________________
सप्तभडीप्रभा
४५ स्वद्रव्यादीनामपि घटनिष्ठवृत्तित्वेऽसत्त्वेन व्यधिकरणधर्मत्वाविशेषादि"त्यादि यदुक्तं तन्निरस्तम् । इदानीं द्वितीयभङ्गे वृत्तित्वस्य प्रतियोगितया प्रवेशानङ्गीकारात् । ।
किञ्च, घटनिष्ठवृत्तित्वस्य प्रतियोगित्वेऽपि स्वद्रव्यादीनां निरूपितत्वसम्वन्धेन सत्त्वात् समानाधिकरणधर्मत्वं परद्रव्यादीनां तेन सम्बन्धेनाऽसत्त्वाद् व्यधिकरणधर्मत्वमित्यतोऽपि स्वद्रव्यादिना घटो नास्त्येवेत्येवंरूपेण द्वितीयभङ्गप्रवृत्तिर्न सम्भवति । प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमाविति न्यायस्याऽप्युक्तेर्न विरोधः, प्रतियोग्यन्वयवोधे घटत्वादौ प्रकारतावच्छेदकत्वस्याऽभावान्वयवोधे च प्रतियोगितावच्छेदकत्वस्य भवतामप्यनुमतत्वेनैकविधावच्छेदकत्वस्य कुत्राऽप्यभावेनाऽवच्छेदकतात्वेन साम्यमात्रस्योक्तन्यायेनाऽपेक्षिततया तस्य प्रकृतेऽप्यवाधात् ।
यत्तूक्तं “कथं चैवमप्येकान्तवादिव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाभ्युपगन्तृवेदान्त्यादिमतादविशेषः परिहृतो भवतीति”, तत्र वूमः, द्वितीयभो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावमादायैवेति नाऽभ्युपगम्यतेऽस्माभिः । व्यधिकरणधर्मावच्छिन्नानुयोगिताकाभावाद्यवलम्वनेनाऽपि तस्योपपादितत्वात् । नाऽपि द्वितीयभङ्ग एव सप्तभङ्ग्याः पर्यवसानं, येन द्वितीयभङ्गस्याऽन्याभिमतार्थविषयत्वेन सप्तभङ्ग्या गतार्थत्वं स्यात् ।
किञ्च, वेदान्तवाद्यतिरिक्तैकान्तवादिनां व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाभ्युपगमेन नाऽस्ति कृत्यं, किन्तु वेदान्तिन एव स्वाधिष्ठाननिष्ठात्यन्ताभावप्रतियोगित्वलक्षणमिथ्यात्वस्य जगत्युपपत्तयेऽधिष्ठानभूते ब्रह्मणि पारमार्थिकत्वेन रूपेण घटाद्यत्यन्ताभावस्याऽभ्युपगमः । स चाऽभावो द्वैतापत्तिभिया सर्वथा ब्रह्माव्यतिरिक्त एवेति नैवंभूतेनाऽभावेन द्वितीयभङ्गोपपत्तिः । यस्तु भूतले पटत्वेन घटो नास्तीति प्रतीतिसिद्धोऽभावस्तस्य तन्मते घटादिसमशीलस्य मिथ्यात्वेनैवाऽभ्युपगम इति कथं तस्य परमार्थतयाऽभ्युपगच्छतामस्माकं मते तन्मतादविशेषापादनम् ? प्रत्युताऽस्मन्मतसिद्धस्य व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्याऽवलम्वनेन स्वमतसिद्धिं विदधतो वेदान्तिन एव स्याद्वादित्वमापतति । अत एव, अव्याप्यवृत्तिगुणभेदमुदीर्येत्यादिश्लोकेन शिरोमणिं प्रति श्रीमतां यशोविजयोपाध्यायानां स्याद्वादाश्रयणोपदेशः । न चेयं सप्तभङ्गी अर्वाचीनैरेव गुम्फिता, येन सम्भाव्येताऽपि वेदान्त्यभ्युपगतव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावश्रयणेन द्वितीयभङ्गोपपादनम्, किन्तु भगवत्यादावाकरेऽपि सा प्रसिद्धैवेति ।
___ यथा च परद्रव्यादिना घटो नास्तीति प्रतीतिर्भवति तथा यदि स्वद्रव्यादिना घटो नास्तीति प्रतीतिः स्यात्, कल्प्येताऽपि तदनुरोधेन स्वद्रव्यादीनां व्यधिकरणधर्मविधयाऽवच्छेदकत्वम् । न त्वेवम् । अतो यदुक्तं २“स्वद्रव्यादीनां वृत्तित्वनिष्ठप्रतियोगितायाः साक्षादवच्छेदकत्वे”त्यादि, तदाग्रहविलसितमेव । घटत्वे नाऽस्त्येव घट इति प्रथमभङ्गेऽस्तित्वस्य वृत्तित्वरूपत्वपक्षे सर्वदेशवृत्तित्वं घटस्य घटत्वेन रूपेण मा १. पृ. १५ पं. १० । २. पृ. १५, पं. ११ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org