________________
सप्तभङ्गीप्रभा
भावानामभ्युपगम आवश्यक इति न तत्र नैयायिकादीनां विवादः, किन्तु तन्निरूपितप्रतियोगितायामेव । एतदाश्रयेणैवोक्तमन्यत्र - “विवादोऽप्यतिरिक्तायां प्रतियोगितायामेव, अन्यथा सर्वेषामभावानां गगनाभावरूपत्वेन गगनप्रतियोगिकतया सर्वा अपि व्यधिकरणधर्मावच्छिन्नप्रतियोगिता गगनत्वावच्छिन्नप्रतियोगित्वाभिन्ना इति गगनत्वावच्छिन्नप्रतियोगित्वाभ्युपगमे तासामभ्युपगम आवश्यक इति न तास्वपि विवाद: स्यात्” । एतेन १“किञ्च, द्वितीयभङ्गे प्रथमभङ्गविषयाधिकरणवचनसङ्घटन एव तदर्थो निषेधः समानाधिकरणधर्मावच्छिन्नप्रतियोगताकतया नोपपद्यत इति व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकः कल्पितो भवती"त्यादि निरस्तमवसेयम् ।
अभावानामैक्येऽपि प्रतियोगिताया भिन्नत्वस्योपपादितत्वेन पटत्वावच्छिन्नघटनिष्ठप्रतियोगिताया घटधर्मत्वमेव, न तु पटधर्मत्वमतो २“यदा तु समनियताभावानामैक्यमिति पक्ष आश्रीयते तदे"त्याद्यपि समाहितं भवति । अनया दिशाऽन्येऽपि व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावमाश्रित्य प्रदर्शिताः कुविकल्पाः स्याद्वादिभिरुन्मूलनीयाः ।
यदा तु स्वरूपसत्त्वमस्तित्वं प्रथमभङ्गप्रतिपाद्यं, तदा तदभावरूपं नास्तित्वं द्वितीयभङ्गप्रतिपाद्यम् । तत्राऽयमभिप्रायः - घटो हि भावाभावोभयात्मा । न हि भावाद् व्यतिरिक्तोऽभावो नाम जगति समस्ति, नाऽपि भावोऽभावात्मतामन्तरेणाऽन्यतो व्यावृत्तस्वरूपो भवितुमर्हति । अतिरिक्तव्यावृत्तिमादाय व्यावृत्तरूपताभ्युपगमे नाऽनवस्था निरोद्धं शक्या । एवं च घटत्वेन घटस्य स्वरूपसत्त्वमित्यनेनेदमुक्तं भवति यदेव घटत्वं सकलघटसाधारणसमानाकारपरिणामलक्षणं तदेव घटस्य स्वरूपसत्त्वं, तदन्तरेण घटस्य स्वरूपसत्त्वानुपलम्भात् । एवं स्वद्रव्येण घटस्य स्वरूपसत्त्वमित्यतोऽपि यदेव मृद्रव्यं तदेव घटस्य स्वरूपसत्त्वं द्रव्यनयप्राधान्यमाश्रित्य । न हि मृद्रव्यानुपलम्भे घटस्वरूपमुपलभ्यत इति । एवं तत्तत्क्षेत्रेण सह संयुक्तत्वादिना तादात्म्याभ्युपगमेन तथात्वं, तथा स्वकालेनाऽपि । पटत्वेन घटो नास्तीत्यस्याऽयमर्थः – पटत्वेन घटस्य न स्वरूपसत्त्वं, तस्याऽपि घट: पटात्मा न भवतीत्यत्रैव पर्यवसानम् ।
न चैवं पटत्वावच्छिन्नप्रतियोगिताकाभावात्मको घट इति द्वितीयभार्थे घटस्य स्वरूपसत्त्वनिषेधो न विषयः, किन्तु पटनिषेध एवेत्यन्यस्य विधिः प्रथमभङ्गविषयोऽन्यस्य च निषेधो द्वितीयभङ्गविषय इति सप्तभङ्गीलक्षणक्षतिरिति वाच्यम् ।
यतः स्वरूपसत्त्वं प्रथमभङ्गविषयः, तदभावश्च द्वितीयभङ्गविषयस्तयोः परस्परविरहरूपत्वं स्पष्टमेव । स्यादित्यनेनोभयत्राऽपेक्षाभेदनिमित्तसमर्पणतस्तयोरविरोधस्य परस्परविरहानात्मत्वमादायोपपत्तावपि प्रथमस्थितिमुपादाय सप्तभङ्गीलक्षणमक्षतमेव । एवं परद्रव्यक्षेत्रकालाश्रितद्वितीयभङ्गविषयोऽप्यूह्यः । उक्तदिशोत्पादव्ययधौव्यलक्षणसत्त्वपक्षेऽपि द्वितीयभङ्गविषय आकलनीयः ।
वृत्तित्वात्मकेऽस्तित्वे स्वाभावातिरिक्तानां स्वद्रव्यादीनां निरूपकतयैवाऽन्वयस्तथा तदभावे नास्तित्वे
१. पृ. २२ पं. ६ । २. पृ. २३, पं. ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org