________________
४६
न च, कपिसंयोगस्य मूले सत्त्वादेव तदवछेदकत्वं तस्येति वाच्यम् । एकस्य संयोगस्य व्यक्तिद्वयमात्रवृत्तित्वनियमेन मूलवृत्तिकपिसंयोगस्य वृक्षेऽभावात् । न च, वृक्षाधिकरणत्वमात्रेणाऽवच्छेदकत्वे शाखादीनामप्यवच्छेदकत्वापत्तिरिति वाच्यम् ।
तदानीं शाखायां कपिसंयोगाभावात् । तथा च यदवयवसंयोगप्रयुक्तावयविनि संयोगस्तदवयवस्याऽवच्छेदकत्वं, तथा स्वद्रव्यादीनां सत्त्वाश्रयघटादिसम्बन्धित्वादेव घटादिवृत्त्युक्तसमुदायात्मकसत्त्वावच्छेदकत्वम् । न च स्वद्रव्यस्य यादृशं घटादिसम्बन्धित्वं ततोऽन्यादृशमेव स्वक्षेत्रादीनां तत्सम्बन्धित्वमित्यननुगतस्यैव सम्वन्धित्वस्य नियामकत्वेन परद्रव्यादीनामपि यथाकथञ्चित्सम्बन्धित्वेन सत्त्वावच्छेदकत्वापत्तिरिति वाच्यम् ।
सप्तभङ्गप्रभा
यतः स्वद्रव्याद्यभावे घटस्य सत्त्वमेव न निर्वहतीति स्वद्रव्यादिसत्ताया घटसत्ताप्रयोजकत्वेन तदवच्छेदकत्वमुपपत्तिपद्धतिमेति । परद्रव्यादिसत्ता च न घटसत्ताप्रयोजिकेति कथं तस्य तदवच्छेदकत्वम् ? परन्तु सत्त्वरूपप्रतियोग्यनवच्छेदकत्वाद् यथाकथञ्चित्सम्वन्धितामात्रेण सत्त्वाभावावच्छेदकत्वं स्यादेवेति । समुदायस्य च न सर्वथा समुदाय्यभिन्नत्वं किन्तु भिन्नत्वमपीति प्रत्येकमुत्पादाद्यनवच्छेदकस्याऽपि स्वक्षेत्रादेस्तत्समुदायावच्छेदकत्वं नाऽनुपपन्नमिति । एतेन “ परस्परविलक्षणस्वभावानामुत्पादादीनामेकेन केनचित् स्वद्रव्यादिना निरूपितत्वस्याऽवच्छेद्यत्वस्य वाऽसम्भवात्" इत्युक्तिरपास्ता ।
समुदायाभावस्यैव द्वितीयभङ्गविषयत्वं, न तु प्रत्येकाभावस्य तस्य प्रथमभङ्गविषयसमुदायविरोधित्वेऽपि तदभावानात्मकत्वात् । यत् प्रत्येकाभावावच्छेदकं तत् समुदायाभावावच्छेदकमिति न नियमः, किन्तु यत् समुदायस्याऽनवच्छेदकं तत् तदभावावच्छेदकमित्येव नियमः । तेन स्वद्रव्यादेर्व्ययाभावाद्यवच्छेदकत्वेऽपि न तत्समुदायाभावावच्छेदकत्वं तेन न स्वद्रव्याद्यवच्छेदेन निरुक्तसत्त्वाद्यभावः । तथा च २ “स्वद्रव्यस्य धौव्यमात्रावच्छेदकत्वं न तूत्पादव्यययोरित्येवं विवक्षया स्वद्रव्येणोत्पादाभावं व्ययाभावं वाऽवलम्ब्य प्रवर्तमानो द्वितीयभङ्गः कथमुन्मूलनीयः ?” इत्यस्य नाऽवकाशः ।
यत्तु ३ भिन्नकालीनानामुत्पादादीनामवच्छेदकत्वं निरूपकत्वं वा स्वद्रव्यादिष्वभ्युपगम्यते समानकालीनानां वा ?” इति विकल्पितं, तत्र द्वितीयकल्प एवाऽभ्युपगम्यते । प्रतिनियतापेक्षानिमित्तं क्रोडीकृत्य सिद्धस्वरूपाणां त्रयाणां समुदायस्य कथञ्चित्समुदायिभ्यो भिन्नस्याऽवछेदकत्वं स्वद्रव्यादिषूपपादितमेव । यश्च यदा विवादाध्यासितोऽज्ञातो वा सन्दिग्धो वा यं प्रति तं प्रति स तदा बोधनीयो भवतीत्येव नियमः । सत्त्वमसत्त्वं च यद् भवतु तद् भवतु, न तत्र वादिनां विवादो वर्तते । किन्तु तदुभयं विरुद्धस्वभावं कथमेकत्र वर्ततामित्येव तत्रैकान्तवादिनां पृच्छा । सा च सत्त्वासत्त्वयोरवच्छेदकभेदोपदर्शनेन भवत्युपशान्ता । यदा तु केषाञ्चित् सत्त्वादिस्वरूपावलम्बिन्यपि पृच्छा भवति, तदा सा तत्स्वरूपविशेषप्रसिद्धिप्रवणेन स्याद्वादेन १. पृ. २० पं. २१ । २. पृ. २० पं. २४ । ३. पृ. २० पं. २६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org