________________
सप्तभङ्गीप्रभा एवं येन क्षेत्रेण सह घटस्य संयोगस्तेनैव सहान्यस्याऽपि संयोगस्तस्याऽपि च संयोगानुरोधात् तेन क्षेत्रेण सह भेदाभेद आवश्यकः । तथा च घटस्य स्वसंयोगविगमदशायामपि स्वाभिन्नक्षेत्राभिन्नपदार्थसंयोगमादाय स्वक्षेत्रेऽस्त्येव घट इत्युपपद्यते स्याद्वादे । एवं यस्य वस्तुनो यावत्क्षेत्रावगाहनं स्वभावस्तद्वस्तु तावन्तं क्षेत्रमवगाविाऽवतिष्ठते इत्यपि स्वक्षेत्रापेक्षया सत्त्वस्यैव महिमेति बोध्यम् ।।
वर्त्तनालक्षणः कालः । वर्तना च वस्तूनां नवपुराणादिभाव इति घटस्य नवपुराणादिभावेनाऽवस्थानस्य नियतत्वाद् घटस्य सत्त्वं नवपुराणादिभावलक्षणस्वपर्यायावच्छेद्यमिति कृत्वा स्वकालेनाऽस्त्येव घट इति स्याद्वाद एवोपपद्यते, न परमते । सामान्यविशेषोभयस्वभावो घटादिरेव, न तु घटादितो व्यतिरिक्तं घटत्वादिसामान्यमित्यनुवृत्तस्वभावस्य घटस्याऽवस्थानलक्षणं स्वरूपसत्त्वं भवति घटत्वापेक्षमिति तदादाय स्वभावेन घटोऽस्त्येवेति स्याद्वाद एवोपपद्यते, न त्वतिरिक्तसामान्याभ्युपगमवादिनां नैयायिकादीनामिति वस्तुगतिः ।
तत्र यद्विकल्पितं “तत् किं घटादिकमेव ततो व्यतिरिक्तं वेति ? तत्र बूमः, न घटादिकमेव, नाऽपि व्यतिरिक्तमेव सर्वथा, किन्तु ततो भिन्नाभिन्नं, यतो नैकान्तेनाऽभेदः, अतः पृथक्प्रयोगः । यतश्च नैकान्तेन भेदः, अतो न स्वरूपताया व्याघातः । तथा चैकान्तभेदमेकान्ताभेदमवलम्ब्य प्रदर्शितं दोषजालमरण्यरुदितमेव ।
यत्त्वस्मिन् पक्षे उक्तं “एकान्तवादिनं परं प्रति सप्तभङ्गयात्मकस्याद्वादेन सत्त्वासत्त्वाद्यनेकधर्मात्मकत्वं भवता बोधनीय''मित्यादि, तत्रोच्यते - अस्ति घट इति प्रतीतिर्भवति सर्वेषां मते, न तत्र शुष्कविवादो न्याय्यः । सा च प्रतीतिः कथञ्चिदर्थं क्रोडीकृत्यैव प्रामाण्यमासादयति । अन्यथा घटस्य सर्वात्मकत्वादिप्रसङ्गोऽपरिहार्यः । एवं चाऽस्तित्वं भेदेऽभेदे चाऽनुपपद्यमानं यदि भेदाभेदमादायैवोपपद्यते तदा कोऽत्रोपायः? वस्तुपक्षपातो हि धियां स्वभावः । परं प्रति यावज्जिज्ञासमुपदर्शनीयमेव वस्तुतत्त्वम् । जिज्ञासोपरमादेव प्रतिपादनप्रकारोपदर्शनोपरमे क्वाऽनवस्थोल्लासः ? वस्तुन्यनवस्था तु प्रामाणिकी न दोषतामावहति । घटस्य घट इति प्रतीतिर्न भवति, घटस्य स्वरूपमिति प्रतीतिस्तु भवति । सा च भेदाभेदमवलम्व्यैवोपपद्यमाना न स्वरूपत्वविघातिका, तेन “किञ्चाऽस्मिन्पक्षे स्वरूपसत्त्वमित्यस्य संज्ञामात्र''मित्यनववोधविलसितमेव । यथा चाऽऽपेक्षिकत्वमस्य स्याद्वादे घटते तथोपपादितमनन्तरमेव । “तथा चाऽऽपेक्षिकत्वं यदस्य तन्न धर्मिणोऽभेदमवलम्व्ये”त्यादि तु सम्मुग्धजनप्रतारणमेव । यतो न भेदमात्रं नाऽप्यभेदमात्रमवलम्व्य स्वरूपसत्त्वस्य चाऽऽपेक्षिकत्वं, येनोक्तदोषघटना स्यात् । किन्तु तयोः सम्मिश्रणेन पानकरसवत् प्रकारान्तरतामापन्नस्य तस्य तथात्वं, निषेध्यत्वमपि तस्य तथाविधस्वरूपस्येति न धर्मिणो निषेधापत्तिः । स्वरूपसत्त्वरूपास्तित्वस्य वृत्तित्वातिरिक्तत्वेऽपि यथा स्वद्रव्यादीनामपेक्षणं तथोपपादितमेव । उत्पादव्ययधौव्यवत्त्वलक्षणस्य सत्त्वस्याऽस्तिपदार्थत्वेऽपि न कोऽपि दोषः ।
१. पृ. १७ पं. ३ । २. पृ. २० पं. ४ । ३. पृ. २० पं.७ ।
४. पृ. २० पं. ८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org