________________
सप्तभङ्गीप्रभा
तदुक्तेः, औदासीन्येन स्वार्थावधारणमात्रपरत्वेऽप्यंशोत्तरम, सप्रतिपक्षधर्मद्वयस्थले सप्तधर्मजिज्ञासया सप्तभिः प्रश्नैर्मिथः साकाङ्क्षसप्तभङ्गात्मकमहावाक्यस्यैव पूर्णोत्तरत्वात् । शबलं हि वस्तु यावद्धम॑र्जिज्ञासितं तावद्धर्माभिधान एव वाक्यं निराकाक्षं भवति” इत्यादि ।
___ कार्यकारणभावोऽपि सप्तभङ्गीमुपादायैव सम्भवतीत्ययमप्यर्थस्तत्रैव तैर्निणीतः “कस्या अपि कारणतायाः केनाऽपि रूपेण स्याद्वादं विना नियन्तुमशक्यत्वात् । अत एव सप्तभङ्गीविधिसमारूढत्वेनाऽर्थक्रियाकारित्वमिति प्राचीनोक्तिरपि सङ्गच्छते, तथाऽन्वयव्यतिरेकसधीचीनविचारस्य तथा कारणत्वग्रहहेतुत्वात्, यावति विचारे किंवृत्तचिद्विधिः पूर्यते तावत एव प्रमाणत्वात्" इत्यादिना ।
सप्तभङ्गीवादस्यैव सर्वमतोपजीव्यत्वं “स्याद्वाद एव तव सर्वमतोपजीव्यो, नाऽन्योऽन्यशत्रुपु नयेषु नयान्तरस्य । निष्ठावलं कृतधिया क्वचनाऽपि न स्व-व्याघातकं छलमुदीरयितुं च युक्तम् ।।३९।।"
इत्यनेन निष्टङ्कितम् । स्यात्पदस्याऽनिर्धारणार्थत्वाद् विरुद्धोभयगोचरज्ञानस्य संशयत्वेनाऽप्रमाणत्वाच्च सप्तभङ्गीनयो न प्रमाणमिति वदतः शिरोमणेरज्ञानमुद्घाटितं महोपाध्यायेन न्यायखण्डखाये – “न ह्येकत्र नानाविरुद्धधर्मप्रतिपादकः स्याद्वाद:, किन्त्वपेक्षाभेदेन तदविरोधद्योतकस्यात्पदसमभिव्याहृतवाक्यविशेषः स, इति द्योतिते च तदविरोधे संशयावकाशस्यैवाऽभावात् कथं स्वहृदयगतमनवधारणमस्मास्वारोप्यते शिरोमणिना?" इत्यादिना ।
सप्तभङ्गीवाक्यस्य सप्तधर्मप्रकारकवोधजनकत्वे व्यवस्थिते तदुपजीविनोऽनुमानस्याऽपि तथात्वम् । अमुमर्थमुपपादितवन्तः श्रीमन्त उपाध्यायाः -
“द्रव्याश्रया विधिनिषेधकृताश्च भङ्गाः, कृत्स्नैकदेशविधया प्रभवन्ति सप्त । आत्माऽपि सप्तविध इत्यनुमानमुद्रा, त्वच्छासनेऽस्ति विशदव्यवहारहेतोः ।।६९।।'' इति पद्येन ।
“यथा त्रिषु कार्येन त्रित्वमेकद्विव्यक्त्यव्यवच्छेदेन च तदभावः, तथा सर्वत्र वस्तुन्येकग्रहणगृहीते कात्स्येंनाऽनवच्छेदात्मना जात्यन्तरत्वपरिचायकेनोत्पादव्ययधौव्यलक्षणद्रव्यत्वम्, एकैकोत्पादाद्यवच्छेदेन तद्द्वयावच्छेदेन च तदभाव इति भवति सर्वत्र द्रव्यत्वतदभावकल्पनया सप्तभङ्गी । यद्वा समुदायप्रवृत्तानां शब्दानामवयवोपचारं कृत्वा धौव्यलक्षणं द्रव्यत्वम्, उत्पादव्ययलक्षणं पर्यायत्वं चाऽऽदाय सप्तभङ्गीप्रवृत्तिर्भावनीया । एवमात्माऽपि द्रव्याद्रव्यत्वादिना सप्तविधः । कस्मात् ? विशदव्यवहारहेतोः, स्याच्छब्दलाञ्छितसप्तप्रकारकव्यवहारान्यथानुपपत्तेः । घटादिवदिति दृष्टान्तोऽभ्यूह्यः । इतीयं त्वच्छासने आगमोपजीव्यनुमानमुद्राऽस्ति । एतच्च प्रकारद्वयमर्थपर्यायमाश्रित्य, व्यञ्जनपर्यायमाश्रित्य पुनः सविकल्पकनिर्विकल्पकत्वाभ्यां भेदद्वयमेव । अर्पितत्वं सविकल्पत्वमनर्पितत्वं निर्विकल्पत्वम् । अर्पणाकुक्षौ पर्यायप्रवेशादात्मनो द्रव्यपर्यायो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org