________________
सप्तभङ्गप्रभा
निवारयितुं शक्यैव । एवं संशयाज्ञानयोरपि तत्र यथा नाऽनवस्थादोषोज्जृम्भणं तथोपपादितं प्राक् । एतेन “ एवमयमप्यर्थः परं प्रति स्याद्वादमवतार्यैवोपदर्शनीय इति कथं प्रथमत एव स्यादस्त्येव घट इत्यादि सप्तभङ्गी समवतरेत् ?” इति वचनमुन्मूलितमवसेयम् । तस्माद् वृत्तित्वलक्षणं स्वरूपसत्त्वलक्षणमुत्पादव्ययध्रौव्यलक्षणं चाऽस्तित्वं प्रथमभङ्गविषयः स्याद्वादिनां सिद्ध्यत्येव । निषेध्यस्याऽस्तित्वस्य प्रसिद्धौ च तन्निषेधरूपं नास्तित्वं द्वितीयभङ्गविषय इत्यकामतोऽपि परैः स्वीकरणीयः ।
न चैवं व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य द्वितीयभङ्गविषयत्वं न स्यात्, उक्तरीत्या व्यधिकरणधर्मावच्छिन्नानुयोगिताकाभावस्यैव द्वितीयभङ्गविषयत्वादिति वाच्यम् ।
नहि व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव एव द्वितीयभङ्गविषय इत्यस्ति राज्ञामाज्ञा । यतः प्रमेयत्वं घटपटादिसाधारणं, न घटस्याऽसाधारणो धर्मः । तद्रूपेण घटस्य सत्त्वाभ्युपगमे पटोऽपि घटः स्यादिति प्रमेयत्वस्य पररूपत्वं विवक्षित्वा घटत्वेनाऽस्त्येव घटः, प्रमेयत्वेन नाऽस्त्येव घट इत्येवं सप्तभङ्गप्रवृत्त व व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावावकाशः ? यद्वा प्रमाणानवतारे वस्तुसत्ता सत्यप्यसत्कल्पैवेति प्रमाविषयत्वमेव वस्तुनः प्रधानं रूपम् । प्रमात्वस्य च तद्वति तत्प्रकारकज्ञानत्वरूपत्वेन तत्तद्धर्मघटितत्वादसाधारण्यमपीति तस्य स्वस्वभावत्वम् । घटत्वादिकं त्वसाधारणमपि प्रमामन्तरेण न घटादिसत्तासिद्धिक्षममिति तस्य पररूपत्वं विवक्षित्वा प्रमेयत्वेन घटोऽस्त्येव, घटत्वेन घटो नाऽस्त्येवेति सप्तभङ्गीप्रवृत्तावपि न व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्याऽवकाशः । एवं नित्यत्वानित्यत्वभेदाभेदादिधर्मप्रतिपादकसप्तभङ्गीमात्रे द्रव्यत्वादेः पर्यायत्वादेश्च घटादिवर्तिन एव प्रथमद्वितीयभङ्गविषयापेक्षानिमित्तत्वमिति सर्वत्र व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य व्यधिकरणधर्मावच्छिन्नानुयोगिताकाभावस्य वा द्वितीयभङ्गविषयत्वमिति नियमस्त्याज्य एव ।
न चाऽस्तित्वनास्तित्वप्रतिपादकसप्तभङ्गयां व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव एव विषय इति वाच्यम् ।
तत्राऽपि व्यभिचारस्याऽनन्तरमेव प्रदर्शितत्वात् ।
४७
न च, व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्याऽपि द्वितीयभङ्गविषयत्वं तत्तद्ग्रन्थपर्यालोचनया प्रतीयते । उक्तं च न्यायविशारदेनाऽपि महावीरस्तवे
“अव्याप्यवृत्तिगुणभेदमुदीर्य नव्या भावं प्रकल्प्य च कथं न शिरोमणे ! त्वम् । स्याद्वादमाश्रयति सर्वनयोपपन्नं, बूमः प्रसार्य निजपाणिमिति त्वदीयाः ||9||" इति । अत्र नव्याभावपदेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्यैवोल्लेखादिति वाच्यम् ।
१. पृ. २१ पं. ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org