________________
सप्तभङ्गप्रभा
न च, निरूपकत्वपक्षमाश्रित्य स्वद्रव्यादीनामिदानीमपेक्षानिमित्तत्वस्याऽनभ्युपगमेऽप्यवच्छेदकत्वविधया तत्त्वमभ्युपगतम् । तच्चोत्पादादित्रयाणां समुदायापेक्षया प्रत्येकापेक्षया वा न सम्भवतीत्युपदर्शितं प्रागिति वाच्यम् ।
यत उत्पादादीनां त्रयाणां परस्पराभावरूपत्वान्नाऽवच्छेदकभेदापेक्षा, न ह्युत्पादाभावो व्ययः, धौव्यं वा, ध्रौव्याभावो वोत्पादव्ययौ, व्ययाभावश्चोत्पादधौव्ये, किन्तु परस्परविरुद्धस्वभावत्वात् । तच्च विरुद्धस्वभावत्वं तेषामेकस्वरूपेणैककाले, न तु विभिन्नरूपेण विभिन्नकाले वा, अतस्तादृशस्वभावभञ्जनायाऽपेक्षितं निमित्तमुत्पादादीनां स्वरूपसन्निविष्टमेव । स्वरूपसन्निविष्टस्याऽप्यवच्छेदकत्वं न विरुद्धं यथा वृत्तित्वरूपनिविष्टस्याऽधिकरणात्मकनिरूपकस्य प्रतीत्यनुरोधेनाऽवच्छेदकत्वम् ।
अथ वृत्तित्वस्य सनिरूपकत्वाद् भवतु तत्स्वरूपेऽधिकरणस्य प्रवेशः, उत्पादादौ तु कथमवच्छेदकतया सम्मतस्य प्रवेश ? इति चेत्;
उत्पादो हि स्वाधिकरणक्षणध्वंसानधिकरणक्षणसम्वन्धः । तत्र स्वस्य घटादेर्येन घटत्वादिनोत्पादस्तेनैव रूपेण प्रवेशः कार्यः, अन्यथा घटादिनिष्ठसत्त्वद्रव्यत्वावच्छिन्ननिरूपकतानिरूपिताधिकरणतावत्क्षणध्वंसाधिकरणत्वस्यैव कालमात्रे सत्त्वेन तादृशध्वंसानाधिकरणक्षणाप्रसिद्ध्योत्पादस्वरूपस्यैवाऽप्रसिद्धिः स्यात् । कस्याऽवच्छेदकत्वं घटत्वादौ स्यात् ?
४५
एवं व्ययो नाम विनाशः, तस्य स्वरूपे यद्यपि नाऽवच्छेदकस्य प्रवेशः, तथाऽपि तस्य प्रतियोगित्वमेव प्रतियोगिना सह सम्बन्धः, प्रतियोगिता च येन रूपेण विनाशोऽभिमतस्तद्रूपावच्छिन्नैवेति ।
एवं धौव्यं यदि नित्यत्वं तदा तस्य कालत्वव्यापकाधिकरणतानिरूपकत्वरूपत्वात् तस्य च सावच्छिन्नत्वेनाऽवच्छेदकस्य तत्र प्रवेश आवश्यकः । यदि च यस्य यावत्कालं स्थितिर्व्यवह्रियते तस्य तावत्कालस्थायित्वं धौव्यमभिप्रेतम्, अत एव घटस्य घटत्वेन रूपेण नित्यत्वाभावेऽपि स्थितिदशायां पूर्वापरावान्तरपर्यायरूपेणोत्पादविनाशयोगित्वं घटत्वेन रूपेण च धौव्यमिति, तदा स्वाधिकरणत्वेनाऽभिमतकालत्वव्यापकाधिकरणतानिरूपकत्वं स्वाधिकरणक्षणध्वंसाधिकरणक्षणसम्बन्धो वा धौव्यमिति । एवमप्यवच्छेदकस्य तत्र प्रवेशो नियत एवेति । उत्पादव्ययधौव्यलक्षणसत्त्वतदभावयोश्च परस्पराभावरूपयोर्नाऽवच्छेदकभेदमन्तरेणैकत्राऽवस्थानमिति घटादौ तदुभयप्रतीत्यनुरोधेन कल्प्यमानमवच्छेदकं स्वद्रव्यादिपरद्रव्यादि च तत्स्वरूपप्रवेशाप्रवेशौदासीन्येन कल्प्यते । न ह्येकमुत्पादादि सत्त्वं किन्तु समुदितमिति समुदायनिष्ठयवच्छेद्यतानिरूपितावच्छेदकतैव स्वद्रव्यादिषु । न च तत्र समुदाय्यवच्छेदकत्वात् समुदायावच्छेदकत्वं, स्वद्रव्यस्य धौव्यात्मकसमुदाय्यवच्छेदकत्वसम्भवेऽपि स्वक्षेत्रादौ तदभावात् । किन्तु यथा न्यायमते मूले वृक्षः कपिसंयोगीत्यत्र मूलरूपावयवस्य वृक्षरूपावयविवृत्तिकपिसंयोगानधिकरणत्वेऽपि वृक्षाधिकरणत्वात् तद्वृत्तिधर्मावच्छेदकत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org