________________
सप्तभङ्गीप्रभा
यथा हि – अनन्तधर्मात्मको घटस्तथा तन्निष्ठ्वृत्तित्वरूपधर्मोऽप्यनन्तधर्मात्मकः । तत्र स्वक्षेत्रनिरूपितत्वादीनां सत्त्वेऽपि स्वद्रव्यनिरूपितत्ववुवोधयिषया स्वद्रव्येणाऽस्त्येव घट इत्यादिसप्तभङ्गी निरावाधैव । अन्यत्र तृतीयया निरूपितत्वरूपोऽर्थो न प्रतीयत इति माऽस्त्वन्यत्र तृतीयार्थी निरूपितत्वम् । अत्र तु स्वद्रव्यादीनां निरूपितत्वस्यैव वृत्तित्वेऽन्वययोग्यतया तत्प्रतिपादनाय स्वद्रव्येणेत्युक्तेरस्खलिततया वादिवृन्दैरादृततया तन्निराकरणमनुभववाधितमेव । यदि च निरूपितत्वं नाऽनुभूयते किन्त्ववच्छेदकत्वमेवेत्यस्ति भवतां मतिः, तदा तदनुरोधेनाऽवच्छेदकत्वरूपार्थस्याऽप्यन्वययोग्यत्वमिति तत्राऽपि न नः किञ्चिदपचीयते । परन्तु स्वद्रव्यादीनां निरूपितत्वमेवाऽनुभूयते इति पक्षाश्रयणेऽप्यस्ति स्याद्वादे विशेष इत्युपदर्शनमात्रार्थत्वादुक्तप्रक्रियायाः ।
वृत्तित्वतदभावौ प्रथमद्वितीयभङ्गप्रतिपाद्यौ । तौ च सामान्यतो विधिनिषेधात्मकावेव । तत्र रवद्रव्यक्षेत्रकालभावैरित्यनेन स्यादित्यनेन वा प्रथमभङ्गप्रतिपाद्यस्य वृत्तित्वस्य वृत्तित्वविशेषे पर्यवसानम् । द्वितीयभङ्गप्रतिपाद्यस्य वृत्तित्वसामान्याभावस्य वृत्तित्वविशेषाभावे पर्यवसानम् । अतो न विरोधगन्ध इति स्याद्वादार्थे न मतान्तरादविशेषः । परद्रव्यक्षेत्रकालभावचतुष्टयापेक्षस्यैकस्यैव वृत्तित्वविशेषस्य परस्मिन् प्रसिद्धस्यैकान्तवाद्यदृष्टस्याऽभावो द्वितीयभङ्गविषय इति व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाश्रयणं विनाऽपि निर्वाह: । यदि च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव एव तत्राऽनुभूयते, तदाऽनुभवानुरोधस्य सर्वैरपि वादिभिः कर्तव्यतया सामान्यतो वृत्तित्वे परद्रव्यादीनां निरूपितत्वसम्बन्धेन सत्त्वेन न व्यधिकरणत्वं, न वा परद्रव्यादिनिरूपितत्वस्य । अतो वृत्तित्वविशेष एव प्रथमभङ्गार्थः, प्रतियोगितया द्वितीयभङ्गविषयः ।
प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमाविति नियमस्याऽपि विरोधो नाऽत्राऽऽत्मानमासादयति । व्यधिकरणधर्मादीनामुपस्थापकाभावे नज्यदसमभिव्याहारं विना यादृशवाक्याद् यत्सम्बन्धावच्छिन्नयद्धर्मावच्छिन्नयन्निष्ठपकारतानिरूपितयद्धर्मावच्छिन्नविशेष्यतानिरूपको वोधो जायते नऽपदसमभिव्याहारे सति तादृशवाक्यात् तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नतन्निष्ठप्रतियोगिताकाभावत्वावच्छिन्नप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यतानिरूपको वोधो भवत्येतादृशार्थे पर्यवसन्नस्योक्तनियमस्य प्रकृते व्यधिकरणधर्मोपस्थापकस्य स्यादित्यस्य सद्भावेनाऽप्रवृत्तेः ।
कियोक्तनियमोऽपि स्याद्वादाङ्कित एव युज्यते । कथमन्यथा चैत्रः पचतीत्यत्र पाकानुकूलकृतिप्रकारकचैत्रविशेष्यकवोधः ? चैत्रो न पचतीत्यत्र पाकानुकूलकृत्यभावप्रकारकचैत्रविशेष्यकबोध ? इति तत्रोक्तनियमस्य समन्वयेऽपि भूतले घटोऽस्तीत्यत्र भूतलवृत्तित्वप्रकारकघटविशेष्यकवोधः, भूतले घटो नास्तीत्यत्र च भूतलविशेष्यकघटाभावप्रकारकवोध इति तत्रोक्तनियमस्य न समन्वयः । एवं च स्यादस्त्येव घट इत्यत्र यदेव स्वद्रव्यादिनिरूपितवृत्तित्वं प्रकारः, स्यान्नास्त्येव घट इत्यत्र तस्यैव वृत्तित्वविशेषस्य परद्रव्यादिनिरूपितत्वेन व्यधिकरणधर्मेण प्रतियोगितया विषयत्वमित्येकं मतं, भूतले घटोऽस्तीत्यत्र भूतलवृत्तित्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org