________________
४८
सप्तभङ्गीप्रभा
तत्राऽपि भवदभिमतानां दोषाणामभावात् । तथा हि - स्यादस्त्येव घट इत्यत्र वृत्तित्वरूपास्तित्वपक्षे भूतलाद्यधिकरणे घट एव साक्षात् प्रतिपादयितुमिष्टः, परं निपातातिरिक्तनामार्थयोरभेदातिरिक्तसम्बन्धेन साक्षादन्वयो न भवतीति नियमात् स न सम्भवतीति वृत्तित्वरूपार्थमस्तिप्रतिपाद्यमन्तराकृत्य भूतलाद्यधिकरणघटाद्याधेययोः सम्बन्धः प्रतिपादितो भवति । यद्यप्यस्तीत्यस्याऽनुपादानेऽपि स्याद् घट एवेत्यत्र भूतल इत्यादेरध्याहारतो भूतलादिवृत्तित्वप्रतीतिः सम्भवति, तथाऽपि स्याद् घट एवेत्येतावन्मात्रोक्तौ घटाभावस्येव घटातिरिक्तानां यावतामेव विध्यात्मकानां निषेधात्मकानां च व्यवच्छेदावगमः स्यात् । यथा वेदान्तिनां वहौवेत्यक्त्या व्रहाव्यतिरिक्तस्य निखिलप्रपञ्चस्य व्यवच्छेदः, यथा वा योगाचारमतानयायिनां विज्ञानमेवेत्युक्त्या ज्ञानातिरिक्तवस्तुमात्रस्य व्यवच्छेदः, न चैवमिष्टम्, अतोऽस्तीति प्रयुज्यते । तथा सति घटाभावस्यैव व्यवच्छेदावगतिः । स्यान्नास्त्येव घट इत्यत्र च भूतलाद्यधिकरणे साक्षात् प्रतिपादयितुमिष्टस्य घटात्यन्ताभावस्य वृत्तित्त्वाद्यर्थमनन्तर्भाव्याऽपि नास्त्यर्थस्य तथावबोधे शब्दमर्यादानतिक्रम एव । घटो नास्तीत्येतावन्मात्रोक्तो घटस्य नास्त्यर्थेऽभावे घटत्वावच्छिन्नप्रतियोगितैव संसर्गतया भासते, नञाद्यर्थेऽभावे प्रतियोगिनोऽन्वयितावच्छेदकावच्छिन्नप्रतियोगितैव संसर्ग इति व्युत्पत्तेः । अन्यथा यत्किञ्चिद्घटवत्यपि देशे स्यादर्थमनन्तर्भाव्याऽपि घटो नास्तीति प्रतीतिः स्यात्, घटनिष्ठतद्घटत्वाद्यवच्छिन्नप्रतियोगिताकाभावस्य सत्त्वात, कथञ्चिदर्थकपदासमभिव्याहारे इति विशेषणस्योक्तनियमे प्रवेशाच्च । स्यादित्युक्तौ घटस्य पटत्वाद्यवच्छिन्नप्रतियोगिताभावे संसर्गतया भासते । प्रतियोगित्वस्य प्रथमार्थत्वपक्षे च स्यात्पदस्य वाचकत्वे तदर्थस्य पटत्वाद्यवच्छिन्नत्वस्य तत्राऽन्वयः । द्योतकत्वे तत्समभिव्याहारात् प्रथमाया एव पटत्वावच्छिन्नप्रतियोगित्वमर्थः । भूतलवृत्तित्वप्रकारकघटविशेष्यकबुद्धिं प्रति भूतलविशेष्यकघटाभावप्रकारकज्ञानस्याऽसमानप्रकारकस्याऽपि प्रतिवन्धकत्वमनुभववलादास्थीयते । घटनिष्ठवृत्तित्वस्य घटरूपत्वादेव घटतदभावरूपविधिनिषेधावलम्वित्वं तत्सप्तभङ्ग्या न दुर्घटम् । घटनिष्टप्रतियोगिताकाभावस्य व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकस्य केवलान्वयिनो न वृत्तित्वविरोधित्वमिति तत्समर्पकस्य स्यादित्यस्य भवति सामञ्जस्यम् । स्वद्रव्यादीनां च घटसम्वन्धित्वेन न व्यधिकरणत्वं, परद्रव्यादीनां च घटसम्वन्धित्वाभावेन भवति व्यधिकरणत्वमित्येवं दिशा व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य द्वितीयभङ्गविषयत्वमपि न विरुध्यते । तत्तदभावयोरेकत्र सत्त्वोपपत्तये एवाऽवच्छेदकभेदोपासना, नाऽन्यथा । तच्च द्वितीयभने स्यादित्यनेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकत्वस्याऽववोधनेऽपि निर्वहति । न ह्येकान्तवादिकल्पितदिशैवाऽनेकान्तवादिभिः प्रवर्तितव्यमित्यस्ति राज्ञामाज्ञा ।
व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावमादाय द्वितीयभङ्गप्रवृत्तिपक्षे च नाऽव्याप्यवृत्तित्वाश्रयणस्य प्रयोजनमिति, अव्याप्यवृत्तित्वनिर्वाहकावच्छेदकतातिरिक्तावच्छेदकतया यत्र विधिकोटौ धर्मादेः प्रवेशस्तत्र निषेधकोटावभावीयप्रतियोगितायामेवाऽवच्छेदकतया धर्मादेरन्वय इत्युत्सर्ग एव । इत्थं च १“एवं सति स्वद्रव्यादिना घटोऽस्त्येवेतिवत् स्वद्रव्यादिना घटो नास्त्येवेत्यपि भङ्गो यथार्थः स्यात्, परद्रव्यादीनामिव १. पृ. १४ पं.६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org