मुख्यविशेष्यत्वस्य च भवतोऽप्यभ्युपगम इति तत्रैकजातीयाया एव विभक्तेः समानस्यैव पदस्य सार्थकत्वनिरर्थकत्व-मुख्यविशेष्यताप्रयोजकत्व-तदभावादीनां सद्भावेनैकान्तेन कस्याऽपि नियमस्योपपत्तेरसम्भवादिति दिक् ।
प्रथमभङ्गे द्वितीयभङ्गे च पराभिमतानां दोषाणां निर्मूलमुन्मूलितत्वात् "तृतीयभङ्गस्तु प्रत्येकं यो भवेद् दोषो द्वयोर्भावे कथं न स इति न्यायकवलित एवे”ति परस्य प्रलापमात्रमेवेति स्थितम् । किञ्चोक्तोऽपि न्यायो नैकान्तेन न्याय्यतामर्हति, यतो योग्येन वृक्षेण सह योग्यस्य कपेः संयोगेऽविशेषेण सर्वयोग्यदेशावच्छेदेन वृक्षे कपिसंयोगोपलम्भप्रसङ्गः । एवं योग्ये वृक्षे योग्यकपिसंयोगाभावस्य सद्भावेऽविशेषेण सर्वयोग्यदेशावच्छेदेन कपिसंयोगाभावोपलम्भप्रसङ्ग इति प्रत्येकपक्षे दोषो भवति । वृक्षे कपिसंयोगतदभावयोरुभयोः सद्भावे च तदन्यथानुपपत्त्याऽवच्छेदकभेदस्याऽपि तत्र सन्निविष्टतया नोक्तदोषसमुन्मेषः ।
न च, कपिसंयोगतदभावयोरव्याप्यवृत्तितयाऽव्याप्यवृत्तिकपिसंयोगसत्त्वपक्षोऽव्याप्यवृत्तिकपिसंयोगाभावसत्त्वपक्षश्च प्रत्येकपक्षस्तत्र च नोक्तदोषसद्भाव इति न तत्रोक्तन्यायानुपपत्तिरिति वाच्यम् ।
अव्याप्यवृत्तित्वं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमित्यव्याप्यवृत्तिकपिसंयोगसद्भाव इति पक्ष एवाऽव्याप्यवृत्तिकपिसंयोगाभावसद्धावस्याऽपि प्रविष्टतया तस्योभयपक्षत्वेन प्रत्येकपक्षत्वासम्भवात् ।
न चाऽव्याप्यवृत्तिविधिनिषेधातिरिक्तविषयकतयैवोक्तन्याय आश्रीयत इति वाच्यम् ।
तथा सत्यस्मन्मते विधिनिषेधभावापन्नानां सर्वेषामेव सत्त्वासत्त्वादीनामव्याप्यवृत्तितयोक्तन्यायाविषयत्वे ३“तृतीयभङ्गस्त्वि” त्याधुक्तिरसङ्गतार्थोपहासायैवेति । क्रमाप्तिसत्त्वासत्त्वविवक्षयेत्यनेन तृतीयभङ्गे सत्त्वासत्त्वोभयस्य प्राधान्येन प्रकारत्वमेवाऽभिप्रेतं, क्रमाक्रमौ च शब्दधर्मावेव । क्रमिकं यच्छब्दयुगलं तत्प्रयोज्यैकज्ञानीयप्रकारतावत्त्वमेब विधिनिषेधयोः क्रमार्पितत्वं, तच्चोपलक्षणमेव, न शाब्दवोधविषयः । प्रथमद्वितीयभाभ्यां च ज्ञानद्वयमेव जन्यते, न त्वेकं ज्ञानम् ।
न चैवं प्रथमद्वितीयभङ्गसमाहाररूपतैवाऽस्य स्यात्, न तु तृतीयभङ्गत्वं, यथा सप्तभझ्याः प्रत्येकभड्नसमाहाररूपत्वं, न त्वष्टमभङ्गत्वमिति वाच्यम् । १. पृ. १५ पं. ८ । २. पृ. २४ पं. ८ । ३. पृ. २४ पं.८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org