________________
सप्तभङ्गीप्रभा परद्रव्यादीनां परभावातिरिक्तानामिति परकीयरीतिमाश्रित्याऽपि स्याद्वाद उज्जृम्भते । तथा हि – स्वद्रव्ये घटोऽस्ति, स्वक्षेत्रे घटोऽस्ति, स्वकाले घटोऽस्तीत्यादौ सर्वत्र घटो यथाऽनुगततया भासते तथैवाऽस्त्यर्थोऽपि | न ह्यधिकरणानां कपाल-भूतल-कालानां भेदेऽपि घटव्यक्तिः स्वरूपत एव भिन्नति भवद्भिरभ्युपगम्यते ।
न चाऽऽधेयस्याऽधिकरणभेदेन भेद इति नियमाभावेन घटव्यक्तेः स्वरूपतो भेदाभावेऽपि सनिरूपकाणां पदार्थानां निरूपकभेदेन भेद इति नियमसदावाद् वृत्तित्वस्य सनिरूपकस्य निरूपकभेदेनाऽवश्यं भेद इति वाच्यम् ।
___ एकान्तभेदमाश्रित्योक्तनियमाभ्युपगमे हि वृत्तित्वमेव स्वरूपत उच्छिद्येत । एकमेव हि वृत्तित्वमवच्छेदकतानिरूपितमधिकरणनिरूपितं चाऽभ्युपगम्यते भवद्भिरपि ।
न चैकस्य सनिरूपकस्यैकजातीयं निरूपकमेकमेव भवतीति नियमस्याऽभ्युपगमेन भिन्नजातीयनिरूपकभेदाद् भेदाभावेऽपि समानजातीयनिरूपकभेदाद् भेद आवश्यक इति वाच्यम् ।
___ एकस्मिन्नधिकरणे घटपटयोः सत्त्वे घटपटोभयनिष्ठ्वृत्तिताया घटत्वपटत्वोभयत्वैतत्त्रितयधर्मावच्छिन्नाया अवच्छेदकतारूपैकजातीयनिरूपकभेदेऽप्यभिन्नाया एवाऽभ्युपगमात् । एवं समूहालम्बनज्ञानस्य विषयरूपनिरूपकभेदेऽप्यभिन्नस्यैवाऽभ्युपगमात् । न हि किञ्चिदपि ज्ञानमेकमात्रविषयकमिति ज्ञानमात्रस्यैव वा विलोपप्रसङ्गात् । तस्मान्निरूपकभेदात् सनिरूपकस्य कथञ्चिद्वेद एवाऽऽश्रयितव्यो, न तु सर्वथाऽपि भेदः । तथा च कथञ्चिदेकमेव वृत्तित्वं स्वद्रव्यक्षेत्रकालनिरूपितं स्वभावावच्छिन्नं चेति कृत्वा स्वद्रव्यक्षेत्रकालभावैरस्त्येव घट इति स्याद्वादे यथोपपद्यते, न तथैकान्ततो द्रव्यनिरूपितवृत्तित्व-क्षेत्रनिरूपितवृत्तित्व-कालनिरूपितवृत्तित्वानां भेदवादे । यैव च घटत्वावच्छिन्ना वृत्तिता सैव प्रमेयत्वावच्छिन्नाऽपि कथञ्चिद् भवतीत्युपगमोऽपि स्याद्वाद एव युज्यते । एवं छायातपवद्वैलक्षण्ये जाग्रति तदनवबोधः परस्य दूषणमेव, न तु भूषणम् ।
यत्तु “स्वद्रव्यनिरूपितत्वं वृत्तित्वे परमते समवायादिसम्वन्धावच्छिन्नत्वावच्छेद्यं, भवन्मते भेदाभेदात्मकाविष्वग्भावरूपसम्बन्धावच्छिन्नत्वावच्छेद्यं, स्वक्षेत्रनिरूपितत्वं च तत्र संयोगादिसम्बन्धावच्छिन्नत्वावच्छेद्यमिति नैकं वृत्तित्वं स्वद्रव्यादिनिरूपितं सम्भवती"ति, तत्तुच्छं, निमित्तभेदेनैकस्मिन् वृत्तित्वेऽनेकधर्मसमावेशे विरोधाभावात् ।
न च, यदप्युक्तदिशा त्रितयनिरूपितं स्वीक्रियते तदपि प्रत्येकनिरूपितं भवत्येवेति तदादायकान्तवादाविशेषापादनमिति वाच्यम् ।
त्रितयनिरूपितत्वोपपादनेनैकान्तवाद्यभिमतैकैकमात्रनिरूपितवृत्तित्वस्य शशशृङ्गकल्पत्वस्याऽऽविष्कारात् ।
न चैकमात्रनिरूपितंवृत्तित्वस्याऽस्वीकारे स्वद्रव्येणाऽस्त्येव घट इत्यादिसप्तभड़ी समुच्छिन्ना स्यादिति वाच्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org